________________
उद्देशक : :- ९, मूल - २३८, [ भा. ३७७२] अहासुत्तं जाव अनुपालिया भवइ ।
मू. (२३९) नवनवमियाणं भिक्खुपडिमा एगासीए राइदिएहिं चउ हियपंचुत्तरेहिं भिक्खासएहि अहासुत्तं जाव अनुपालिया भवइ ।।
मू. (२४०) दस दसमियाणं भिक्खु पडिमा एगेणं राइंदियसएणं अद्धछट्टेहिय भिक्खासएहिं अहा सुत्तं जाव अनुपालिया भवइ ।।
वृ- विशेषस्तु पाठसिद्धः । एष सूत्रचतुष्टयसंक्षेपार्थः । .
[भा. ३७७३]
३९७
अह सुत्तसुत्तदेसा कप्पो उ विधिए मग्गनाणादी । तच्च तु भवे तत्थं सम्मं जं अपरितंतेन ।। फासियजोगतिणं पालियमविराहि सोहिते चेव । तीरियमंतंपाविय किद्दिय गुरु कहणा जिनमाणा ।।
[भा. ३७७४]
।
बू - यथासूत्रमिति सूत्रादेशात् यथाकल्पमित्यत्र कल्पोविधिर्यथामार्गमित्यत्रमार्गो ज्ञानादि । यथा तथ्यमित्यत्र तच्चं नाम तथ्यं, यथा सम्ममिति सम्यग् नाम यदपरिताभ्यताकरणं, स्पर्शिता योगत्रिकेण सेविता पालिता अविराधिता शोधिताप्येवमेव अविराधनेनै वेत्यर्थः । तीरिता अंतं प्रापिता, कीर्तिता गुरुणां कथनतः आज्ञा जिनस्य तीर्थकृतः द्वितीया षष्ठयर्थः प्राकृतत्वात् ।
[भा. ३७७५ ] पडिमा उ पुव्वभणिया पडिवज्जइ को तिसंघयणमादी । नवरं पुन नाणत्तं कालच्छेए य भिक्खासु ।।
वृ- प्रतिमा भिक्षोः प्रतिमाः पूर्वमाचारदशासु भणिताः ताः कः प्रतिपद्यते ततः आह-तिसंघयणत्ति आद्येषु त्रिषु संहननेषु अन्यतर संहननोपेतः प्रतिपद्यते, चतुर्थादिषु तु संहननेषु वर्तमानो न प्रतिपद्यते । आदिशब्दात्सोऽपि सूत्रार्थतदुभयोपेतो गच्छे कृतपरिकर्मा सातिशयो न निरतिशयो निरतिशय इति परिग्रहः । तृतीयं च संहननं यावदार्यरक्षितस्तावदनुवृत्तं । ततः आरतो व्यवच्छिन्नं नवरं पुनर्नानात्वमत्र कालच्छेदे भिक्षासु च तत्र कालच्छेदमाह
[भा. ३७७६ ]
एगूणपन्नचउसट्ठि गासती सयं बोधव्वं । सव्वासिं पडिमाणं कालो एसत्ति तो होइ ।।
वृ- सप्तसप्ततिकायाः काल एकोनपञ्चाशत् रात्रिं दिवानि अष्टा अष्टकिकायाः चतुःषष्टिर्नवनवकिकाया एकाशीतिर्दशदशकिकायाः शतं रात्रिंदिवानां बोद्धव्यं । सर्वाप्रतिमानामधिकृतसूत्रचतुष्टयोपेतानामेष एतावान् भवति कालः । कथं पुनः सप्तसप्तकिका भवतीत्यत आह
[भा. ३७७७]
पढमाए सत्तगा सत्तपढमे तत्थ सत्तए ।. एक्केकं गेण्हई भिक्खं बिइए दोन्नि दोनिओ ।। एवमेक्केक्कियं भिक्खं छुब्भिज्जेक्वेक्कसत्तगे ।
हती अंतिम जाव सत्तसत्त दिनेदिने ।।
[ भा. ३७७८ ]
बृ- प्रथमायां प्रतिमायां सप्तसप्तकिका भवन्ति । तत्र प्रथमे सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति । द्वितीये सप्तके प्रतिदिवसं द्वे द्वे भिक्षे । एवं तृतीयादिषु सप्तकेष्वेकैकेषु एकैकां भिक्षामयिकां प्रक्षिपेत यावदन्तिमे सप्तके दिने दिने सप्त सप्तभिक्षा गृह्णाति । इयमत्र भावना तृतीये सप्तके प्रतिदिवसं । तिस्त्रस्तिस्त्रो भिक्षा गृह्णाति । चतुर्थे चतस्त्रश्चतस्त्रः पञ्चमे पञ्चपञ्च, षष्ठे षट् षट्, सप्तमे सप्त सप्तेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org