________________
व्यवहार-छेदसूत्रम्-२- ९/२३६ वृ- यत्सचित्तभावविकलीकृतमचित्तीकृतं द्रव्यं तत्र प्रासुकभोजिनां मार्गणा भवति । तत आधाकर्मिकचिन्तापि तत्रैव युक्ता नान्यत्र सचेतने तुद्रव्ये का मार्गणा नैव काचित् सचित्ततया तस्य ग्रहणासंभवात्ततो न तदपेक्षया आधाकर्मिकत्वमिति, तदेवमारोपितरुपकृतनिष्ठितविषये कल्प्याकल्प्यविधिरुक्तः ।सम्प्रति च्छिन्नरुपकृतनिष्ठितविषये तमाह[भा.३७५४] संजयहेउंछिन्नं अत्तट्टोवक्खडंतुतंकप्पे ।
. अत्तट्ठाच्छिन्नं पिहुसमणा निट्ठियमकप्पं ।। वृ-अत्रापि भङ्गचतुष्टयं तस्य कृतं तस्य निष्ठितं १ तस्य कृतमन्यस्य निष्ठितं २ अन्यस्य कृतं तस्य निष्ठितं ३अन्यस्यकृतमन्यस्य निष्ठितं४ |अत्रकृतंच्छिन्नंपाकादिकरणतोनिष्ठांनीतम् । तत्रप्रथमभङ्गे सर्वथान कल्पते । चतुर्थस्तुभङ्गएकान्तशुद्धोद्वितीयभङ्गमधिकृत्यपूर्वार्धमाह-संयतहेतोःसंयतनिमित्तं च्छिन्नमात्मार्थमुपस्कृतं निष्ठां नीतं तत्कल्पते तृतीयभङ्गमधिकृत्याह-आत्मार्थं च्छिन्नमपि श्रमणार्थनिष्ठितमकल्प्यं ।सम्प्रति बीजान्युदकं चाधिकृत्याह[भा.३७५५] बीयाणी च वावेज्जा अगडं वखणेज संजयट्टाए ।
तेसि परिभोगकालेसमणाणंतहिंकहंभणियं ।। वृ-बीजानिशाल्यादिसत्कानिवपेत्अवटंचखानयेत्संयतार्थे,तेषांपरिभोगकाले तत्र श्रमणानां कथं भणितंकल्प्यमकल्प्यं वा । सूरिराह[भा.३७५६] दुच्छडाणियंच उदयंजइहेउंनिट्टियं च अत्तट्ठा ।
तंकप्पइअत्तट्ठा कयंतुजइनिट्ठियमकप्पं ।। वृ-अत्रापिप्रागिवभङ्गचतुष्टयं । तत्राद्योभङ्गएकान्तेनाशुद्धश्चरमस्त्वेकान्तशुद्धः द्वितीयभङ्गमधिकृत्याह-यतिहेतोस्तण्डुला द्विच्छडीकृता उदकं वा संयतहेतोरवटादानीतं उभयसमपि च निष्ठितमचित्तीकृतमात्मार्थेतत्कल्पते ।तृतीयभङ्गमधिकृत्याह-कृतंद्विच्छटीकृतास्तण्डुलाअवटादानीतंपानीयं निष्ठितंतुयतिनिमित्तं तदकल्प्यमिति पुनरपिपर आह[भा.३७५७] समणाणसंजतीणव दाहामि जो किणेज्ज अट्ठाए ।
गावीमहिसीमादीसमणाणतहिंकहंभणियं ।। वृ- श्रमणानां संयतीनां दुग्धादि दास्यामीति बुद्ध्या तेषामर्थाय गोमहिष्यादिकं यःक्रीणीयात्तत्र श्रमणानां कथंकल्प्यमकल्प्यं वा भणितंसूरिराह[भा.३७५८] संजयहेउंदूढा न कप्पए यसयमट्ठा ।
पामिच्चिय कीयावा जइ विसमणट्ठया धेनू ।। वृ-यद्यपिवधेनुर्गोरुपामहिषीरुपावाश्रमणार्यमयमित्यात्मीयांधेनुंदत्वा परकीयायाचिताक्रीता वा यदिसंयतहेतोर्दुग्धा ततो न कल्पते । अथस्वयमात्मनोऽर्थाय दूग्धा तर्हि कल्पते । [भा.३७५९] चेइयदव्वं विभयाकरेज केई नरोसयट्टाए ।
समणं वासोवहियं विक्केज्जासंजयट्ठाए ।। वृ- चैत्यद्रव्यं चौराः समुदायेनापहृत्य तन्मध्ये कश्चिन्नर आत्मीयेन भागेन स्वयमात्मनोऽर्थाय मोदकादि कुर्यात् । कृत्वा चसंयतानांदद्यात् ।
[भा.३७६०] एयारिसंमिदव्वेसमणाण किंतुकप्पईधेत्तुं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org