________________
व्यवहार-छेदसूत्रम्-२- १०/२५१ त्वया श्रेणिकादयोऽपि श्रमणा व्यवस्थापितास्तेषामपि ज्ञानदर्शनभावान्न चैतदुपपन्नं यत् श्रमणस्य श्रमणगुणैर्युक्तस्य नास्ति नरकेषूपपातः । अथ च श्रेणिकादीनां संभवात् । भा. [४२११] जंपि जहु एक्कवीसं वाससहस्साणि होहिति तित्थं ।
ते मिच्छासिद्धी वि सव्वगतीसुं व होज्जाहि॥ वृ. यदपि सूत्रे च भणितं एकविंशतिवर्षसहस्राणि तीर्थमनुवर्तमानं भविष्यति इति तदपि तन्मतेन मिथ्या प्राप्नोति । षट्स्वपि समासुज्ञानदर्शनभावतीश्चरकालमपि तीर्थानुषंजनप्रसक्ते र्यथा सर्वास्वपि च गतिषु सिद्धिरप्येवमनिवारितप्रसरा भवेत् सम्यग्दर्शनज्ञानयुक्तानां चारित्ररहितानां सर्वगतिप्वपि जीवानां भावात् । ये चानुत्तरोपपातिनो देवास्ते नियमस्तद्भव-सिद्धिगामिनो भवेयुः तेषामनुत्तरज्ञानदर्शनोपेतत्वात् । न चैतदिष्टं तस्मादिदमागतं यावच्चारित्रं भा.[४२१२] पायच्छित्ते असंतंभि चरित्तंपि न वट्टती।
चरितंमिअसंतंमि तित्थे नो सचरित्तया ॥ वृ.असति अविद्यधाने प्रायश्चित्ते चारित्रं न तिष्ठिति, प्रायश्चित्तमन्तरेण चारित्रस्य शुद्धेरभावात् चारित्रे चासति तीर्थस्य न चारित्रता। भा.[४२१३] अचरित्तयाए तित्थस्स निव्वाणंमि न गच्छइ ।
निव्वाणंमि असंतंमि सव्वा दिक्खा निरत्थया ।। वृ.तीर्थस्वाचारित्रतायां साधुनिर्वाणं न गच्छति, असति च निर्वाणे सर्वा दीक्षा निरर्थकाभा.[४२१४] न विना तित्थं नियंढेहि नियंट्ठा वा अतित्थगा।
छक्कायसंजमो जाव ताव अनुसज्जणा दोण्हं ।। वृ.निग्रन्थैविना तीर्थं न भवति, तेनापि निर्ग्रन्था अतीथिकास्तीर्थरहिता भवन्ति परस्परव्यवच्छिन्नतया एकस्यापरस्य भावात् निर्ग्रन्थग्रहणं संयतानामुपलक्षणं तत एतदपि द्रष्टव्यं। संयतैर्विना न तीर्थं नापि तीर्थमन्तरेण संयता निर्ग्रन्थाः संयताश्च प्रथमसंहननचतुर्दशपूर्वधरव्यवच्छेदेऽपि विद्यन्ते। यतो यावत् षट्कायसंयमस्तावत् द्वयानामनुषंजनानुवर्तमाना समास्ति षट्कायसंयमश्च प्रत्यक्षतोऽद्यापि लभ्यते ततः सन्ति निर्ग्रन्थाः सन्ति संयता इति प्रतिपत्तव्यं, तत्सत्वप्रतिपतौ च तीर्थं सचारित्रमित्यपि प्रत्येकं भव्यं चारित्रे सति प्रायश्चित्तमिति, अन्यच्च, भा.[४२१५] सव्वण्णुहिं परूविय छक्कायमहव्वया य समितीतो।
सव्वेय य पन्नवणा संपति काले वि साहूणं ॥ भा.[४२१६] ततो वच्चति तित्थं दंसणनाणेहिं न य सिद्धं तु।
निज्जवगा वोच्छिन्ना जंपि य भणियं तु तं न तहा ।। वृ. पूर्वसाधूनां सर्वज्ञैश्चारित्रस्य प्रतिपत्तये रक्षणाय च षटकायानां महाव्रतानि समितयश्च प्ररूपिताः । सैव च प्रज्ञापना सम्यगाराध्यतथा सम्प्रति कालेऽपि साधूनामस्ति, तत उपसम्पन्नं सम्प्रतयपि चारित्रमस्ति। एवं च सिद्धं न तीर्थं ज्ञानदर्शनाभ्यां व्रजति, किन्तु ज्ञानदर्शनचारित्रैरितिः, यदप्युक्तं निर्यापका व्यवच्छिन्ना इति तदपि न तथा कथमिति चेदतआहभा. [४२१७] सुण जह निज्जवगत्थीहि दीसंति जहा य निज्जविज्जंता।
इह दुविहा निज्जवगा अत्ताण परे य बोधव्या ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org