SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- १०, मूल - २५१, [भा. ३९३० ] सारुवियमादि काउं वितन्नेहिं न पेहियं ।। तं तु वीसरियं तेसिं पउत्था वावि तेभवे । खेत्तिओ य तहिं पत्तो तत्थिमा होइ मग्गणा ।। ४२५ [भा. ३९३१] वृ- तावनन्तरोदितौ द्वावपि श्रुत्वोपेत्य स्थितोऽनापृच्छया मायापृच्छया च स्थित इत्येवं लक्षणावविधिस्थितौ, तृतीयः पुनः सारुपिकभादि कृत्वा सूत्रोक्तेन विधिना पृष्ट्वा स्थितः । यतस्तेषां सारूपिकादीनां यत् पूर्वैरनुज्ञापितं तत् विस्मृतम् । अथवा येऽनुज्ञापितास्ते प्रोषिता अभवन् । अन्येच स्वरूपं न जानते ततस्ते ब्रुवते अन्यैर्न प्रेक्षितमिदं क्षेत्रमिति येन च पूर्वसंघाटकप्रेक्षणेन क्षेत्रं प्रत्युपेक्षितं स क्षेत्रिकसूत्रप्राप्तस्तत्रेयं वक्ष्यमाणा भवति मार्गणा । तामेवाह [भा. ३९३२] आउट्टिताठितो जे न तस्स नामपि नेच्छिमो । अणापुच्छिय दुप्पुच्छी भंडते खेत्तकारणा ।। वृ तत्रय उपेत्य स्थितस्य नामापिनेच्छामः । सर्वथा सर्वज्ञाज्ञा प्रतिकूलतया दुर्गृहीतनामधेयत्वात् । यस्त्वनापृच्छी दुः पृच्छी वा तौ द्वावपि क्षेत्रकारणेन भण्डीते कलहं कुरुतः । [भा. ३९३३] अहवावि दोवि भंडते जयणाए ठिएणते । खेत्तितो दोवि जेउण भत्तं देह न उग्गहं ।। वृ- अथवा द्वावपि तौ यतनास्थितेन सह भण्डते ततो व्यवहारे जाते क्षेत्रिकः सूत्रोक्तेन विधिना तौ जित्वा तयोर्मक्तं ददाति, अनुजानाति नत्ववग्रहं सचित्तमुपधिं वा नानुजानातीतिभावः । तइयाण सयं सोच्चा सड्ढादी एव पुणियं । होइ साहारणं खेत्तं दितो खमएण ऊ ।। [भा. ३९३४ ] वृ- तृतीयानां यतनास्थितानां तद्वचनतः क्षेत्रिकः स्वयं श्रुत्वा श्राद्धादीन्वा पृष्ट्वा ज्ञातं स्वरूपं यथा पृष्ट्वा विधिनैते स्थिता इयमत्र भावना क्षेत्रिकेण यतना स्थिता अपि पृष्टाः किं भवन्तोऽत्र स्थितास्तेऽवादिपुर्वयमत्र पृष्ट्रा स्थिताः परं न केनापि कथितं यथान्यैरनुज्ञापितमिदं क्षेत्रमिति ततस्तेन क्षेत्रिकेण श्राद्धादयः पृष्टास्तेऽप्यूचुर्यतो युष्माभिरनुज्ञापितं तदस्माकं विस्मृतं, यदि वा वयं प्रोषिता अभूमयेऽप्येतैरनुज्ञापितास्तैरप्यस्माकं कथितं यथैतैर्वयमनुज्ञापिता इति, एवं तेषां यथास्थिते स्वरूपे ज्ञातेसाधारणमुभयेषां भवतिक्षेत्रं, विधिना पृच्छातो यतनास्थितानामपि शुद्धत्वात्, अत्रदृष्टांतः क्षपकेण पिंडनियुक्तिप्रसिद्धेन यथा पायसक्षपको विधिना शुद्धं गवेषयन् आधाकर्मण्यपि शुद्धस्तथा इमे यतना स्थिता अपि एतदेवाह [भा. ३९३५ ] सुद्धं गवेसमाणो पायसखमतो जहा भवे सुद्धो ! तह पुच्छिउठायंता सुद्धा उभवे असढभावा ।। वृ- यथा पायसस्य क्षीरान्नस्य प्रतिग्राहकः पायसक्षपकः शुद्धं गवेषयन् आधाकर्मण्यपि पायसे गृह्यमाणे शुद्धस्तथा विधिना पृष्ट्वास्तिष्ठन्तोऽशठभावाः शुद्धा भवन्ति । अत्रैव प्रकारान्तरमाहअतिसंथरणे तेसिं उवसंपन्ना उ खेततो इयरे । [ भा. ३९३६ ] अविहिठिया उदोवी अहवा इमा मग्गणा अन्ना ।। वृ- अतिसंस्तरणे संस्तरणातिक्रमेण तेषां क्षेत्रिकाणामितरे यतना स्थायिनः क्षेत्रत उपसम्पन्ना द्वौ पुनः प्रागुक्तावाविधिस्थितौ तेषामथवा इयमन्या मार्गणा तामेवाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy