SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ४, मूल - १०५, [भा. १८९२] ३९ सहसा कालगतः, तस्मिन्निरपेक्षे कालगते द्वौ भिन्नरहस्यौ राजा मृत इति रहस्यं द्वौ जाणितस्तद्यथांचिकित्सकोवैद्योऽमात्यश्च, राजाचानपत्यस्ततोऽश्वस्याधिवासना कृता सर्वत्र त्रिकचतुष्कचत्वादिषु हिण्डाप्यते । कथं नाम राजलक्षणयुक्तं पुरुषं लभेमहि यं राजानं स्थापयाम इति । मूलदेवश्च यो बध्य आज्ञप्तः स तेनावकाशेन नीयमानो वर्तते ।। [भा. १८९३] आसस्स पट्टिदानं आनयनं हत्थचालणं रन्नो । अभिसेग भोइय परिभव तण जक्ख निवायणं आणा । । वृ- ततो अश्वेन तस्य मूलदेवस्य वध्यतया नीयमानस्य पृष्ट दत्तं, गाथायां स्त्रीत्वं प्राकृत्वात् प्राकृते हि लिगं व्यभिचारि । ततो मूलदेवो यत्र राजा प्रच्छन्नो जवनिकान्तरितो ऽवतिष्ठते तत्रानीतस्ततो वैद्यकुमारामात्याभ्यां जवनिकाभ्यन्तरस्थिताभ्यां राज्ञो हस्त उपरिमुखो नीत्वा चालितः । एतत् राज्ञो हस्तवालनं । ततो वैद्यकुमारामात्याभ्यामुक्तं कृता राज्ञानुज्ञा यथा मूलदेवं राजानमभिषिञ्चत, न शक्नोति वाचा वक्तुमिति । ततोऽभिषिक्तो मुलदेवो राज्ये नवरमसदृश इति कृत्वा केचिद्भोजिकाः परभवमुत्पादयन्ति । न पुनः कुर्वन्ति विनयं । ततश्चिन्तयति मूलदवो, ममैते मूर्खतया परिभवं कुर्वते; परं किमिदानीमेते मूर्खतयैव कदाचित्स्वयमेवालमण्डलं जल्पिष्यन्ति तदानीं शासयिष्यामि । ततोऽन्यदिवसे आत्मनंः शिरसि तृणशूकजातं कृत्वा आस्थानमण्डलिकायामुपविष्टः । ते च भोजिका मूर्खतया शनैः परस्परमुल्लपन्ति - अद्यापि नन्वेष चौरत्वं न मुञ्चति, अन्यथा कथमेताद्दशस्य तृणशूक जातस्येदृशे भवने संभवो, नूनं तृणगृहादिषु चौरिकानिमित्तमतिगतस्ततः तृणशूकजातं शिरसि लग्नमिति । एतच्चाकर्ण्य मूलदेवो रोषमुपागमत ब्रूतेय अस्तिकोपिनाम मच्चिन्ताकारी य एतान् शास्तीति, तत एवमुक्ते तत्पुण्यप्रभावतो राज्यदेवताधिष्टितैर्निशितासिलताकैचित्रकर्मप्रतिहारैः केषांचित् शिरांसि लूनानि शेषाः कृत प्राञ्चलयः आज्ञामभ्युपगमतवन्तः । तथा चाह 'भोइयपरिभवेगइ' त्यादि, भोजिकाः परिभवं कृतवन्तोऽन्यदामूलदेवस्तणात्ति तृणानि शीर्षे कृतवान् । ततस्तत्कोपावेशं दृष्ट्रा यक्षैरतिपातनं विनाशनं कृतम् शेषैराज्ञा प्रतीच्छिता ।। एतदेव सविशेषमाह [भा. १८९४ ] जक्खतिवातियसेसा सरणगया जेहिं तोसितो पुव्वं (व्वि) । ते कुव्वती रन्नो अत्ताण परे य निक्खेवं ।। वृ- यक्षातिपातितशेषाः शरणगता मूलदेवस्य शरणं प्रतिपन्नाः यैश्च पूर्व मूलदेवस्तोषितस्ते राज्ञ आत्मनः परस्य च निक्षेपमद्यप्रभृतियुष्मदीया वयमेतेवेति समर्पणंकुर्वन्ति । । उक्तोऽनिरपेक्षो निरपेक्षश्च लोकोत्तरिको वक्तव्यस्तत्र प्रथमं सापेक्षमाह [भा. १८९५ ] पुव्वं आयतिबंधं, करेइ सावेक्खो गणहरे ठविए । अटविए पुव्युत्ता, दोसा उ अनाहमादीया ।। बृ- यो नामाचार्यः सापेक्षः स पूर्वमेव गणधरे स्थापिते साधूनामायतिबन्धं करोति यथायं युष्माकमाचार्य इत्यतेदाज्ञया वर्तितव्यमिति अथ न पूर्व गणधरं स्थापयति ततस्तस्मिन्नस्थापिते दोषाः पूर्वोक्ता अनाथादयो 'अनाहमो जाया' इत्यादिनाभिहिताः क्षिप्तादयो दोषा भवेयुः ।। उक्तो लोकोत्तरिकः सापेक्षः, सम्प्रति निरपेक्षमाह [ भा. १८९६ ] Jain Education International आसुक्कारोवरए अडविते गणहरे इमा मेरा । चिलिमिलि हत्थाणुन्ना परिभव सुत्तत्थहावणया ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy