SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२२ व्यवहार- छेदसूत्रम् - २- १०/२५१ वृ-यदि तत्र क्षेत्रं संस्तरणं तदा सर्वेऽपि तिष्ठन्ति । अथ सर्वेषामसंस्तरणं तदा असंस्तरणे गणी वृषभो निर्गच्छति आचार्यस्तिष्ठति । अथ द्वावपि वर्गो तुल्यौ द्वावपि गणिनौ द्वावप्याचार्यो वा तदा तत्रेयं भवति मार्गणा । तामेवाह [भा. ३९१३] निष्पन्न तरुण सेहे जुंगिय पायच्छिनासकरकन्ना । एमेव संजतीणं नवरं बुड्ढी नाणत्तं ।। वृ- एकस्य निष्पन्नपरिवार एकस्यानिष्पन्नो यस्य निष्पन्नः स गच्छतु इतरस्तिष्ठतु, अथ द्वयोरपि परिवारो निष्पन्नः केवलमेकस्य तरुण एकस्य वृद्धः वृद्धास्तिष्टन्तु इतरे गछन्तु, अथ द्वयोरपि तरुणा वृद्धा वानवरमेकस्य शैक्षा अपरस्य चिरप्रव्रजिताः तत्र ये चिरप्रव्रजितास्ते गच्छन्तु इतरे तिष्ठन्तु, अथ द्वयोरपि शैक्षाश्चिरप्रव्रजिता वा, केवलमेकस्य जुङ्गितपादाक्षिनाशाकरकर्णा, अपरस्याजुङ्गितास्तत्र जुङ्गितास्तिष्ठन्त्वितरे गच्छन्तु, अथ द्वयोरपि जुङ्गितास्तत्र ये पादजुङ्गितास्ते तिष्ठन्त्वितरे गच्छन्तुः, सम्प्रति संयतीनां प्रवर्तिन्या अभिषेकायाश्च मार्गणा कर्तव्या । ततस्तामाह एवमेव अनेनैव प्रकारेण संयतीनां मार्गणा कर्तव्या, नवरं वृद्धासु नानात्वं तच्चेदं तरुणीवृद्धानां तरुण्यस्तिष्ठन्ति वृद्धा गच्छन्ति, शेषं तथैव । सम्प्रति संयतानां संयतीनां च समुदायेन मार्गणां करोति [ भा. ३९१४] समणाण संयतीणय समणी अच्छंति नेति समणा उ । संजोगे वि य बहुसो अप्पाबहुअं असंथरणे ।। वृ- श्रमणानां संयतीनां चैकत्रस्थानेऽवस्थितानामसंस्तरणे श्रमण्यस्तिष्ठन्ति निर्गच्छन्ति श्रमणाः, संयोगे च बहुशः प्रवर्तमानेष्वसंस्तरणेऽल्प बहुपरिभाव्य वक्तव्यम् । तथैव यत्र संयता जुंगिताः श्रमण्यो वृद्धास्तत्र जुंगितास्तिष्ठन्ति श्रमण्यो निर्गच्छन्ति । एवं गुरुलाघवं परिभाव्यं स्वबुद्ध्या भावनीयं । सम्प्रति क्षेत्रिकाक्षेत्रिकाणां संस्तरणयोर्मार्गणां करोति । [भा. ३९१५] एमेव भत्तसंतुठा तस्सालंभंमि अप्पभू निंति । जुंगियमादीएसु य वयंति खेत्तीण ते तेसिं ।। वृ- एवमेव अनेनैव प्रकारेण क्षेत्रिकाक्षेत्रिकाणमपि संस्तरणेऽसंस्तरणे च भावनीयं । तच्चैवं यदि संस्तरणं तदा क्षेत्रिका अपि तिष्ठन्तु अक्षेत्रिका अपि नवरमक्षेत्रिका भक्तसंतुष्ठास्तिष्ठन्तु । सचित्तमुपधिं च न लभन्ते 'तस्साल्लभंमित्ति' तस्य भक्तस्य अलामे असंस्तरणे इत्यर्थः । अप्रभवोऽक्षेत्रिका निर्गच्छन्ति । अथाक्षेत्रिका जुङ्गिता आदिशब्दादजङ्गमावा, तदा तेष्वक्षेत्रिकेषु जुङ्गितादिषु क्षेत्रिणो व्रजन्ति जुङ्गितादयस्तिष्ठन्तु येषां च सम्बन्धिनस्ते जुङ्गिता वृद्धा वा न तेषां तत्क्षेत्रमाभवति उपलक्षणमेतत् । तेनादेशिनां कुडुकादीनां च नाभवति क्षेत्रम् । [भा. ३९१६ ] पत्ताण अनुन्नवणा सारूविय सिद्धपुत्त सन्नी य । भोईय महयर न्नाविय निवेयण दु गाउयाई ।। सग्गामसन्नि असति पडिवसभे पल्लिए व गंतूणं । अम्हं रुइयं खेत्तं नायं खु करेह अन्नेसिं । । [भा. ३९१७] वृ- क्षेत्रप्रत्युपेक्षकाणां यत्र वर्षारात्रः कर्तव्यस्तत् क्षेत्रं प्राप्तानामनुज्ञापना भवत्यमीषां कर्तव्या ताने वाह- सारूपिकसिद्धपुत्रौ प्रागभिहितौ संज्ञिनो गृहीतानुव्रतदर्शनश्रावकाः भोजिको ग्रामस्वामी महत्तरा ग्रामप्रधानाः पुरुषा नापिता नखशोधका वारिका इत्यर्थः, एतेषामनुज्ञापना कर्तव्या यथा वयमत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy