________________
३८
व्यवहार-छेदसूत्रम्-२- ४/१०५ ऋतुबद्धः कालो दर्शितो यं पुरतः कृत्वा प्रभुं कृत्वा इत्यर्थः । स नियमादाचार्य उपाध्यायो वाद्रष्टव्यो विहरतिसआचकदचित् 'वीसुंभेजा' शरीराद्विष्वग्भवेत्कालगतोभवेत् । ‘अत्थियाइत्थ'इत्यादि, अस्ति चात्र समुदायोऽन्यः कश्चित् आचार्यादुपाध्यायाद्वा व्यतिरिक्तो गणी प्रवर्तकः स्थविरो वृषभो वा उपसम्पदनाहस्तत उपसम्पत्तव्यः । अथान्यो नास्ति कश्चिदत्रोपसम्पदनार्हस्तर्हि स आत्मनः कल्पनासामाप्तइतिसेतस्य कल्पते । एकरात्रिक्याप्रतिमयायत्रवसतितत्रैकरात्राभिग्रहेण जनजन्नं' इत्यादि, यस्यां यस्यां दिशि अन्ये साधर्मिका विहरन्ति, तां तां दिशमुपलातुं, न पुनः ‘स' तस्य कल्पते तत्रापान्तराले विहारप्रत्ययंवस्तुं, कल्पते 'स' तस्यकारणप्रत्ययंसंघातादिकारणनिमित्तं वस्तुं, तस्मिंश्च कारणे निष्ठते यदि परो वदेत् वस आर्य! ऐककात्रंद्विरात्रं वा एवं से' तस्य कल्पते एकरात्रं वा द्विरात्रंवा वाशब्दात् त्रिरात्रं वा वस्तुं, न 'स' तस्य कल्पते एकरात्रादिरात्राद्वा परं वस्तुं, यः (य) तत्र एकरात्रात् द्विरात्राद्वा परं वसति तत्र ‘स' तस्य स्वकृतादन्तरात् च्छेदः परिहारो वेति । अधुना नियुक्तिविस्तरः । अत्रोपसम्पदनाह इत्युक्तम् । सा चोपसम्पद्विविधा -लौकिकी लोकोत्तरिकी वा । तथा चाह[भा.१८८९] लोगे यउत्तरंमी य, उवसंपय लोगिगी उरायाई ।
राया विहोईदुविहो, सावेक्खो चेव निरवेक्खो ।। वृ- उपसम्पद्विधा-लोके, उत्तरेच लोकोत्तरे । तत्र लौकिकी राजादौ । आदिशब्दात् युवराजादिपरिग्रहः । तथाचवदाराजामृतोभवति, तदायुवराजमुपसम्पद्यन्ते,तंराजानंस्थापयन्तीत्यर्थः युवराजोऽन्यःस्थाप्यते । स च राजाभवति द्विविधः सापेक्षो निरपेक्षश्च सहापेक्षयासापेक्षः, तद्विपरीतो निरपेक्षः । तथा च प्रजाराज्याद्यपेक्षः सन्जीवन्नेव युवराजंस्थापयति निरपेक्षस्तु नैव ।।
अथ किंजीवन्नेव युवराजंस्थापयति । तत आह[भा.१८९०] जुवराजंमि उठविए, पयाउ बंधंति आयतितत्थ ।
नेवय कालगयंमी, खुब्भंति पडिवेसिय नरिंदा ।। वृ-युवराजे राज्ञा साक्षाद्विद्यमान स्थापिते प्रजास्तत्र आयतिमागामिकालविषयां महतीमास्थां महतीमास्थांबध्नन्ति, नैवचसहसा कालगतेराज्ञिप्रातिवेशिकनरेन्द्राःसीमातटवर्तिनः प्रत्यन्तराजानः क्षुभ्यन्ति । राज्यविलोडनायसंचलन्ति ।। उक्तः सापेक्षः संप्रति निरपेक्षमाह[भा.१८९१] - पच्छन्नरायतेने आय परो दुविह होइ निक्खेवो ।
लोइय लोगुत्तरितो,लोगुत्तर थप्पियरेवोच्छं ।। वृ-निरपेक्षो नाम यः प्रजानां राज्यस्य चायर्ति नापेक्षेते, तस्मिन् कालगते स राजा मृतः प्रच्छन्नो प्रियते । यथा अतीव राजाशरीरबाधितो वर्तते स च तावत् ध्रियते यावदन्यो निवेश्यते, सचकदाचित् स्तेनोऽपि । यथा निक्षेपणं निक्षेपः स द्विविधो द्विप्रकारस्तद्यथा-आत्मनः परतश्च । पुनरेकैको द्विधालौकिको लोकोत्तरिकश्च । तत्र लोकोत्तरिकः स्थाप्यः पश्चाद्वक्ष्ये इत्यर्थः इतरं लौकिकं प्रथमगाथापादोपक्षिप्तं वक्ष्ये ।। प्रतिज्ञातमेव निर्वाहयति[भा.१८९२] निरवेक्खेकालगते, भिन्नरहस्सा तिगिच्छमच्चोय।।
__अहि वास आसहिंडन, वज्झोतिय मूलदेवो उ ।। वृ-एको राजा निरपेक्षस्तस्यराज्येमूलदेवश्चौरिकां करोतिसकदाचिदारक्षकैः प्राप्तो राज्ञः पार्श्वनीतो राज्ञा यस्तेन इतिकृत्वावध्य आज्ञप्तः । ततोराजा तत्क्षणमेव निजमावासस्थानमुपगतः क्षणमात्रेणच Jain Education International
For Private & Personal Use Only
www.jainelibrary.org