SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४१७७ ] वृ. आलोचनां प्रायश्चित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणं मिश्रमालोचनाप्रतिक्रमणात्मकं विवेकः परिष्ठापनं व्युत्सर्गः तपश्चतुर्थादिषण्मासपर्यन्तं । च्छेदप्रव्रज्यापर्यायस्य दिनैर्मासैर्वा परिहानिः । मूलं पुनर्व्रतारोपणं। अनवस्थाप्यं पारञ्चितं च अमीषां च दशानां स्वरूपं प्रपञ्चतः पीठिकायामुक्तं कल्पाध्ययने वा । ततस्तस्मादवधार्यं तदेवं सपयपरूवणेति गतमधुना अनुसज्जणा य दस चोद्दस अट्ठदुप्पसेह इत्यस्य व्याख्यानमाह भा. [४१७८ ] दस जा अनुसज्जंती चोद्दसपुव्वीए पढमसंघयणं । तेण परेण ट्ठविहं जातित्थं ताव बोधव्वं ॥ वृ. यावत्प्रथमं संहननं चतुर्दशपूर्वी च तावद्दशप्रायश्चित्तानि अनुषजन्तिस्य । एतौ च प्रथमसंहननचतुर्दशपूर्विणौ समकं व्यवच्छिन्नौ तयोश्च व्यवच्छिन्नयोरनवस्थाप्यं पाराञ्चितं च व्यवच्छिन्नं । ततः परेणानवस्थाप्यपाराञ्चितव्यवच्छेदादर्वाक् अष्टविधप्रायश्चित्तं तावदनुपजतु अनुवर्तमानं बोद्धव्यम् । यावतीर्थं तीर्थव्यवच्छेदकाले च दुःप्रसभो नाम सूरिर्भविष्यति तस्मिन् कालगते तीर्थं चारित्रं च व्यवच्छे दयति । यदप्युक्तं देंता वि न दीसन्ति इत्यादि तत्राहदोसु उ वोच्छिन्नेसु अट्ठविहं देंतया करेंतु य । नवि केई दीसंति वयमाणे भारिया चउरो ॥ भा. [४१७९] वृ. द्वयोरनवस्थाप्यपाराञ्चितयोरथवा प्रथमं संहननचतुर्दशपूर्विणो व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतौ वा केचित् न दृश्यन्ते इति वदति परस्मिन् प्रायश्चित्तं चत्वारो भारिता गुरुगासा: । भा. [४१८० ] दोसु वि वोच्छिन्नेसु अट्ठविहं देंतया करेंता य । पच्चक्खं दीसंते जहा तहा मे निसामेहि || वृ. द्वयोरन्तिमयोः प्रायश्चित्तोः प्रथमसंहननचतुर्दशपूर्विणोर्वा व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतश्च प्रत्यक्षं दृश्यन्ते यथा तथा मम कथयतो निशामय भा. [४१८१] पंचेव य निग्गंथा खलु पुलाग बकुसा कुसील निग्गंथा । तह य सिणाया तेसिं पच्छित्त जहक्कमं वोच्छं ॥ ४६३ वृ. . पंचैव खलु निर्ग्रन्था भवन्ति तद्यथा-पुलाको बकुश: कुशीलः निर्ग्रन्थः स्नातकश्च । एतेषां च स्वरूपं व्याख्या प्रज्ञप्तेरवसेयं । एतेषां प्रायश्चित्त यथाक्रमं वक्ष्ये प्रतिज्ञां पूरयतिआलोयण पडिक्कमणे मीसविवेगे तहेव विउस्सग्गे । भा. [४१८२ ] - एए छ पच्छित्ता पुलागनियंट्ठस्स बोधव्या ॥ वृ. आलोचना २ प्रतिक्रमणं २ मिश्रं ३ विवेकः ४ तप: ५ व्युत्सर्ग ६ एतानि षट् प्रायश्चित्तानि पुलाकनिर्ग्रन्थस्य बोधव्यानि । भा. [४१८३] Jain Education International उपडि सेवगाणं पायच्छिन्ना हवंति सव्वेवि । थेराण भवे कप्पे जिनकप्पे अट्ठहा होति ॥ वृ. सेवकयोर्बकुशस्य प्रतिसेवनाकुशीलस्य च सर्वाण्यपि प्रायश्चित्तानि भवन्ति । तौ च बकुशप्रतिसेवनाकुशीलौ स्थविराणां कल्पभवतो जिनकल्प उपलक्षणमेतत् । यथालन्दकल्पै च तयोः प्रायश्चीत्तमष्टधा भवति अनवस्थाप्यपाराञ्चितयोरभावात् । For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy