________________
उद्देशक :- १०, मूलं - २५१, [ भा. ४२१७ ]
४६९
वृ. श्रृणु यथा निर्यापकैर्निर्याप्पमाना दृश्यंते निर्यापकैर्निर्याप्यमाना इह द्विविधा निर्यापका
स्तद्यथा- आत्मनः परस्य च उभयानप्याह
भा. [४२१८]
पातोवगमे इंगिनि दुविहा खलु होंति आयनिज्जवगा । निज्जवगा उपरेण उ भत्तपरिना य बोधव्या ॥
वृ. आत्मनिर्यापकाः खलु द्विविधा भवन्ति तद्यथा - पादपोपगमे इंगिनीमरणे च परेण पुनर्निर्यापना भक्तपरिज्ञायां बोद्धव्या ।
भा. [४२१९] पाउवगमइंगिनि दोन्नि विचिट्टं तु भावमरणाई । भत्तपरिण्णाए विहिं वुच्छामि अहानुपुव्वी ||
वृ. पादपस्योपगमो यस्य तत् पादपोपगमं इङ्गिनीमरणं च द्वे अपि तावन्मरणे तिष्ठतः पश्चात् वक्ष्यमाणत्वात् सम्प्रति भक्तपरिज्ञायाविधिमानुपूर्व्या वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयतिभा. [४२२०] पव्वज्जादीकाउं नेयव्वं ताव जा आवोच्छित्ती ।
पंच तुलेउणप्पा सा भत्तपरिण्णं परिणतो उ ॥
वृ. प्रव्रज्यामादिं कृत्वा तावन्नेतव्यं यावदव्यवच्छित्ति किमुक्तं भवति ? प्रथमतः प्रव्रज्यां तदनन्तरं ग्रहणासेवनरूपां शिक्षां, ततः परं पञ्चमहाव्रतानि तदनन्तरमर्थग्रहणं ततोऽनियतो वासस्ततः परिपूर्णां गच्छस्य निष्पत्तिं कृत्वा तदनन्तरं तवेण सत्तेणसुत्तेण बलेण य । इत्येवं रूपाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा भक्तपरिज्ञां प्रति परिणतो भवति । सपरक्कमे य अपरकम्मे य वाधाए आनुपुव्वीए ।
भा. [४२२१]
सत्तत्थजाणएण समाहिमरणं तु कायव्वं ॥
वृ. भक्तपरिज्ञारूपं नाममरणं द्विधा सपराक्रममपराक्रमं च । तत्र सपराक्रमं द्विविधं व्याघातिमं निर्व्याघातं च । तत्र सपराक्रमे एकैकस्मिन् व्याघाते कर्मणि धञ प्रत्ययानयनात् व्याघाति चशब्दान्निर्व्याघाते च समुपस्थिते सूत्रार्थज्ञापकेन समाधिमरणं कर्तव्यं । एतदेव व्याचष्टेभिक्खवियारसमत्थो जो अन्नगणं च गंतु वाएइ ।
भा. [४२२२]
एस सपरक्कमो खलु तव्विवरीतो भवे इयरो ||
वृ. यः स्वस्य परस्य च निमित्तं भिक्षायां विचारे च गन्तुं समर्थो यदि वान्यगणं गत्वा वाचयति सभक्तप्रत्याख्यानं प्रतिपित्सुः पराक्रमस्तद्विपरीतो भिक्षादावसमर्थो भवति इतराऽपराक्रमस्तद्गतं मरणमपि यथाक्रमं सपराक्रममपराक्रमं च ।
भा. [४२२३] एक्केकं तु दुविहं निव्वाधायं तहेव वाघायं । वाघात वियदुविहो कालतियरो इयरो वा ।।
वृ. तत्सपराक्रमगपराक्रमं च मरणमेकैकं द्विविधं निर्व्याघातं व्याघातं च । तत्र व्याघातो नाम यथा अच्छभल्लेन कालादौ ? (ओ?) ष्टौ च खादितौ, अथवा रोमे व्याघातः ततो मरणं प्रतिप्रद्यते । निर्व्याघातं यथोक्तव्याघातरहितं । व्याघातोऽपि च द्विविधः कालातिचार इतरश्च । कालमतिचरति अतिक्रामतीति कालातिचारः कालसहो । यतश्चिरेण मरणं यथा पूतिगोनशेन दृष्टस्य तं दृष्टकालमतीत्यविंशति रात्रिंदिवादिषु मरणं, इतरः कालानतिचारो यत्तद्दिवसमेव मर्तुकामो भक्तं प्रत्याचष्टे इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org