________________
उद्देशकः-१०, मूल - २५१, [भा.३९८९]
४३५ तावत्तमभ्युपपन्नगच्छमेकतरे सारयन्ति । येषामवग्रहे वर्तन्ते, अथ ते सारयन्तः परिताम्यन्ति तदा कुलस्थविराणामादिशब्दात् गणस्थविराणां सङ्घस्थविराणांवा तान् ददति अर्पयन्ति योवा कोऽपितेषां सम्मतस्तस्य समर्पयति । गतासुखदुःखोपसम्पत् । सम्प्रतिमार्गोपसम्पद्वक्तव्यातथाचाह[भा.३९९०] सुखदुक्खे उवसंपयएसा खलु वण्णियासमासेणं ।
अह एतोउवसंपय मग्गोग्गह वज्जिएवुच्छं ।। वृ- एषा अनन्तरोदिता खलु उपसम्पद्वर्णिता समासेन सुखदुःखे । अथानन्तरमत ऊर्ध्वं मार्गे अवग्रहवर्जितेवक्ष्ये,मार्गोपसम्पदंवक्ष्येइत्यर्थः । अत्रचेयंव्युत्पत्तिार्गदेशनायोपसम्पत्मार्गोपसम्पत्। [भा.३९९१] मग्गोवसंपयाएगीयत्थेणंपरिगहीयस्स ।
अगीयस्सवि लाभो का पुन नवसंपयामग्गे ।। वृ-मार्गोपसम्पदिप्रतिपन्नायामगीतार्थस्यापि सतो गीतार्थेन परिगृहीतस्य लाभोभवति, अन्यथा अगीतार्थस्यन किंचिदाभवतीतिवधनान्नकोऽपिलाभः स्यात्, कापुनरुपसम्पत्मार्गेइतिचेदतआह[भा.३९९२] जहकोइमगन्नू अन्नंदेसंतुवज्जती साहू ।
उपसंपज्जइ उतगंतत्थण्णो गंतुकामोउ।। वृ- यथेतिमार्गोपसम्पत्प्रदर्शने यथाकश्चित्साधुर्मागज्ञोऽन्यंदेशव्रजतितत्रदेशेऽन्योगन्तुकामस्तकं साधुमुपसम्पद्यते, अहमपियुष्माभिःसहसमागभिष्यामि ।अथकीदृशोमार्गोपदर्शननिमित्तमुपसम्पद्यते [भा.३९९३] अव्वत्तो अविहाडोअदिठदेसी अभासितो वावि ।
एगमनेगे उवसंपयाएचउभंगोजापंथो ।। वृ- अव्यक्तो वयसा अविहाडोऽप्रगल्भः अदृष्टदेशी अदृष्टपूर्वदेशान्तरोऽभाषिको देशभाषापरिज्ञानविकलःसाचोपसम्पद्एकस्यानेकस्यचतत्रचतुर्भङ्गी । तद्यथा-एककएकंसंपद्यते १ एकमनेकः २ अनेकमेकः ३ अनेकमनेकः ४ सा चोपसम्पत् तावत् यावत्पन्थाः । किमुक्तं भवति यावत्पन्थानं व्रजतिततो वा प्रत्यागच्छतीति । एतदेव सविशेषमभिधित्सुराह[भा.३९९४] गयागते गयनियत्तेफिडियगविठे तहेव अगविढे ।
उभामगसन्नायग नियट्ट अदिद्वेअभासीय ।।. वृ- अव्यक्ता अविहाडा अदेशिका अभाषिका वा अन्यं साधुमुपसंपद्यते, अस्माकममुकप्रदेशेन यथा वा यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्ये ऽव्यक्तविहाडादयो गन्तुकामास्तान् ब्रुवते वयं युष्याभिः सहगमिष्यामस्तत्रयत्रगन्तुकामास्ततोयदिप्रत्यागच्छन्तितदैतत्गतागतमित्युच्येततस्मिन् मार्गोपसम्पत् गयनियत्ते इति अनुसंपन्ना एववात्मीयेन व्यक्तविहाडादिना समं गतास्तस्य च कालगततयाप्रतिभग्नत्वादिनावाकारणेन प्रत्यागन्तव्यं नाभवत्ततः प्रत्यागच्छन्तस्तंसाधुमुपसंपद्यते। एषा गतनिवृत्ते मार्गोपसम्पत्तथा फिडियगविढे तहेव अगविठे इति स्फिटितो नाम नष्टः तत आह उब्भामगेत्यादिउद्भ्रामकभिक्षाचर्ययाअदृष्टपूर्वेविषयेगतस्ततोनजानातिकुतोगन्तव्यमिति स्फिटितः। अथ स्वज्ञातयो गवेषमाणाः समागतास्ततस्तस्मात् स्थानादृष्टपूर्वे विषये नष्टः ततः स्फिटितस्तथा अभाषकोऽदृष्टपूर्वे विषये पृष्टो पृष्टतो लग्नो याति, परं मिलितुं न शक्नोति, स (च) दृष्ट्वा पि प्रतिपृच्छनीयदेशभाषामजानन्न प्रतिपृच्छति, ततोयथा तत्परिभ्रष्टो नश्यति, सच नष्टो गवेषणीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org