________________
उद्देशक :
:- ९, मूल - २३२, [भा. ३७२१]
३८९
वृ- व्यवहारे नवमे उद्देशक यावत्यः शालाः शालासूत्राणि भवन्ति विद्यन्ते तासां सर्वासां परिपिण्डितानामयं तात्पर्यार्थः । यत्र साधारणमविभक्तं क्रमाणकं तत्र प्रतिषेधः साधारणवर्जिते तु ग्रहणं । सम्प्रति साधारणशब्द-शालाशब्दव्याख्यानार्थमाह
[भा. ३७२२]
साहारण सामन्नं अविभत्तमच्छिवसंथडेगङ्कं । सालत्ति आवनत्तिय पणिअ गिहं चेव एगट्टे ।।
वृ- साधारणं सामान्यमविभक्तमच्छिन्नं संस्तृतमिति एकार्थ, एते सर्वेऽपि शब्दा एकार्थिका इत्यर्थः । शाला इति वा आषण इति वा पणितमिति वा गृहमिति वा एकार्थः ।
[भा. ३७२३]
साहारणा उसाला दव्वे मीसंसि आवणे भंडे । साहारणवक्कपउत्ते च्छिन्नं वोच्छं अच्छिन्नं वा ।।
वृ- साधारण तु शाला भण्यते मिश्रे द्रव्ये सति किमुक्तं भवति । अन्यस्यापि अन्यस्यापि तिला एकत्र मिथयित्वा पील्यन्ते पीलयित्वा च एकत्र विक्रोणन्ति । अथवा साधारणेनावक्रयेण युक्ते आपण भाण्डे वा क्रयाणके साधारण शाला भवति । तथा च्छिन्नमच्छिन्नं वा वक्ष्ये एष गाथासंक्षेपार्थः । पीलंति एक्कनो वा विक्कंति य एक्कतो करिय तेल्लं ।
[भा. ३७२४]
अहवावि चक्कएणंसाहारणवक्कयं जाणे ।।
वृ- अन्यस्यान्यस्य तिलानेकत्र संमीलयित्वा पीलयन्ति ततो विक्रीणन्ति अथवा पृथक् तिलान् पीलयित्वा तैलं कृत्वा एकत्र विक्रीणन्ति । तदेवं द्रव्ये मिश्रे साधारणावक्रयप्रयुक्ता शाला व्याख्याता । अथवान्यथा साधारणावक्रयप्रयुक्तेनि व्याख्यानयति । अथवा वक्रयेण भाटकेन या साधारणशाला प्रयुक्ता व्यापारिता तत्र यल्लभ्यते भाण्डकं तत् शय्यातरस्यान्येषां वा शय्यातराणां साधारणमिति साधारणावक्रयप्रयुक्तं जानीहि । अत्र यथा कल्पते यथा वा न कल्पते तथा प्रतिपादयति । पीलिय विरेडियंमी पुव्वगमेणं तु गहणमदिट्टे ।
[भा. ३७२५]
एत्थ विक्कयंमी अमेलियादिट्ठ अन्नत्थ ।।
वृ- अन्यस्यान्यस्य तिलानेकत्र मीलयित्वा पीलयित्वा च तैले विरेचिते विभक्तीकृते पूर्वगमेन पूर्वप्रकारेण शय्यातरेणादृष्टे ग्रहणं भवति, दृष्टे तु न कल्पते, मा प्रक्षेपकं कुर्यादिति हेतोरन्यत्र नीतं तु कल्पत एव, तथा पृथक् एव तिलान् पीलयित्वा च एकत्र विक्रीणन्ति । तत एकत्र विक्रये यावन्मूल्यं मिलितमविभक्तमित्यर्थः तावन्न कल्पते इत्यर्थः । अमीलिते मूल्यकरणेन विभक्तीकृते सागारिकेणादृष्टं स तु कल्पते, दृष्टे प्रक्षेपदोषसंभवात् । अन्यत्र पुनः स्वयोगेन नीतं निःशङ्कं कल्पते । सांप्रतमापणं साधारणावक्रयप्रयुक्तं व्याख्यानयति[भा. ३७२६ ]
जो लभगभावेण उत्तो होति आवणो ।
साउसाहारणा होइ तत्थ घेत्तुं न कप्पइ ||
वृ- यस्तु सागारिकेन लाभभागेन त्रिभागादिना आपणः प्रयुक्तो भवति स साधारणो भवत्यापणस्ततस्तत्र गृहीतुं न कल्पते । साम्प्रतं भाण्डं साधारणावक्रयप्रयुक्तं व्याख्यानयतिछेदे वा लाभे वा सागारितो जत्थ होइ आभागी ।
[भा. ३७२७]
तं तु साधारणं जाणे सेसमसाहारणं होई ||
वृ-यत्र भाण्डे च्छेदे लाभे वा सागारिकार्द्धेन त्रिभागादिना वा आभागी भवति तत् भाण्डं साधारणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org