________________
४४७
उद्देशकः-१०, मूलं-२५१, [ भा. ४०५९ ] भा.४०५९] जइ आगमो य आलोयणा य दोन्नि विसमंत निवयंति।
एसा खल वीमंसा जो व सह जेण वा सुज्झे ।। व.यद्यागमश्चालोचना च एते द्वे अपि समकं परस्परमविसंवादिता निपततौ यथैव तस्यागमस्तथैवेतरस्यालोचना यथैव तस्यालोचना तथैवागमिन आगमः । एष खलु आगमविपश उच्यते । अस्मिन् सति शोधि ददति नान्यथा याद वा यः सहोऽसहो वा येन वा यः शुद्धयति । एतत्परिभावनमागमविमर्शः । सम्प्रत्याप्तशब्दव्याख्यानमाह__ भा.[४०६०] नाणमादीनि अत्ताणि, जेन अत्तो उ सो भवे ।
रागदोसप्पहीणो वा, जे व इट्ठा विसोधीए ।। वृ.ज्ञानादीनि ज्ञानदर्शनचारित्राणि येनाप्तानि स भवत्याप्तः ज्ञानादिभिराप्यते स्म आप्त इति व्युत्पत्तेः यो वा रागद्वेषप्रहीणः स आप्तः । यदि वा ये इष्टाः शोधौ शोधिविषये ये आप्ताः। भा.[४०६१] सुत्तं अत्थो उभयं आलोयण आगमो व इति उभयं ।
जं तदुभयंति वुत्तं वत्थ इमा होइ परिभासा। वृ.सूत्रमर्थ इत्युभयं तेनागमविमर्श कुर्वन्ति किमयं सह इत्य्दि अथवा आलोचनामागशविमर्श विदधति । यथा कि यथावस्थितास्या लोचना किं वा नेति । तत्र यत्तदुभयमित्युक्तं । तत्र इयं वक्ष्यमाणा परिभाषा भवति । तामेवाहभा.[४०६२] पडिसेवणाइयारे जइ नाउट्टइ जहक्कम सव्वे।
नहु देंती पच्छित्तं आगम ववहारिणो तस्स ।। वृ. यदि प्रतिसेवनातिचरान् यथाक्रमं सर्वान् यदि नाकुट्टयति नालोचयति तदा तस्यागमव्यवहारिणः प्रायश्चित्तं न ददति। यदि पुनः प्रतिसेवनातिचारान् यथाक्रमं सर्वान् आकुट्टयति आलोचयति तदा तस्यागमव्यवहारिणः प्रायश्चित्तं ददति। भा.[४०६३] कहेहि सव्वं जो वुत्तो जाणमणो वि गृहति।
न तस्स दित्ते पच्छित्तं, बिंति अन्नत्थ सोहय । वृ.यान् सर्वानालोचयन् कथय सर्वं मा निगृहयेति य उक्तः सन् जानानोऽपि गूहयति तस्य प्रायश्चित्तमागव्यवहारिणो न ददति। किन्तु ब्रुवते अन्यस्य समीपे गत्वा शोधय, शोधिं गृहाण। भा.[४०६४] न संभरति जो दोसे सब्भावा न य मायया ।
पच्चक्खी साहए ते न माइणो उ न साहए। वृ. यो दोपान् सद्भावतो न स्मरति न मायया, तस्य प्रत्यक्षी, प्रत्यक्षागमज्ञानी कथयति। भा.[४०६५] जइ आगमतो व आलोयणा व दोवि विसमं निवइयाई।
नहु होति पच्छित्तं आगम ववहारिणो तस्स ।। वृ. यद्यागम आलोचना च एते द्वे अपि विषमं निपतिते यथा तेनालोचितं तथागमज्ञानी तस्यातीचारं न प्रेक्षते किन्त्वन्यादृशमूनमधिकं वा इत्यर्थः । तदा तस्यागमव्यवहारिणः प्रायश्चित्तं न ददति । भा. [४०६६] जइ आगमोय आलोयणा य दोन्निवि समं निवडियाई।
देंति ततो पच्छित्तं आगमववहारिणो तस्स ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org