________________
४३२
व्यवहार-छेदसूत्रम् -२- १०/२५१
[भा. ३९७२]
एवं नाणे तह दंसणे य सुत्तत्थ तदुभए चेव । वत्तण संधणगहणे नवनव भेया य एक्केके ।।
वृ- एवमुक्तप्रकारेणज्ञाननिमित्तमधिधार्यमाणेयदाभवति तत्भणितं, तथा तेनैव प्रकारेण दर्शनेऽपि दर्शनप्रभावकशास्त्राणामप्यर्थायाभिधार्यमाणो आभवत् प्रतिपत्तव्यं, । तत्रज्ञानार्थं दर्शनार्थ वायोऽभिधार्यते, ससुत्तत्थतदुभए चेवत्ति सूत्रार्थतया अर्थार्थतया तदुभयार्थतया तत्र च सूत्रार्थतया अधिधारण तद्वर्तनार्थतया सन्धनार्थतया ग्रहणमिति, एवं त्रयो भेदाः । सूत्रार्थतया अर्थार्थतया तदुभयार्थतया च प्रत्येकं द्रष्टव्याः सर्वसंख्यया ज्ञानेदर्शने च प्रत्येकं नवनवभेदास्तथा चाह-नवनवभेया एक्केके । [भा. ३९७३] पासत्थमगीयत्था उवसंपजत्ति ते उचरणठा । सुत्तोवसंपयाए जो लाभो सो उ तेसिं उ ।।
वृ- ये पार्श्वस्थादयोऽगीतार्थाश्चरणार्थमुपसम्पद्यते तेषां चरणोपसम्पन्निमित्तं कमप्यभिधायरन् समागच्छतां श्रुतोपसम्पदिचान्तरो यो लाभो भवति स तेपामभिधार्यमाणानां भवति, नालबद्धवल्लीद्विकं तु तेषामभिधारयतामिति । ।
[भा. ३९७४ ]
गीयत्था ससहाया असमत्ता जं तु लहति सुहदुक्खी । सुत्तत्थे अतक्कंत समत्तकप्पी उन दलंति ।।
वृ- ये पुनः पार्श्वस्थादयो गीतार्थाः ससहाया संभोगनिमित्तमालोचनां दास्यामइत्यभिधारयन्तः सूत्रार्थान् अतर्कयन्तोऽनपेक्षमाण आगच्छन्तोऽन्तरा यल्लभन्ते, सचित्तमचित्तं वा येऽपि च गीतार्था असमाप्ता असमाप्तकल्पा आगच्छन्तो लभन्ते यच्च एकाकी एकाकिदोषपरिवर्जनार्थमुपसम्पत्तुकामो लभते यच्च समाप्तकल्पिनस्ते तेषामेव भवन्ति । न तु येषां समीपं प्रस्थितास्तेषामेवं निर्ग्रन्थीनामपि द्रष्टव्यम् ।
[भा. ३७९५ ]
अभिधारिजंत अपत्ते एस वृत्तो गमो खलु ।
पढंते उ विहिं वुच्छं सो उ पाढो इमो भवे ।।
वृ- एषोऽनन्तरोदितः खलुगमः प्रकारोऽभिधार्यमाणेऽप्राप्ते उक्तः । अत ऊर्ध्वं तु प्राप्ते सति पठति विधिं वक्ष्यामि, स च पाठोऽयं वक्ष्यमाणो भवति तमेवाह
[भा. ३७९६] धम्मका सुत्ते या कालिय तह दिट्टिवाय अत्थेय ।
उपसंपयसंजोगे दुगमाइ जहुत्तरं बलिया । ।
वृ-धर्मकथायां सूत्रे कालिके तथा दृष्टिवादे अर्थे च पाठार्थमुपसम्पद्भवति तत्र सूत्रतोऽर्थतश्च सूत्रार्थयोश्च स्वस्थाने द्विकादिसंयोगे यथोत्तरं बलिका बलवन्तः सूत्रचिन्तायां परम्परं सूत्रं पाठयत् अर्थचिन्तायां परम्परमर्थ व्याख्यानयन् सूत्रार्थयोरेव परस्परं चिन्तायामर्थप्रदाता बलीयानितिभावः । [भा. ३९७७] आवलिया मंडलिकमो पुव्वुत्तो च्छिन्नच्छिन्न भेदेणं ।
एसासु उवसंपय एत्तो सुहदुक्खसंपयं वोच्छं ।।
वृ- या सा श्रुतोपसम्पत परंपराप्ता आवलिका ज्ञातव्या यात्वनन्तरा सा मण्डली सा च अच्छिन्ना कथमिति चेदुच्यते यस्मादभिधारकस्य लाभोऽन्येनाच्छिन्नः सन्नभिधार्यमाणमागच्छति । ततोऽच्छिन्नो लाभयोगात् सा उपसम्पदच्छिन्नेत्युच्यते या चावलिका सा छिन्ना यतस्तस्यां यो लाभ आदित आरभ्य परम्परया छिद्यमानोऽन्तिमेऽभिधार्येऽन्यमनभिधारयति विश्राम्यति ततः सा च्छिन्नोपसम्पत् । एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org