________________
उद्देशकः- १०, मूल - २५१, [भा. ३८७९]
४१७
व्यवहारमिति; आह-यस्मिन् काले गौतमादिभिरिदं सूत्रं कृतं 'बबहारे पञ्चविहे पन्नत्ते' इत्यादि तदा आगमो विद्यते ततः किं कारणभाज्ञादयोऽपि सूत्रे निबद्धाः । अत्राह
[भा. ३८८० ]
सुत्तमनागयविसयं खेत्तं कालं च पप्प ववहारो । होर्हिति न आइल्ला जातित्थं ताव जीतो उ ।।
वृ- सूत्रमनागतविषयं भविष्यति स तादृशः कालो यस्मिन्नागमो व्युच्छेत्स्यति ततः शेषैर्व्यवहारैर्व्यवहर्तव्यं । तत्रापि व्यवहारः क्षेत्रं कालं च प्राप्य यो यथा संभवति तेन तथा व्यवहरणीयमिति । किमुक्तं भवति ? यस्मिन् यस्मिन् काले यो यो व्यवहारो व्यवच्छिन्नो अव्यवच्छिन्नो वा तदा तदा प्रागुक्तेन क्रमेण व्यवहर्तव्यं तथा यत्र यत्र क्षेत्रे युगप्रधानैराचार्यैर्या या व्यवस्था व्यवस्थापिता तया अनिश्रोपश्रितं व्यवर्हतव्यम् । अन्यच्चाद्याश्चत्वारो व्यवहारा न यावत्तीर्थे च भविष्यन्ति जीतस्तु व्यवहारो यावत्तीर्थं तावद्भवितेति जीतोपादानम् । सम्प्रति 'आणाए आराहेइ' इत्यस्य - व्याख्यानमाह
[भा. ३८८१ ]
वृ- आज्ञा द्विविधा-द्रव्ये भावे च द्रव्ये राजादीनामाज्ञा, भावाज्ञा खलु श्रुतं जिनवराणां तत्र सम्यक् पञ्चविधान्यतमेन व्यवहारेण प्रागुक्तनीत्या व्यवहरन् तस्या आंज्ञाया आराधको भवति तदेवं व्याख्याता आज्ञा । सांप्रतमाराधनामाह
[भा. ३८८२]
दव्वे भावे आणा खलु सुयं जिनवराणं । सम्मं ववहारमाणो उतीह आराहओ होति ।।
आराधना उतिविहा उक्कोसा मज्झिमा जहन्नाओ ।
एग दुगतिग जहन्नं दुतिगट्टभवा उउक्कोसा ।।
बृ- आराधना त्रिविधा- उत्कृष्टा मध्यमा जघन्या च । तत्रोत्कृष्टाया आराधनायाः फलमेको भवः, मध्यमाया द्वौ भवौ, जघन्यायास्त्रयो भवाः । अथवा यदि तद्भवे मोक्षाभावस्तदा उत्कृष्टाया आराधनायाः फलं जघन्यं संसरणं द्वौ भवौ, मध्यमायास्त्रयो भवाः, जघन्याया उत्कृष्टा अष्टौ भवाः ।
तदेवं भाष्यकृता सूत्रव्याख्या कृता । सम्प्रति निर्युक्तिविस्तरः
[भा. ३८८३] जेन यववहरइ मुनी जं पी य ववहरइ सो वि ववहारो । ववहारो तहिं वप्पो, ववहरियव्वं तु वच्छामि ।।
वृ- येन मुनिर्व्यवहरति स आगमादिव्यवहारो व्यवह्नियतेऽनेनेति व्यवहार इति व्युत्पत्तेर्यदपि य व्यवहर्तव्यं मुनिर्व्यवहरति सोऽपि व्यवहारः कर्मणि घञः समानयनात्तत्र यो व्यवहारः करणपक्षरुपः संस्थाप्यः पश्चाद्वक्ष्यत इति भावः व्यवहर्तव्यं तु वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयतिआभवंते य पच्छिते ववहरियव्वं समासतो दुविहं । दोसु बि पणगं पणगं आभवणाए अहीगारो ।।
[भा. ३८८४ ]
वृ- व्यवहर्तव्यं समासतो द्विविधं तद्यथा आभवत्प्रायश्चित्तं च । तत्र द्वयोरपि आभवति प्रायश्चित्ते च प्रत्येकं पंचकं तत्राधिकारः प्रयोजनमदानीमाभावनया एष द्वारसंक्षेपगाथार्थः ।
साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतो 'दोसुपि पणगं पणगं' इत्यस्य व्याख्यानमाहखेत्ते सुय सुदुक्खे मग्गे विनए य पंचहा होइ ।
[भा. ३८८५ ]
22 27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org