________________
४४६
व्यवहार-छेदसूत्रम्-२- १०/२५१ पर्यायाशुद्धातथा यदिप्रतिसेवनानुलोममालोचयतितदा साक्रमशुद्धा उत्क्रमेणालोचयतःक्रमाशुद्धा। तथा यद्यत्र जनपदेऽध्वनि वा प्रतिसेवितं तत्तथैव आलोचयतः क्षेत्रशुद्धा आलोचना जनपदे प्रतिसेवितमध्वनि कथयतः क्षेत्राशुद्धा । यथा यत् यदा दुर्भिक्षे सुभिक्षे वा दिवारात्रौ वा प्रतिसेवितं तत्तदालोचयतः कालशुद्धा सुभिक्षे प्रतिसेव्य दुर्भिक्षे कथयतो रात्रौ वा प्रतिसेव्य दिवसे कथयतः कालाशुद्धा ।तथा येनानाभोगादिनासेवितंतंभावंकथयतोभावशुद्धा, उपेत्य प्रतिसेव्यानाभोगादिना कथयतो भावाशुद्धा ।सम्प्रतिभावमेवोपदर्शयति[भा.४०५३] सहसा अन्नाणेनवभीएणव पेल्लिएणवपरेण ।
वसनेन पमादेन वमूढेन वरागदोसेहिं ।। वृ-तेन प्रतिसेवकेन सहसा अज्ञानेन वा परेण वा प्रेरितेन वा व्यसनेन वा द्यूतादिना प्रमादेन वा मूढेन वा रागद्वेषाभ्यां वा प्रतिसेव्य यदि तथैवालोच्यतेप्रायश्चित्ताय मे ददाति नान्यथेति वाक्यशेषः । [भा.४०५४] पुव्वं अपासिउणंछुढे पायंमिजंपुणोपासे।
नयतरइ नियत्तेउं पायंसहसाकरणमेयं ।। वृ- पूर्वमग्रेतनप्रदेशे कुलिङ्गिनमदृष्ट्रा क्षिप्ते उत्पादिते पादे यत्पुनः पश्यति कुलिङ्गिनं समापतितंन पादं निवर्तयितुंशक्नोतितत एवं यत्तस्य व्यापादनमेतत्सहसाकरणं । साम्प्रतमज्ञानमाह[भा.४०५५] अन्नयरपमाएणंअसंपउतस्स नोवउत्तस्स ।
इरियाइसुभूयत्थेअवट्टतो एयमन्नाणं ।। वृ- पञ्चानां प्रमादानामन्यतरेणापि प्रमादेनासंप्रयुक्तस्याक्रोडीकृतस्यात एव ईर्यादिषु समितिषु भूतार्थेन तत्वतोऽवर्तमानस्य यद्भवनमेतदज्ञानं अधुना भीएण व पेल्लिएण व परेण इत्यस्य व्याख्यानमाह[भा.४०५६] भीतो पलायमाणोअभियोगभएन वाविजंकुज्जा।
पडितो वाऽपडितो वा पेलिज्जउपेल्लिउपाणे ।। वृ-अभियोगभयेन भीतः पलायमानो यत् कुर्यात्प्राणव्यपरोपणादितत्भीतेनेतिद्रष्टव्यम् । तथा परेण प्रेरितः सन्पतितोऽपतितो वाप्राणान् द्वीन्द्रियादीन एकेन्द्रियान्वा प्रेरयेत ।
सम्प्रतिव्यसनादिपहानिव्याचष्टे । [भा.४०५७] जूयादिहोइ वसनं पंचविहोखलुभवेपमादोउ ।
मिच्छत्तभावना उमोहो तह रागदोसाय ।। वृ-धुतादि भवति व्यसनं, प्रमादः खलु मद्यादिभेदाभवति पञ्चविधः, मिथ्यात्वं भावना मोहः रागद्वेषाः सुप्रतीताः। [भा.४०५८] एएसिटाणाणंअन्नयरे कारणेसमुप्पन्ने ।
तो आगमवीमंसंकरेंति अत्ता तदुभएणं ।। वृ-एतेषामनन्तरोदितानांसहसाप्रभृतीनांस्थानानामन्यतरस्मिन्कारणेसमुत्पन्नेसतिआलोचनायां प्रदत्तायामागमविमर्शमाप्ता उभयेन सूत्रार्थलक्षणेन कुर्वन्ति । यथायं सहोऽयमसहः अयमेतावता शोत्स्यतिअयं नेति । अथवा किमनेनसम्यगालोचितं किंवानेति ।
साम्प्रतमागमविमर्शमेव व्याख्यानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org