________________
उद्देशक :- ९, मूल - २३६, [भा. ३७४६ ]
३९३
दातव्यानीतिच्छिन्नं, सामान्यतः फलानि दातव्यानीत्यच्छिन्नंतत्र च्छिन्ने अच्छिन्ने वा यथायोगं सूत्रद्वयस्य
साफल्यमाख्यातम् । अत्र पर आह[भा. ३७४७ ]
साहूणं व न कप्पइ सुत्तमाहु निरत्थयं । गेलद्वाण उमेसु गहणं तेसि देसियं ।।
वृ- केचिदाहुः सूत्रद्वयमिदं निरर्थकं यतः साधूनामाम्राणि सचितत्वान्न कल्पन्ते । आचार्य आहतेषामाम्रफलानां ग्लानत्वे अध्वनि शेषभिक्षाया अलाभे अवमौदर्ये च ग्रहणं देशितं कथितं महर्षिभिः । अतो न निरर्थकमिति[भा. ३७४८]
अविरिक्सारिपिंडो विरिक्कावि य सारि दिट्ठन विकप्पे । अद्दिठ सारिएणं कप्पंति तहि घेत्तुं जे ।।
वृ- अविरक्तान्यविभक्तनि फलानि सागारिकपिंडस्ततो न कल्पते, विभक्तान्यपि च सागारिकेण दृष्टानि न वै कल्पन्ते ततो अदृष्टानि सागारिकेण ग्रहीतुं कल्पन्ते । जे इति पादपूरणे । उपसंहारमाहएवं अत्तट्टाए सयं परुढाण वावि भणियमिणं ।
[भा. ३७४९ ]
इणमन्नो आरंभो समणट्टा वाविए सम्मि ।।
वृ- एवमुक्तप्रकारेणात्मार्थमारोपितानां स्वयं वा प्ररुढानामिदमनन्तरोक्तं भणितम् । साम्प्रतमस्मिन् वृक्षे श्रमणार्थे वापिते अयं वक्ष्यमाणोऽन्य आरंभस्तमेव दर्शयतिवल्ली वा रक्खो वा कोई रोएज संजयठाए ।
[भा. ३७५० ]
तेसि परिभोगकाले समणाण तहिं कहं भणियं । ।
बृ- वल्लीर्वा वृक्षान्वा कश्चित्संयतानामर्थाय रोपयेत् । तत्र तेषां फलानां परिभोगकाले श्रमणानां कथं भणितं किं कल्पते किंवा न कल्पते इत्यर्थः । अत्र सूरिराह
[भा. ३७५१] तस्स कड निट्ठियादी चउरो भंगे विभावइत्ताण विसमेसु । जाण विसमं नियमा उसमो समग्गहणे ।।
वृ- तस्य कृतं तत्तस्य निष्ठितमिति प्रथमः, तस्य कृतमन्यस्य निष्ठितमिति द्वितीयः, अन्यस्य कृतं तस्य निष्ठितमिति तृतीयः, अन्यस्य कृतमन्यस्य निष्ठितमिति चतुर्थः । तत्र तस्य संयतस्य निमित्तं कृतमारोपितं वृक्षादि तथा तस्यैव संयतस्य निमित्तं निष्ठितं निष्टो नीतमचित्तीकृतमित्यिर्थः एष प्रथमभङ्गार्थः । एवं शेषाणामपिभङ्गानामर्थः परिभावनीयः, तत्र तस्य कृतं तस्य निष्ठितमिन्यादीन् चतुरो भङ्गान् विभाव्य विषमयोर्भङ्गयोर्गृह्नतोर्विषममसंयमं जानीयात्तन्निमित्तं निष्टानयनात समयोर्द्वितीयचतुर्थयोर्भङ्गयोर्ग्रहणे समं संयमं जानीयात् अन्यनिमित्तं निष्ठितत्वात् । पर आह-ननु श्रमणार्थ स आरोपितस्ततः कथं द्वितीये भङ्गे कल्पते ? सूरिराह
[भा. ३७५२]
सो सट्टा वृत्त तहवि य न होइ सो कम्मं । जं कम्मलक्खणं खलु इह हं वृत्तं न परसामि
वृ- काममनुमन्यामहेस वृक्षः श्रमणार्थमारोपितः तथाप्यसौ कर्म न भवति यतो यत्कर्मलक्षणं खलु तीर्थकरगणधरैर्भक्तं, तदिह इ पाठ पूरणे, न पश्यामि किं तत्कर्म लक्षणमत आह
[भा. ३७५३]
Jain Education International
सचित्तभावविकलीकयंमि दव्वंमि मग्गणा होइ । कामग्गहणा उदव्वे सचेयणे फासुभोईणं ।।
For Private & Personal Use Only
www.jainelibrary.org