________________
४१२
- व्यवहार-छेदसूत्रम्-२- १०/२५० वृ-तदज्ञातोछं तपो द्रव्याद्यभिग्रहो द्रव्याभिग्रहः क्षेत्राभिग्रह : कालाभिग्रहो भावाभिग्रहश्च । तत्र द्रव्ये द्रव्याभिग्रहो यत्शुद्धमुंछंगृह्णाति, शुद्धंनाम अलेपकृत्तदपिशुद्धमुंछंगृह्णाति उपनीतं नानुपनीतं तेन पञ्चानामाद्यानां पिण्डैषणानामग्रहणमुपरितन्योश्च द्वयोरेकतरस्या अभिग्रह इत्यावेदितं द्रष्टव्यम् । तथाएतावत्योदत्तयोऽद्य मया ग्राह्याएष द्रव्याभिग्रहः ।क्षेत्रेक्षेत्रविषयेऽभिग्रहे यदेलुकमात्रंविष्कंभ्य गृह्णाति । अत्रापीयं समाचारी यदि द्वावपि पादावेलुकस्यान्तस्तदा न कल्पते, तत्रेदं कारणं यधुच्च एलुकस्तदा कस्य पादौ प्रतिष्ठितौ न दृश्यते, किं बीजादौ प्रतिष्ठितावुत नेति तस्मादेलुकं विष्कंभ्य यदि नीचे एलुके पाश्चात्यः पादः पतितः शुद्धयति यथा न बीजादौ प्रतिष्ठित इति तदा कल्पते, अत्युच्चेतुन कल्पते इतिकाले कालाभिग्रहेतृतीयस्यांपौरुष्यांयदिभक्षामटति । सम्प्रतिद्रव्याभिग्रहे विशेष[भा.३८५१] अनाउंछं एगोवनीय निज्जूहिऊणसमणादी ।
अगुव्विणिंअबालंती एलुगविक्खंभणेदोसा ।। वृ- स प्रतिमाप्रतिपन्नो भगवान् अज्ञातोंछं गृह्णाति, तदप्पेकेनोपनीतं न द्विप्रभृतिभिस्तथा श्रमणादीन् आदिशद्वात् द्विपदचतुष्पदादींश्च निर्दूह्यातिवाह्य भिक्षाभटति । तथा तां ददतीं भिक्षामगुर्विणीमभ्युपगच्छति । अबालां च क्षीराहारबालवर्जितां तथा एलुकविष्कंभणे दोषा भवंतिते चाग्रे वक्ष्यन्ते एष द्वारगाथासंक्षेपार्थः ।साम्प्रतमेनामेव विवरीषुः प्रथमतोऽज्ञातोंछमाह[भा.३८५२] अनाउञ्छंचसुद्धंचपंच काऊणअग्गहं । .
दिन दिने अभिगिएहे तासिमन्नयरीयउ ।। वृ- पञ्चानामाधानां षिण्डैषणानामग्रहणं कृत्वा तयोरन्तिमयोरन्यतरस्याश्च ग्रहणं कृत्वा दिने दिनेऽज्ञातोंछंचशुद्धं चाभिगृह्णाति ।साम्प्रतमेकोपनीतमित्यस्य व्याख्यानमाह[भा.३८५३] एगस्स जमाणस्स उवनीयं तुगेण्हइ ।
नगेण्हे दुगुमादीणंअचियत्तंतुमाभवे ।। वृ- एकस्य भुंजमानस्य उपनीतं भगवान् गृह्णाति न द्विकादीनां द्वयोस्त्रयाणां चतुर्णा पंचानां वा उपनीनगृह्णाति, । कस्मादितिचेन्माभूदप्रीतिरितिहेतोः । अधुना निज्जूहिऊणसमणादी व्याख्या[भा.३८५४] अडतो भिक्खकालंमीघासत्थी वसभादओ।
वज्जेइ होज्जमा तेसिंआउरतेन अप्पियं ।। वृ-भिक्षाकाले वृषभादयो ग्रासार्थिनोऽटन्ति । ततस्तान् वर्जयति मा तेषामातुरत्वेनाप्रीतिकं भूयादिति हेतोः । एतदेवाह[भा.३८५५] दुपय चउप्पय पक्खी किविणातिहि समणसाणमाईया ।
निज्जूहिऊणसव्वे अडइ भिक्खंतुसोताहे । वृ-भिक्षाकाले द्विपदाश्चतुष्पदाः पक्षिणः कृपणातिथयः श्रमणाश्चादयश्चभिक्षार्थमटन्ति ततस्तान सर्वान् निर्वृह्य तदनन्तरंस भगवान् भिक्षामटति । कथमतिवाह्येत्यत आह[भा.३८५६] पुब्वि चरइतेसिं नियट्टिचारेसु वा अडइपच्छा।
जत्थभवेदोन्निकाला चरइ तत्थ अतित्थिते । वृ-तेषां श्रमणानां पूर्व वा चरति यदि वा तेषु श्रमणादिषु निवृत्तचारेषु पश्चाददति, एतच्च तस्मिन् क्षेत्रेद्रष्टव्यं यत्रत्रयो भिक्षा काला यत्रतुद्वौ भिक्षाकालौ तत्र अतीत्यिते अतिक्रान्ते श्रमणादौ गच्छति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org