SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ उद्देशकः - १०, मूलं - २५१, [ भा. ४२४१ ] भा. [४२४१] तत्थेकं छम्मासं चउत्थ छट्टं तु काउ पारेइ । आयंबिलेण नियमा बिइए छम्मासिए विगिट्ठि ॥ अट्ठमदसमदुवालसकाऊणायंबिलेण पारे । अन्नेकहायणं तू कोडिसहियं तु काऊण ॥ भा. [४२४२] वृ. तत्र एकादशे वर्षे एकमाद्यं पण्मासं यावत् चतुर्थं पष्ठं वा कृत्वा नियमादायमोन पारयति । द्वितीये षण्मासे विकृष्टमष्टमं दशमं द्वादशं वा कृत्वा आयामाम्लेन पारयति । एवमेकादशवर्षाणि गतानि । अन्यमेकं द्वादशं हायनं कोटीसहितं कृत्वा किमित्याहआयंबिल उसुणोदेण परिहावेंतो आनुपुव्वीए । जह दीवे तेल्लवत्ती खउसमं तह सरीराउ | भा. [४२४३] ४७३ वृ. आयामो च उण्णोदकेन पारयति । अयमत्र सम्प्रदायो- द्वादशो वर्षे कोटी सहितं प्रत्याख्यानं चतुर्थविषयं कृत्वा प्रथमं पारणकमायामेनोष्णोदकेन करोति, द्वितीयं पारणकं निर्विकृतिकेन, तृतीयं पुनरायामेन यथोक्तरूपेण चतुर्थं निर्विकृतिकेन । एवमेकान्तरितं पारणकेष्वायामं करोति । कोटीसहितं नाम प्रथमदिवसे पुनरभक्तार्थं कृत्वा पारयति । एतच्चतुर्थे कोटीसहितं प्रत्याख्यानं । एवं षष्ठाष्टामादि कोटीसहितान्यपि भावनीयानि अथवायमन्यो द्वितीयः प्रकार एकस्मिन् दिने चतुर्थं कृत्वा द्वितीये दिवसे पारयति तृतीये दिवसे पुनश्चतुर्थं करोति चतुर्थे दिवसे पारयति, एतच्चतुर्थकोटीसहितमेवं षष्ठं कृत्वा पारयति पुनः षष्ठं करोति, ततः पारयति एवमष्टमादिकोटीसहितान्यपि भावनीयानि । हार्वेतो आणुपुव्वी इति तस्मिन् द्वादशे वर्षे पारणकेषु यथाक्रममेकैकं कवलं हापयन् पारयति यावदेकं कवलं । ततः शेषेषु पारणकेषु क्रमश एकेन शिक्थेनोनमेकं कवलमाहारयति । द्वाभ्यां शिक्थाभ्यां त्रिभिः शिक्थैरेवं यावदन्ते एक सिक्थमाहारयति । कस्सादेवं करोतीति चेदत आह-यथा दीपे सममेककालं तैलवर्त्तिक्षयं भवति तथा शरीरायुषः समकं क्षयः स्यादिति हेतोः । भा. [४२४४ ] पच्छित्तहायणे रूवचउरो धारे तु तेल्लयं इसा । निसिरेज्जा खलमल्ले किं कारणगल्लधरणं तु ॥ लक्खता सुहजत्तं माहु खुभेज्जइ तेन धारेइ । माहु नमोक्कारस्स अपच्चलो सो हवेज्जाहि ॥ भा. [४२४५ ] वृ. तस्मिन् पश्चिमे द्वादशे हायने येऽन्तिमाश्चत्वारो मासास्तेष्वेकैकस्मिन् पारणके एकान्तरितं तैलं गंडूषं चिरकालं धारयति । धारयित्वा खेलमल्ल्के सक्षारे निसृजति त्यजति । ततो वदनं प्रक्षालयति । किं कारणं गल्ले गंडूषधारणं क्रियते उच्यते- मा मुखयन्त्रं रूक्षत्वाद्वातेन क्षुभ्येतैकत्र संपिण्डीभूयते तथा च सति मा स नमस्कारस्य भणनेऽप्रत्यलोऽसमर्थो भवेदिति हेतोर्गल्ले तैलधारणं करोति । भा. [४२४६ ] उक्कोसगा उ एसा संलेहा मज्झिमा जहन्ना या । संवच्छर छम्मासा एमेव य मासपक्खेहिं ॥ Jain Education International वृ. एषा अनन्तरोदिता: संलेखा संलेखना उत्कृष्टा भणिता । मध्यमा संलेखना संवत्सरप्रमाणा एव प्रागुक्तेन प्रकारेण द्वादशभिर्मासैः परिभावनीया - जघन्या एषा षण्मासा द्वादशभिः For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy