SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उद्देशक : :- १०, मूल - २५१, [भा. ४०४७] तत्रागमतो ववहारं परे सोच्चेति व्याख्यानयति [भा. ४०४८ ] आगमववहारी छवि वि आलोयणं निसामेत्ता । देति ततो पच्छितं पडिवज्जइ सारिउंजइय ।। वृ-आगमव्यवहारी षड्विधोऽपि परस्यालोचनां निशम्य ततः प्रायश्चित्तं ददाति । यदिच कमप्यपराधं विस्मृतः स्मारितः सन् सम्यक् प्रतिपद्यते तदा स्मारयति च । अन्यथा तस्यालोचनामेव न ददाति । [भा. ४०४९ ] आलोइय पडिक्कंतस्स होइ आराधना सुनियमेन । अनालोयंमि भयणा किह पुन भयणा हवइ तस्स ।। वृ- पूर्वमपराधजातमालोचित्तं ततस्तस्मात् प्रतिक्रान्तस्य अपुनःकरणतया प्रतिनिवृत्तस्य नियमेन पर्यन्ते सम्यगाराधना भवति । अनालोचिते पुनर्भजना । आह-कथं पुनरनालोचिते तस्याराधनाविषयभजना भवति । अत्राह[भा. ४०५०] कालं कुव्वेज्ज सयं अहो वा हुज्ज अहव आयरितो । अप्पत्ते पत्ते वा आराधन तहवि भयणेवं ।। ४४५ वृ- कोऽपि आलोचनां ग्रहीष्यामीत्यालोचनापरिणामपरिणत आलोचनाग्रहणाय सम्प्रस्थित आलोचनार्हसमीपं स च तमप्राप्त एवापान्तराले स्वयं कालं कुर्यात् । यदि वा पाप्तोऽपि रोगवशादमुखो जातोऽथवा तस्याप्राप्तवत एव स आलोचनार्ह आचार्यः कालगतो, यदि वा प्राप्तवतोऽप्यमुखो जातः । ततः स एवमालोचनां परिणतः आलोचनाया असंभवेऽपि काले कुर्वन्नाराधको यदि पुनर्न सम्यगालोचनापरिणामपरिणतस्तदा सोऽनाराधकः सच तथा कालगतो दीर्घसंसारी भवति, एवमाराधना आलोचना हि प्राप्तेऽप्राप्ते वा भजनया भवति । सम्प्रत्यागमव्यवहारिणामपि पुरत आलोचनायां गुणानुपदर्शयति । अवराहं वियाणंति तस्स सोहिं च जद्दवी । [भा. ४०५१] तहा वि आलोयणा वृत्ता आलोयंते बहुगुणा ।। वृ- यद्यप्यागमव्ययहारिणस्तथालोचकस्यापराधं विजानन्ति शोधिं च तथापि तेषामपि पुरत आलोचना दातव्या उक्ता तीर्थकरगणधरैर्यत आलोचयति बहवो गुणास्तथाह्यालोचनाचार्येण स आलोचकः प्रोत्साह्यते यथा वत्स, त्वं धन्यस्त्वं सभाग्यः यदेवं मानं निहत्यात्महितार्थतया स्वरहस्यानि प्रकटयति । महादुष्करमेतत्, एवं च स प्रोत्साहितः सन् वर्धमानपरिणामः सम्यग् निःशल्यो भूत्वा यथावस्थितमालोचयति शोधिं च सम्यक् प्रतिपद्यते । ततः पर्यन्ते आराधना स्तोककालेन च मोक्षगमनमिति । अथ कथमार्गामेनो व्यवहारं प्रयुंजते तत आह [ भा. ४०५२] दव्वे हिं पज्जवेहिं य कमक्खेत्ते कालभावपरिसुद्धं । आलोयणं सुणेत्ता तो ववहारं पउंजंति ।। वृ- द्रव्यैः सचित्तादिभिः पर्यायैस्तषामेव सचित्तादिद्रव्यामाणवस्थाविशेषैः परिणामविशेषैस्तथा क्रमतः क्षेत्रतः कालतो भावतञ्चपरिशुद्धामालोचनां श्रुत्वा ततस्तदनन्तरं व्यवहारं शोधिव्यवहारं प्रयुञ्जते नान्यथा, तत्र यदि सचित्तं सेवित्वा सचित्तमेवालोचयति तदा द्रव्यशुद्धा सा आलोचना यदा तु सचित्तं प्रतिसेव्याचित्तमालोचयति तदा द्रव्याशुद्धा, तथा यामवस्थामुपगतं सचित्तं प्रतिसेव्य तामवस्थागतं तदालोचयति तदा सा पर्यायशुद्धा; यदान्यामवस्थामुपगतं प्रतिसेव्यान्यावस्थामालोचयति तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy