________________
४७४
व्यवहार - छेदसूत्रम् - २ - १० / २५१ पक्षैर्वर्षस्थाने मासान्पक्षांश्च स्थापयित्वा तपोविधिः प्रागिव निरवशेष उभयत्रापि भावनीयम् एत्तो एगतरेणं, संलेहणं खवेसु अप्पाणं । कुज्जा भत्तपरिण्णं इंगिनि पाओवगमणं वा ॥
भा. [४२४७]
वृ. एतेषामुत्कृष्टमध्यमजघन्यानां संलेखनानामेकतरेण संलेखनेनात्मानं क्षिपयित्वा कुर्यात् भक्तपरिज्ञामिङ्गिनीमरणं पादपो गमनं वा, गतं संलेखनाद्वारमधुना अगीतद्वारमाहअग्गीयसगासंमी भत्तपरिएणं तु जो करेज्जाहि । च गुरुगा तस्स भवे किं कारणिज्जेणिमे दोसा ।।
भा. [४२४८ ]
वृ. गीतार्थस्य समीपे भक्तप्रत्याख्यातव्यं, यस्त्वगीतस्वागीतार्थस्य सकाशे समीपे भक्तपरिज्ञा भक्तप्रत्याख्यानं करोति तस्य प्रायश्चित्तं चत्वारो गुरुका: किं कारणमुच्यते येन कारणेन इमे वक्ष्यमाणादोषास्तेन कारणेन तत्र तानेव दोषानाह
भा. [४२४९]
नासेती अग्गीतो चउरंगं सव्वलोयसारंगं ।
नट्ठमिय चउरंगे न हू सुलभं होइ चउरंगं ॥
.वृ. अगीतो अगीतार्थो निर्यापकस्तस्यकृतभक्तप्रत्याख्यानस्य चतुरङ्गं चतुर्णामंगानां समाहाश्चतुरङ्गं वक्ष्यमाणं कथंभूतमित्याह सर्वलोकसाराङ्ग अङ्गवरं प्रधानमित्यनर्थान्तरं सर्वेषामपि त्रयाणामपि लोकानां यानि अङ्गानि तेषां सारमिति विशिष्टमङ्ग प्रधानं सर्वलोकसारांग नष्टे च चतुरङ्गे न पुनः सुलभं प्रापं भवति चतुरङ्गं, किन्तु चुल्लकादिदृष्टान्तैरतिशयेन दुःप्रापं तताऽगीतस्य समीपे भक्तं न प्रत्याख्येयम्
भा. [ ४२५० ]
किं पुन तं चउरंगं जं नट्टं दुल्लहं पुणो होइ । मनुस्सं धम्मसुत्ती सद्धा तव संजमे विरियं ॥
वृ. किं पुनस्तच्चतुरङ्गं यन्नष्टं सत् पुनर्दुर्लभं भवति । सूरिराह - मानुष्यं मानुषत्वं धर्मश्रुति धर्मश्रवणं श्रद्धा तपसि संयमे च वीर्यमिति ।
भा. [४२५१]
किह नासेति अगीतो पढमबितिएहिं अद्वितो सो उ ।
उहासे कालिया तो निद्धम्मोत्ति छड्डेज्जा ।।
वृ. कथं केन प्रकारेण सोऽगीतार्थस्तस्य चतुरङ्गं नाशयति । सूरिराह प्रथमद्वितीयाभ्यां श्रुत्पिपासालक्षणाभ्यां परीषहाभ्यामर्चितः पीडितः स भक्तप्रत्याख्याता कदाचित् कालिकायां रात्रौ भक्तं च पानं च अवभाषेत, याचेत । ततः सोऽगीतार्थो न कल्पते इति कृत्वा न दद्यात्, चिन्तयति च भक्तं प्रत्याख्याय पुनर्याचते भक्तं तत्रापि रात्रौ एष निर्धर्मा असंयताभूत इति कृत्वा तं त्यजेत् त्यक्त्वा गच्छेत् ॥
भा. [४२५२]
अंतो वा बाहिं वा दिवा य रातो य सो विचित्तो उ ।
अट्ट दुहट्टवसट्ट पडिगमनादीनि कुज्जाहि ।।
वृ. अन्तरुपाश्रयस्य यदि वा बहिरुपाश्रयस्य दिवा वा रात्रौ वा तेनागीतार्थेन विविक्तः सन् आर्तः दुःखार्तः वशार्तः सः प्रतिगमनादीनि प्रतिगमनं नाम प्रतिभञ्जनं व्रतमोक्षमित्यर्थः । आदिशब्दात् मृत्वा कुगतिविनिपातान्वा कुर्यात्तांश्च कुगतिविनिपातानेवाहमरिऊणट्टज्झाणो गच्छे तिरिएसु वणयरेसुं वा ।
भा. [४२५३]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org