SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४२५३ ] संभरिऊण य रुट्ठो पडिनीयत्तं करेज्जाहि ॥ वृ. स आर्तध्यानो मृत्वा तिर्यक्षु वा तिर्यग् योनिषु गच्छेत् यदि वा वनचरेषु वानमन्तरेषु मध्ये स समुत्पद्येत्तत्र जातिं स्मृत्वा त्यक्तौऽहं तस्यामवस्थायामिति रुष्टः सन् बहुविधं प्रत्यनीकत्वं कुर्यात् । भा. [४२५४] अहवा विसव्वरीए मोयं दिन्नाहि जायमाणस्स । सो दंडियादि हुज्जा रुट्ठो साहे निवादीणं ॥ कुजा कुलादि पत्थारं सो वा रुट्ठो उ गच्छे । . मिच्छत्तं तप्पयं च दीहं भमेज्ज संसारकंतारे || ४७५ भा. [ ४२५५ ] वृ. अथवा सर्वपर्यापनीयं याचमानस्य रात्रौ पानीयं नास्तीति मोकं प्रश्रवणं सोऽगीतार्थो दद्यात् । स च ण्डिकादीनां सम्बन्धी निष्क्रान्तः स्यात् ततः स धातुवैषम्येन रुष्टः सन् अवधावेत्। अवधाव्य च नृपादीनां कथयेत्ततः प्रवचनस्य महानुड्डाहः । यदि वा स राजादिस्तत्पक्षपतितः सोऽपि वा स्वयं रुष्टकुलादिप्रस्तारं कुलस्य गणस्य वा विनाशं कुर्यात्। यद्यपि च एवमादयो भवति । तथा प्रथमद्वितीयपरीषहाभ्यां परितप्यमानोऽसमाधिना मृतो दुष्कर (रा) मपि कृत्वान्तक्रियां कल्पविमानोपपत्तिं वा न प्राप्नुयात् । किन्तु वानमन्तरादिषूपपद्येत यदि वा कषायपीडितो दृष्टिविषः सर्पो जायेत । गच्छे मिच्छत्तमिति इह भवे वा मिथ्यात्वं गच्छेत् तत्प्रत्ययं च मिथ्यात्वप्रत्ययं च दीर्घसंसारकान्तारं भ्रमेत् । भा. [४२५६ ] सो उ विविंचिय दिट्ठो संविग्गेहिं तु अन्नसाहूहिं । आसासियमनुसिट्ठो भरणो वि पडिवन्नं ॥ वृ. स प्रत्याख्यातभक्तो भक्तं याचमानो अगीतार्थः साधुविविक्तः परित्यक्तोऽन्यैः संविग्नैगीतार्थसाधुमिदृष्टस्ततस्तैराश्वासित आश्वास्य च अनुशिष्टोऽतिशयेन दूरमुत्साहितस्ततो यत् अभ्युद्यतमरणं त्यक्तं तत्पुनरपि तेन प्रतिपन्नं ततः सुगति भागी जातः । भा. [४२५७ ] एए अन्ने य तर्हि व दोसा य पच्चवाया य। कारणेहिं गीयत्थ न कप्पति परिण्णा || वृ. यस्मादेतेऽनन्तरोदिता अन्ये चानुक्ता वहवो दोषाः प्रत्यवायाश्चागीतार्थस्य समीपे भक्तपरिज्ञाप्रतिपत्तौ तस्मादेतैः कारणैरगीतार्थस्य समीपे परिज्ञा भक्तपरिज्ञा न कल्पते । संविग्नगीतार्थानां च समीपे बहवो गुणास्तस्मात्तन्मार्गणा कर्तव्या । सा च द्विधा - क्षेत्रतः कालतश्च । भा. [४२५८] पंच व छ सत्तसए अहवा एत्तो वि सातिरेगतरे । गीयत्थपायमूलं परिमग्गेज्जा अपरितंतो ॥ वृ. पञ्च षट् सप्त वा योजनशतान्यणवा इतोऽपि सातिरेकतराणि योजनशतानि संविग्नपादमूलमपरित्रान्तो अनिवृत्तो मृगयते । उक्ता क्षेत्रतो मार्गणा । कालत आह भा. [ ४२५९ ] एक्कं च दोव तिन्नि च उक्कोसं बारसेव वासाणि । Jain Education International गीयत्थ पायमूलं परिमग्गेज्जा अपरितो ॥ वृ. एको द्वे त्रीणि वा उत्कर्षतो द्वादशवर्षाणि यावदपरित्रान्तो अनिर्विन्नो गीतार्थपादमूलं परिमृगयते । For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy