________________
उद्देशक :- १०, मूल - २५१, [भा. ३९६७ ]
[भा. ३९६७ ]
दुविहो अभिधारतो दिठमदिट्ठो व होइ नायव्वो । अभिधारिजंतगसं एहिं दिठो वा अन्नेहिं । । दिठो माई अमाई एवमदिट्ठो वि होइ दुविहो उ । अमाई उ अप्पिणितीसाईउ न अप्पिणे जोउ ।।
[भा. ३९६८ ]
वृ- आद्यगाया व्याख्यानं प्राग्वत् । दृष्टो द्विविधो मायी अमायीच । एवमद्दष्टोऽपि द्विविधो भवतिमायी अमायी च । तत्र अमायी लब्धं सचित्तादिकमर्पयति यस्तु मायी स नार्पयति । ततः स बलवान्व्यवहारेण दाप्यते शेषं तथैव ।
[भा. ३९६९ ]
एवं ता जीवंते अभिधारेंतो उ एइ जो साहू । कालगते एयम्मि उ इणमन्नो होइ ववहारो ।।
वृ- एवं तावत् जीवत्यभिधार्यमाणे योऽभिधारयन् साधुरागच्छति तस्य व्यवहारः, पुनरेतस्मिन्नभिधार्यमाणेऽयमन्यो भवति व्यवहारः । तमेवाह
Jain Education International
४३१
[भा. ३९७० ] अप्पत्ते कालगते, सुद्धमसुद्धे दिंत्तअदिंत्तेय । पुव्विं पच्छा निग्गय संतमसंते सुते बलिया ।।
वृ- कंचिदाचार्यमभिधारयन् संप्रस्थितस्तत्र यं गच्छमभिधार्य संप्रस्थितस्तमप्राप्ते एव स आचार्यः कालमतोऽत्र च त्रयः प्रकाराः पुव्वं पच्छा निग्गयत्ति सयदैवाभिधारयन् निर्गतस्तदैव कालगत आचार्यः । १ अथवा पूर्वमभिधारयन् निर्गतः पश्चादाचार्यः कालगतः २, यदि वा पूर्वमाचार्यः कालगतः स पश्चादभिधारयन् निर्गतः ३ । अत्र प्रथमे प्रकारे यत्तेनाभिधारयता पथि सचित्तादि लब्धं, तत्कालगताचार्य शिष्याणामाभवति । द्वितीये प्रकारे लब्धेऽलब्धे वा सचित्तादिके यद्युपरताः स्थविरास्तदापि तत्सचित्तादि तच्छिष्याणामाभवति । तृतीये प्रकारेऽभिधारयता दूरादागच्छता तावन्न ज्ञातं यावत्तं गच्छं प्राप्तस्ततौ यग्निमित्तं स तत्रागतस्तत् श्रुतं यदि तस्य शिष्यस्यास्ति तदा स तत् श्रुतं तस्मै दातुमिच्छति । ततः कालगताचार्याणामेव तत् सचित्ताद्याभवति । अथ तत् श्रुतं नास्ति न वा ददति तदा न लभन्ते कालगताचार्याशिष्याः सचित्तादिकं; आह- कि कारणं तृतीयेऽपि प्रकारे कालगताचार्यशिष्याणामेवाभवति तत आह-बलियत्ति बलवन्ती श्रुताज्ञा तत् श्रुतं तदवस्थामेव यन्निमित्तं तेनाभिधारितं शुद्धमशुद्धे अदिन्तदिते य इति यत्कालगताचार्यस्य शिष्याणामाभवति तद्यद्यभिधारको ददाति तदा शुद्धो अप्रायश्चित्तीत्यर्थः । अथ न ददाति तदा अशुद्धः प्रायश्चित्तभाग् भवतीत्यर्थः । तत्र सचित्तस्यादाने प्रायश्चित्तं चत्वारो गुरुकाः, आदेशान्तरेणानवस्थाप्यमचित्ते उपधिनिष्पन्नं योऽपि वानाभाव्यमादत्ते तस्याप्येवमेव प्रायश्चित्तम् | सम्प्रति पुव्वि पच्छानिग्गते संतमसंते इत्यस्य किचिद् व्याख्यानमाहलब्धे उवरया थेरा तस्स सिस्साण सो भवे ।
[भा. ३९७१]
कालगते
म वि लभते सीसो जइसे अत्थि देइ वा ।।
वृ-तत्र प्रथमप्रकारेऽभिहितं प्राक् तथैव द्वितीये प्रकारे लब्दे उपलक्षणेतत् । अलब्धे वा सचिते स्थविरा उपरतास्ततः स सचित्तादिको लाभस्तस्य शिष्याणामाभवति । तृतीये पुनः प्रकारे मृतेऽप्यभिधारिते लभते शिष्यो यदि से तस्य श्रुतमस्ति ददाति वा, अथवा नास्ति न ददाति वा तदा न लभते । एतावता संतमसंते इत्यपि व्याख्यातं उपसंहारमाह
For Private & Personal Use Only
www.jainelibrary.org