________________
४१८
व्यवहार - छेदसूत्रम् - २ - १०/२५१
सच्चित्ते अच्चिते खेत्ते काले यभावे य ।।
वृ- आभवत्पञ्चधा पञ्चप्रकारं भवति । तद्यथा क्षेत्रे श्रुते सुखदुःखे मार्गे विनये च प्रायश्चित्तमपि पञ्चधा । सचित्ते अचित्ते क्षेत्रे काले भावे च । एष प्रतिद्वारगाथासमासार्थः । तत्र क्षेत्रे तावदाभवत् प्राह[भा. ३८८६ ] वासासु निग्गयाणं असु मासेसु मग्गणा खेत्ते । आयरियकहण साहण नयने गुरुणा य सच्चित्ते ।।
वृ- अष्टासु ऋतुबद्धेषु मासेषु विहरतां वर्षासु विषये क्षेत्रे मार्गणा भवति क्षेत्रमार्गणा, यच्च निर्गतानां साधूनां क्षेत्रं प्रत्युपेक्ष्य प्रत्यागतानामाचार्यस्य पुरतः क्षेत्रगुणकथनं तच्च गच्छान्तरागतप्राघूर्णिकसाधुभिराकर्ण्य निजाचार्यसमीपं गत्वा तस्य कथनं तत्र नयने प्रायश्चित्तं, तत्र गतैः सचित्ते गुह्यमाने चत्वारो गुरुकाः । साम्प्रतमेनामेव गाथां विवृणोति
[भा. ३८८७ ]
उउबद्धे विहरता वासा जोग्गं तु पेहए खेत्तं । वत्थव्वा य गता वा उव्वेक्खित्ता नियत्ता वा ।।
वृ- ऋतुबद्धे काले विहरन्त आचार्यप्रायोग्यं क्षेत्रं प्रत्युपेक्ष्यन्ते, वास्तव्या वा क्षेत्रप्रत्युपेक्षणायोपेत्य गता, यदि वा तस्मात् क्षेत्रान्निवृत्ताः केचित् स्वगच्छसाधव समागताः । आलोएंते सोउं साहंते अप्पणो गुरुणो । कमि होइ मासो गयाण तेसिं न तं खेत्तं ।
[भा. ३८८८ ]
वृ- ते वास्तव्या गताः क्षेत्रंप्रत्युपेक्ष्य समागताः ततो वा क्षेत्रान्निवृत्ता आचार्याणां पुरत आलोचयन्ति । क्षेत्रस्य गुणान् कथयन्ति । तत्रचान्य अन्यस्मात्प्राघूर्णकाः समागतास्ते च तान् तथा आलोचयतः श्रुत्वा गत्वा आम्मनो गुरोराचार्यस्य साहयन्ति कथयन्ति । ततो ब्रुवते यावते तत्र न तिष्ठन्ति तावद्वयं तिष्ठामः । एवं कथने तेषां प्रायश्चित्तं लघुको मासो भवति, न च गतानां तेषां तत्क्षेत्रमाभवति
[भा. ३८८९ ]
सामत्थण निज्जविए पयभेदे चेव पंथ पत्ते य ।
पणवीसादि गुरुगा गणिणो ग्गहेण वा जस्स ।
वृ- तत् श्रुत्वा यद्याचार्याः सामत्थयन्ति संप्रधारयन्ति तत्क्षेत्रं गच्छाम इति तदा तेषां प्रायश्चित्तं पञ्चविंशति दिनानि, निर्याचित्तं नाम अवश्यं गन्तव्यमिति तन्निर्नयनं तत्रलघुको मासः पदभेदे क्रियमाणे गुरुको मासः पथि व्रजतां चतुर्लघुकं, क्षेत्रं प्राप्तानां चतुर्गुरुकं, एतत् प्रायश्चित्तं गणिन आचार्यस्य यस्य चाग्रहेण ते आचार्या व्रजन्ति । तस्याप्येतदेव प्रायश्चित्तं । न च तत् क्षेत्रं तेषामाभवति । तत्र गत्वा यदि सचित्तमाददति तदा प्रायश्चित्त चत्वारो गुरुकाः । आदेशान्तरेणानवस्याप्यमचित्ते उपधिनिष्पन्नं तस्मादविधिरेष न कर्तव्यः । तथा चाह
[भा. ३८९० ]
एसा अविही भणिया तम्हा एवं न तत्थ गंतव्वं । गंतव्वं विहीए पडिलेहेऊण तं खेत्तं ।।
वृ- यस्मादेषो अनन्तरोदितो विधिर्गाथायां स्त्रीत्वं प्राकृतत्वादेवं तत्र न गन्तव्यं । किंतु विधिना क्षेत्रं प्रत्युपेक्ष्य गन्तव्यम् ।
[ भा. ३८९१]
खेत्तपडिलेहणविही पढमुद्देसम्भिवन्निया कप्पे ।
सव्वे व इहोद्देसे खेत्तविहाणंमि नाणत्तं ।।
वृ- क्षेत्रप्रत्युपेक्षणविधिः कल्पे कल्पाध्ययने प्रथमोद्देशे वर्णितः । स एवेह अस्मिन्नपि व्यवहारस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org