SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ उद्देशक : :- ९, मूल- २४० [ भा. ३७८३] ३९९ जाता चतुःषष्टिः सा उत्तर हीना आदियुता क्रियते । तथापि सैव । चतुः षष्टिरेतत् अष्टमेऽष्टके भिक्षापरिमाणं एतदादिना अष्टकेन युतं क्रियते जाता द्वासप्ततिः । सागच्छार्थेन चतुप्केन गुण्यते जाते द्वेष्टाशीत्यधि एवं नवनवकिकायां दशदशकिकायां च भावनीयं नवरं नवनवकिकायां नवक आदिर्नवक उत्तरं नवको गच्छो दशदशकिकायां दशक आदि दशकं उत्तरं दशको गच्छः । मू. (२४१) दोपडिमाओ पन्नताओ, तंजहा खड्डिया वा मोयपडिमा महल्लिया वा मोयपडिमा । मू. (२४२) खुडियन्नं मोयपडिमं पडिवन्नस्स अनगारस्स कप्पड़, से पढमनिदाहकालसमयंसि वा चरमनिदाहकालसमयंसि वा बहिया गामस्स वा जाव रायहानीए वा वर्णसि वा वनदुग्गंसिया वा पव्वयंसि वा पव्वयदुग्गंसि वा भोच्चा आरुभइ चोदसमेण पारेइ, अभोच्चा आरुभइ, सोलसमेणं पारेइ, जाए मोए आईयव्वे दिया आगच्छेइ । सू. (२४३) महल्लियणंमोयपडिमं जाव पव्वयदुग्गंसिवा, भोच्चा आरुभइ सोलसमेणंपारेइ, अभोच्चा आरुभइ अट्ठारसमेणं पारेइ जाए जाए मोए आइयव्वे दिया आगच्छइ । पडिमाहिगारपगते हवंति मोयपडिमा इमा दोन्नि । [भा. ३७८४] ता पुन गणमिवृत्ताइमा उ बाहिं पुरादीनं ।। वृ- प्रतिमाधिकारः प्रकृतस्तः इमेऽपि द्वे मोकप्रतिमे इह भवतः प्रतिमाप्रस्तावादिमे अपि प्रतिमे अत्रोपन्यस्ते इति भावः । केवलमयं विशेषः । ता अनन्तरोदिताः प्रतिमा गणे स्थितस्योक्ता इमे पुनः पुरादीनां बहिः स्थितस्येति सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-द्वे प्रतिमे प्रज्ञप्ते तद्यथा क्षुल्लिकाच मोकप्रतिमा महती च मोकप्रतिमा मोक कायिकी । तदप्युत्सर्गप्रधानाप्रतिमा मोकप्रतिमा । तत्र क्षुल्लिकाणामिति प्राग्वत् । मोकप्रतिमां प्रपन्नस्यानगारस्य कल्पते से तस्य प्रथम निदाघकालसमये वा चरमनिदाघकालसमये वा बहिर्ग्रामस्य वा यावत्करणान्नगरादिपरिग्रहो राजधान्यां वा वने वा एकजातीयद्रुमसङ्घातो वनं विदुर्गे वा नानाजातीयद्रुमसंघाते, पर्वते, प्रतीते, पर्वतविदुर्गे अनेकपर्वतसंघातरुपे मुक्त्वा यदि प्रतिमामारोहति प्रतिपद्यते, तदा चतुर्दशेन भक्तेन पारयति समापयति अथा भुक्त्वा आरोहति तदा षोडशकेन भक्तेन पारयति, तेन च जातं मोकं कायिकी पातव्यं आगमने च दिवा आगच्छति । एवं महत्या अपि प्रतिमायाः सूत्रं वाच्यं । विशेषोऽपि पाठसिद्ध एव । सव्वातो पडिमातो साधुं भोयंति पावकम्मेहिं । " [भा. ३७८५ ] एएण मोयपडिमा अहिगारो इहं तु मोएण ।। वृ- मोचयति पापकर्मेभ्यः साधुमिति मोकाउद्गादित्वादन्यदपि कुर्वन्ति सा चासौ प्रतिमा च मोकप्रतिमा । एतेनान्वर्येन सर्वा अपि प्रतिमाः साधुं पापकर्मभ्यो मोचयन्तीति कृत्वा मोकप्रतिमाः प्राप्नुवन्ति । ततो विशेषप्रतिपादनार्थमिहाधिकारः । प्रयोजनं मोकेन मोका परित्यागप्रधाना प्रतिमा मोकप्रतिमेति । सम्प्रति विषमपदव्याख्यानमाह [भा. ३७८६ ] एगदुमो होइ वनं एगजातीयजे जहिं रुक्खा । विवरीयं तु विदुगं एसे व य पव्वए विगमो || वृ- एकद्रुम एकजातीया ये वृक्षास्ते यत्र विद्यन्ते तत् भवति वनं । नानाजातीयद्रुमरुपं विदुर्ग । एष एव गमः पर्वतेऽपि द्रष्टव्यः नानारुपपर्वतः पव्रतविदुर्ग । सम्प्रति येन विधिना बहिर्निर्गच्छति तं विधिमाहनिसज्जं च चोलपट्टं कप्पं घेत्तूणमत्तगं चेव । [भा. ३७८७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy