________________
उद्देशक :- १०, मूल - २५१, [भा. ३९१७]
- ४२३ वर्षारात्रंकर्तुकामास्तद्यथान्येकेचित्साधव आगच्छेयुस्तदा तेषामेतत्यूयं कथयतेति दुगाउयाइं चेत्यादि यदि तत्र स्वग्रामे संज्ञी श्रावको न विद्यते तदा द्वे गव्यूते गत्वा प्रतिवसमे अन्तरपल्ल्यां वा गत्वा यदि श्रावकोऽस्तिततस्तस्य निवेदना कर्तव्या । यथास्माकमिदंरुचितं क्षेत्रमेतत्ज्ञातमन्येषांकुरुतेति । [भा.३९१८] जयणाए समणाणंअनुन्नविता वसंतिखेत्तबहिं ।
वासावासट्टाणं आसाढेसुद्धदसमीए ।। - वृ- यतनया सारूपिकादिकं सन्तमनुज्ञाप्य क्षेत्रस्य बहिर्वसन्ति वर्षावासस्थानं पुनराषाढे शुद्धदशम्यां । सम्प्रतिजयणाए इत्यस्य व्याख्यानमाह[भा.३९१९] सारूवियादि जयणा अन्नेसिं वावि साहए बाहिं ।
बाहिंवा विठियासंता पायोगंताधिगेण्हए ।। वृ- सारूपिकादीनामन्येषां वा यत्साधयति कथयति एषा यतना इयं च प्रागेवोक्ता । अथवा पूर्वगाथाप्रथमार्धस्यैवंव्याख्या-सन्तंसारूपिकादिकमनुज्ञाप्यक्षेत्रस्यबहिर्यतनयावसन्ति । तत्रतामेव यतनामाह-बहिर्वापिस्थितास्तत्र वर्षाप्रायोग्यमुपधिंगृह्णन्ति उत्पादयन्तितच्चैवंसंघाटकाः सर्वासुदिक्षु प्रत्यासन्नंप्रेक्षन्ते । एकैकश्चसङ्घाट आत्मनः परिपूर्णमुपधिमुत्पादयति । एकस्यचजनस्याधिकस्येति। [भा.३९२०] दोएहंजतो एगस्सा निप्पज्जइतत्तियंबहिठियाओ ।
दुगुणप्पनुवासबहिंसंथरेपल्लिंचवज्जति ।। वृ-द्वयोरूपधिर्यस्मादेकस्यान्यस्य निष्पद्यते उपधिरात्मनश्च संघाटस्य तदपेक्षया द्विगुणस्तावन्मात्रमुपधिं वर्षायोग्यं सर्वासु दिक्षुः बहिःस्थिता उत्पादयन्ति यदि पुनः संस्तरन्ति तदा बहिः प्रतिवृषभग्रामान्अन्तरपल्लींचवर्जयंतिनतत्र गच्छन्ति[भा.३९२१] उच्चारमत्तगादी छारादी चेव वासपाउगं ।
संथार फलगसेज्जातत्थ ठिया चेवनुन्नवणा ।। वृ-तथा तत्र बहिः स्थिता एव उच्चारमात्रकादि आदिशब्दात् प्रश्रवणमात्रकपरिग्रहस्तथा क्षारादि आदिशद्वात् डगलगादिपरिग्रहः वर्षाप्रायोग्यं तथा संस्तारकफलकशय्या अनुज्ञापयति । अथ कस्मासर्वेषां सारूपिकादीनामनुज्ञापना क्रियते ? उच्यते एकस्य कथिते कदाचित्सोऽसद्भूतः स्यात्ततोऽनुज्ञापितमननुज्ञापितमेव जायते,सर्वेषांपुनः कथितेयदिकेचिदसद्भूतीभवन्तितदेतेयेशेषाः सन्तस्ते अन्येषां साधूनामागतानां कथयन्ति । ते च बहिस्तिष्ठन्ति, प्रतिवृषभे अंतर पल्लयां वा तत्र यांन भोक्ष्यन्ते। [भा.३९२२] पुन्नो यतेसिंतहिमासकप्पे, अन्नंच दूरेखलुवासजोगं ।
ठायंतितो अंतरपल्लियाए, जंएस काले य नभुंजिहत्ती ।। वृ- पूर्णः खलु तेषांतत्र वर्षाप्रायोग्यतया संभावित क्षेत्रेऽथवा आषाढशुद्धदशमी । अन्यच्चापि दूरे अन्यच्च वर्षाकालयोग्यं क्षेत्रं दूरे तत्र आषाढशुद्धदशमी प्रविक्षणार्थं यामेष्यति काले न भोक्ष्यन्ते तस्यामन्तरपल्ल्यामुपलक्षणमेतत्प्रतिवृषभेवाग्रामे तिष्ठन्ति । अत्रआषाढशुद्धदशम्यांवर्षायोग्येक्षेत्रे समागच्छन्ति । [भा.३९२३] संविग्गबहुलकाले एसा मेरा पुरा य आसीय ।
इयरबहुले उसंपइपविसंति अनागयंचेव ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org