________________
४२०
व्यवहार-छेदसूत्रम्-२- १०/२५१ केचित्तत्रसमकालंसीमानं प्राप्तानामियं वक्ष्यमाणामार्गणाभवति ।अनयागाथयान्यपादत्रयेणसमकं किल चतुर्भङ्गी सूचितास्ततस्तामेवदर्शयति. [भा.३८९९] पुव्वं विनिग्गतोपुवमतिगतो पुव्वनिगतोपच्छा। ..
पच्छा निग्गतोपुव्वं, तुअतिगतो दोविपच्छा वा ।। वृ-जातावकेवचनमतोबहुवचनंद्रष्टव्यंपूर्वनिर्गताः पूर्वमेव समकंप्राप्ताः १ पूर्वनिर्गताः पश्चादेकतरे प्राप्ताः २ पश्चाद्विनिर्गताः पूर्व प्राप्ताः ३ एकतरेपश्चाद्विनिर्गताः पश्चादेव च तत्क्षेत्रमतिगताः ४ । [भा.३९००] पढमभंगे इणमोउमगणा पुव्वणुन्नवे जइतु ।
तातेसि होइखेत्तं अह पुन अच्छंतिदप्पेण ।। वृ-तत्रभङ्गचतुष्टयमध्ये प्रथमके भङ्गे इयं मार्गणा भवति । यदि पूर्वमेव समकं निर्गतः पूर्वमेव च समकंतत्क्षेत्रं प्राप्तैः पूर्वमेघचसमकमनुज्ञापयन्तितदा तेषां भवतिसाधारणक्षेत्रमथपुनःसमकं प्राप्ता अपि एकतरे दर्पण तिष्ठन्ति, दर्पोनाम निष्कारणं, तदा यैः पूर्वमनुज्ञापितं तेषां तत्क्षेत्रं नेतरेषाम् । [भा.३९०१] खेत्तमतिगयामोत्ति वीसत्थजइअत्थहे ।
पच्छा गयणुन्नवए,तेसिंखेत्तं वियाहियं ।। वृ-क्षेत्रमतिगताः प्राप्ताः स्म इति यदि विश्वस्ता आसीरन्न क्षेत्रानुज्ञापनाय यतन्ते तदा आसतां पूर्वप्राप्ताः किन्तुपश्चागताः अपि येतेभ्यः पूर्वमनुज्ञापयन्ति क्षेत्रंतेषांतत्क्षेत्रं व्याख्यातं कथितम् । [भा.३९०२] गेलन्न वाउलाणंतु, खेत्तमन्नस्स नोभवे ।
निसिद्धोखमतोचेवतेन तस्सनलब्भते ।। वृ- ग्लानत्वेन आकुलानां पूर्वं समकं प्राप्तानामपि समकं पूर्वं वानुज्ञापनमभूत्तदा कारणे स्थितत्वात्तेषामाभवतितत्क्षेत्रमन्यस्य पूर्व प्राप्तपूर्वानुज्ञापकस्य वा, तथा क्षपको निष्कारणे क्षेत्रप्रत्युपेक्षणाय न प्रवर्तयितव्यो निषेधात्तेनाकारणेन तस्य क्षपकस्य यत्क्षेत्रं तेन क्षपकेणयदनुज्ञापितं क्षेत्रमित्यर्थः तत्तैर्न लभ्यते, किन्तुयैः पश्चादप्यागतैरनुज्ञापितंतेषांतत्क्षेत्रं, अथकारणे क्षेत्रप्रत्युपेक्षणाय क्षपकः प्रवर्तितस्तदातेनानुज्ञापितं तेलभन्तेक्षेत्रं,तथाक्षपकस्यपारणकेव्याकुलाइतिनानुज्ञापयन्ति । तदा न तेषां तत्क्षेत्रं, किन्तु यैरनुज्ञापितं तेषामिति तदेवं गतः प्रथमो भङ्ग । सम्प्रति द्वितीयं तृतीयं च भङ्गमधिकृत्य विवक्षुरिदमाह- [भा.३९०३] पुव्वविनिग्गया पच्छा, पविठ्ठा पच्छा यनिग्गया।
पूव्विं कयरेसिंखेत्तं, तत्थ इमामग्गणा होइ ।। वृ- पूर्वं विनिर्गताः पश्चादन्यापेक्षयाक्षेत्रे प्रविष्टाः,अपरेपश्चाद्विनिर्गता अन्यापेक्षयां पूर्वं प्रविष्टाः, कतरेषां तेषांक्षेत्रं भवतिमार्गणा । तमेवाह[भा.३९०४] . गेलन्नादीहिंकज्जेहिंपच्छाइंताण होतिखेत्तंतु ।
- निक्कारण ठिया ऊपच्छातिता उनलभंति ।। वृ-पूर्वं विनिर्गताःसन्तोयदिग्लानादिभिः कारणैः पश्चादागच्छन्तितदातेषांपश्चादतियंतामागच्छतां भवति क्षेत्रं । अथ निष्कारणं यत्रतत्र वा स्थितास्तेन पश्चात् आगतास्तदा ते पश्चादागच्छतो न लभंते क्षेत्रम्, गतो द्वितीयभङ्गस्तृतीयमधिकृत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org