________________
४६२
व्यवहार-छेदसूत्रम्-२- १०/२५१ . शोधिं न दृश्यते केचनेति तदप्युक्तं यत आह-अस्थिति संति तेपि केचन न दृश्यंते उपायेन वहनात् । अत्र च विनेति दृष्टान्तो धनिकेन वक्तव्यः । तथा तीर्थं च चारित्रसहितमनुवर्तते यदप्युक्तं निर्यामको नास्तीति तदप्पयुक्तं यत आह-निज्जवएंति निर्यापकोऽस्ति । एषद्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः सपय परूवणेत्यस्य व्याख्यानमाहभा. [४१७२] पनवगस्स उ सपयं पच्छित्तं चोयगस्स तमनिटुं।
तं संपयं पि वज्जइ जहा तहा मे निसामेहि ॥ वृ. प्रज्ञापकस्य स्वपदं प्रायश्चित्तमेतत् प्रागेव भावितं । तच्चोदकस्यानिष्ठं नास्तीति मा रूढं तथा युक्तं यतः साम्प्रतमपि तद्विद्यते यथावद्विद्यते तथा कथ्यमानं निशामयभा.[४१७३] पासाय सउ निम्मं लिहाविहं चित्तकारागहि जहा।
लीलाविहूणं नवरं आगारो होइ सा चेव ।।। वृ. चक्रवर्तिनो वर्धकिरत्नेन प्रासादो निर्मापितस्तमन्ये राजानो दृष्ट्वा आत्मीयन् वर्धकीनादिशन्ति यथा चक्रवर्तिनः प्रासाद ईदृशान् अस्माकं प्रासादान् कुरुत ते च ब्रुवते देव स तादृशः प्रासादोऽस्मार्मिन दृष्टस्ततः कप्यालेख्य दर्शयन्तु येन तं दृष्टवा तदनुरूपान् प्रासादान्निर्मापयामस्ततस्तै राजभिश्चक्रवर्तिनगरे प्रविष्टैः स्वकीयैश्चित्रकार: प्रासादस्य निर्मापणां फलकेषु लिखापीतं निजनिजप्रधानवर्धकीनां समर्पितं तैरपि तदनुरूपाः प्रासादा निर्मापिताः परं यादृशी लीला चक्रवर्ती प्रासादस्य न तादृशी तेषां तथा चाह तेषां प्राकृतवर्धकिनिष्पादितानां प्रासादानां निर्मापणं, नवरं लीलाविहीनं जातमाकारः, पुनर्भवति स एव यादृशश्चक्रवर्तिप्रासादसस्यय एतदेव किंचिद्भावयति। भा.[४१७४] भुंजइ चक्की भोए पासए सिप्पि रयणनिम्मविए। .
किं च न कारेइ तहा पासाए पगय जनोवि ॥ वृ. चक्री चक्रवर्ती शिल्पिरत्ननिर्मापिते वर्धकिरत्ननिष्पादिते प्रासादे स्थितः सन् भोगान् भुंक्ते, तं च तथा दृष्टवा किं प्राकृतजनोऽपी प्राकृतराजलोकोऽपि तथा प्रासादान् न कारयति कारयत्येवेति भावः, परं न तादृशस्तेषां रूपविशेषः ततः किमित्याहभा. [४१७५] जह रूवादिविसेसा परिहीना होंति पागयजनस्स।
न च तेन होंति गेहा एमेव इमंपि पासामो।।। वृ.यथा प्राकृतजन्स्य प्राकृतवर्धकिलोस्य तथारूप: सम्यक् परिज्ञानाभावतो रूपादिविशेषाः कर्तव्यतया परिहीनाः प्रासादानां भवन्ति, न च तेन भवन्ति गेहा: प्रासादा एवमिदमपि प्रायश्चित्तं पश्यामः । एतदेव भावयतिभा.[४१७६] एमेवय पारोक्खी तयानुरूवं तु सो वि ववहरति ।
किं पुण ववहरियव्वं पायबित्तं इमं दसहा ॥ वृ. एवमेव वर्धिकी दृष्टान्तगतेन प्रकारेण तदनुरूपं प्रत्यक्षागमव्यवहारानुरूपं परोक्षी परोक्षज्ञानी व्यवहारति किं पुनर्व्यवहर्तव्यसूच्यते इदं वक्ष्यमाणं दशधा दशप्रकारं प्रायश्चित्तं । तदेवाहभा. [४१७७] आलोयण पडिक्कमणे मीस विवगे तहा वि उस्सग्गो।
तवच्छेयमूल अनवट्ठिया य पारंचिए चेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org