________________
४३८
व्यवहार - छेदसूत्रम् - २ - १०/२५१ मात्रकत्रिकं संस्तारं वसतिं चेति परिग्रहः, श्रुतोपसम्पन्नं लभते षट् मात्रादिकान् मिश्रां च वल्लिं मातृपितृसम्बद्धां सुखदुःखोपसम्पन्नो मातापितृसम्बन्धान लभते वयस्यादीन च, इतरो मार्गोपसम्पन्नो दृष्टान् दृष्टाभाषितानुपलक्षणमेतत् वल्लिद्विकं मित्राणि च लभते विनयोपसम्पन्नस्याभाव्यं सुप्रतीतमिति न व्याख्यातम् ।
[भा. ४००५ ]
इच्चेयं पंचविहं जिनान आणाए कुणइ सठाणे । पावइ धुवमाराहं तव्विवरीए विवच्चासं ।।
वृ- इत्येवं पञ्चविधक्षेत्रश्रुतादिभेदतः पञ्चप्रकारमाभवद्व्यवहारं स्वस्थाने आत्मीये स्थाने यथा क्षेत्रोपसम्पदि यत् उपसम्पद्यमानस्य वा भवति तत्तथैव व्यवहारति । एवं शेषेष्वपि स्थानेषु वक्तव्यं जिनानामाज्ञया करोति परिपालयति स ध्रुवमन्ते आराधनां प्राप्नोति, जिनाज्ञया परिपालितत्वात् । तद्वद्विपरीत आभवद्वयवहारविपर्यासकारी विपर्यासं प्राप्नोति नाराधनामन्तकाले प्राप्नोतीतिभावः । एच्चेसो पंचविहो ववहारे आभवंति तो नाम । पच्छित्ते ववहारं सुण वच्छ समासओ वुच्छं ।।
[भा. ४००६ ]
वृ- इत्येष आभवतिकोनाम व्यवहारः पञ्चविध उक्तः । अत ऊर्ध्वं प्रायश्चित्ते व्यवहारं समासतो वक्ष्ये, तच्च वत्स वक्ष्यमाणं शृणु ।
[ भा. ४००७ ]
सो पुंनचउव्विहो दव्वखेत्तकालभावे य । सचित्ते अचित्ते यदुविहो होइ दुव्वंमि ।।
वृ- सपुनः प्रायश्चित्तव्यवहारश्चतुर्विधस्तद्यथा द्रव्ये क्षेत्रेकाले भावेच । तत्र द्रव्ये पुनर्द्विविधो भवति । तद्यथा - सचिते अचित्ते च । तत्र प्रथमतः सचित्ते विवक्षुरिदमाह
[भा. ४००८]
पुढविदगअगनिमारुय वणस्सइ तसेसु होइ सचित्ते । अचित्ते पिंड उवही दसपन्नरसेव सोलसगे ।। संघट्टण परियावण उद्दवणा वज्रणा एसद्वाणं । दानं तु च उत्थादी तत्तियमित्ता व कल्लाणे ।।
[भा. ४००९ ]
7
वृ- पृथिव्यादीनां संघट्टनादौ प्रत्येकं यथापत्तिप्रायश्चित्तं तत् स्वस्थानमित्युच्यते । तच्च छक्काय चउसु लहुया इत्यादिना प्रागेवाभिहितमिदं तु दानप्रायच्चित्तमभिधीयते । किं तदित्याह-चतुर्थादि, तद्यथा- पृथिव्यादिकं वनस्पतिपर्यन्तमेकेन्द्रियमपद्रावयति जीविताद्व्यपरोपयति तदा अभक्तार्थः । द्वीन्द्रियमपद्रावयतः पष्ठं त्रीन्द्रियमपद्रावयतोऽष्टमंचतुरिन्द्रिये दशमं, पञ्चेन्द्रिये द्वादशमम् । तत्तियमित्ता च कल्ला इति अथवा यस्य यावन्ति इन्द्रियाणि तस्य तावन्ति कल्याणानि प्रायश्चित्तं, तद्यथाएककल्याणकमेकेन्द्रियाणां परितापने, द्वे कल्याणके द्वीन्द्रियाणां पूर्वार्द्धमित्यर्थः । त्रीणि कल्याणकानि त्रीन्द्रियाणामेकाशनकमितिभावः । चतुरिन्द्रियाणामाचाम्लंपञ्चेन्द्रियाणामभक्तार्थः । अथवेदं वर्जनायां सचित्ते प्रायश्चित्तं ।
[भा. ४०१० ]
अहवावि अट्ठारसगं पुरिसे इत्थीसु वज्जिया वीसुं । दसगं य नपुंसेसुं आरोवणवन्निया तत्थ ।।
वृ- वर्जना नाम प्रव्राजनायां निषेधस्तत्र परुषे अष्टादशकं वर्जितं स्त्रीपु वर्जिता विंशतिर्दशकं नपुंसकेषु । तत्राह अथवा आरोपणाप्रायश्चित्तं प्राकूकल्पाध्ययने सप्रपञ्चमभिहितमिति ततोऽवधार्य, ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org