SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४४० व्यवहार - छेदसूत्रम् - २- १० / २५१ द्रष्टव्याः । यथा मनसा न करोति कालप्राप्तमपि शक्तावपि च सत्यां शुभं व्यापारं १ न च कारयति २ कुर्वन्तं नानुजानीते ३ इत्यादि तथैव उभयमीलने चतुःपञ्चाशत् । तत उक्तंद्विगुणा वा एते एकएकसंयोगे द्विकत्रिकसंयोगे च बहुतरा भवन्ति । ते चावश्यक टीकायां प्रत्याख्यानचिन्तायामिव भावनीयास्ततोऽवादि बहुतरा वापि, अय मनसा कथं करणं कारणमनुमननं वा तत आहवावे महमंबवनं मनसकरणं तुहो अनुत्तेवि । अणजाणसु जावुप्पइ मनकारणमो अवारेंते । । [ भा. ४०१६] वृ- कोऽपि संयतः कञ्चित् प्रदेशं दृष्ट्वा चिन्तयति अस्मिन्नवकाशे अहमाम्रवनं वपामि । यद्यापि तेन तथा चिन्तयित्वा नोप्तमाम्रवणं तथापि तत्तेन मनसा कृतमपि मनसा करणं तथा केनचित् गृहस्थेन संयत उक्तो यथा संयत ! यदित्वमनुजानासि तत एतस्मिन्नवकाशे आम्रवणं वपामि तस्मादनुजानीहि येनोप्यते इति । एवमुक्ते यदि न निवारयति तदा अनुक्तोऽपि मनसा कारापणं द्रष्टव्यमेतदेव भावयतिमागहा इंगिएणं तु पेहिएणय कोसला । अद्भुत्तेण उपंचाला नाणुत्तं दक्खिणावहा ।। एवं तु अनुत्ते वि मनसा कारावणं तुबोधव्वं । मनसाणुन्ना साहु चूयवणं वुत्तवप्पतिवा ।। [भा. ४०१७] [ भा. ४०१८ ] वृ-मागधा मगधदेशोद्भवाः प्रतिपन्नमप्रतिपन्नं वाइङ्गिताकारविशेषेण जानन्ति, कौशलाः प्रेक्षितेन अवलोकितेन, पञ्चालाः अर्धोक्तेन, नानुक्तं दक्षिणापथाः किन्तु साक्षऽद्वचसा व्यक्तीकृतं ते जानते, प्रायोजडप्रज्ञत्वात्, ।ततएवंसति वचसानुक्तेऽपि निवारणाभावात् मनसा कारापणं बोद्धव्यम् । सम्प्रति मनसानुज्ञातं भावयति चूतवनमुप्तं पूर्वमारोपितं, यदि वा उप्यते आरोप्यमाणं तिष्ठतीति कृत्वा साधुश्चिन्तयति । शोभनं यदिह चूतवनमुप्तमुप्यते वा एषा मनसानुज्ञा । 1 [ भा. ४०१९] एवं वयकायम्मी तिविहं करणं विभासबुद्धीए । हत्थदिसन्नच्छोटिं इय काये कारणमन्ना ।। वृ- एवमुक्तप्रकारेण वचसि काये च त्रिविधं करणं करणकारणानुमननलक्षणं स्वबुद्ध्या विभाषेत तत्र वचसि सुप्रतीतं काये तु दुर्विभावमिति तद्भावनामाह - इत्यादि हत्यादि । अत्रापि कायेन स्वयं करणामिति प्रतीतं ततः कारणमाह-हस्तादिसंज्ञा कायेन गाथायां सप्तमी तृतीयार्थे कारणं तथा च्छोटिं नखच्छोटिकां ददतः कायेन अनुज्ञा ।। [भा. ४०२०] एवं नवभेएणं पाणाइवायादिगे उ अइयारो । निरवेण मनेवि पहित्तियरेसि उभएन ।। ī द्रयाणाम कायमुक्तेन प्रकारेण नवभेदेन समाहारोयं नवभिर्भेदैः प्राणातिपातादिके अतीचारे यत्प्रायश्चित्तं चित्ते प्रायश्चित्तं । मिति भावः । तत्र निरपेक्षाणां प्रतिमाप्रतिपन्नादीनां मनसाप्यतीचारसेवने [भा. ४०१ मतरेषां गच्छस्थितानामुभयेन वा कायेन चातीचारसेवने प्रायश्चित्तमिति । वायामवग्गणादी धारण डेवण य होइ दप्पेण । [ भा. ४०२१] पंचविह पमायंमी जं जहि आवज्जई तंतु ।। वृ- यन्निष्कारणं व्यायाम वल्गनादि करोति यदि वा धावनं वेपनं बा, लोष्ट्रादेः प्रक्षेपणं तद्विषयं Jain प्रायश्चित्तं भवति ज्ञातव्यं, दर्पेण तथा पंचविधे पञ्चप्रकारे प्रमादे यं प्रमादमापद्यते यत्र तद्भवति ।
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy