________________
३६
व्यवहार- छेदसूत्रम् - २- ४/१०४
तत्सर्व गोपतेर्गोस्वामिनो भवति, न षण्डस्वामिनः एवमनेनैव दृष्टान्तेनास्माकमप्येतान्य
पत्यान्याभवन्ति, न युष्माकमिति । । एवमुक्ते
[ भा. १८७८ ]
"
बेंतियरे अम्हं तू जह वडवाए उ अन्नआसेण । जायति मोल्लंमि अदिने तं आसियस्सेव ।।
वृ- इतरे संयतसमानकुलका ब्रुवते अस्माकमेतान्यपत्यान्याभवन्ति, यथा मूल्ये अदत्ते यदन्येनान्यसत्केनाश्वेन वडवायां जायतेऽपत्यं तदश्विकस्यैव अश्वस्वामिन एव, कारणिकैरेवमेव व्यवहारनिश्चयादेवमेतान्यप्यस्माकमिति । । एवमुक्ते
[भा. १८७९]
जस्स महिला य जायति उब्भामइलाय तस्स तं होइ । संजइइत भणती, इयरे बेंती इमं सुणसु ।।
वृ- यस्य महेलाया भार्याया उद्भामिलायाः स्वैरिण्या जायते सुतः (स्वतः) परतश्च तस्य तत्सर्वमाभवति, एवमस्माकमपि इति 'संजइइत्ता' संयतीसमानकुलका भणन्ति । । इतरे ब्रूवाते इदं वक्ष्यमाणं उद्भ्रामककौटुम्बिककृतं तत् श्रृणुत
[भा. १८८० ]
तेनं कुटुंबिएण उब्भामइलेण दोण्हवी दंडो ।
दिन्नो साविय तस्सा जाया एवम्ह एयाई ।।
वृ-येन स्वैरण्या अपत्यानि जनितानि तेन कुटुम्बिकेन उद्भामिलेन राजकुले गत्वा कथितम्-यथाहं देव! तस्याः सर्वभोगभरं वहाभिसा सोपि च तत् पतिर्मदीयेन भोगभरेण निर्यूढवान्, तस्मात्प्रसादं कृत्वा मदीयान्यपत्यानि दापयतेति, तत एयुक्ते राजा कुपितः, तथा भोगभरसंवाददर्शनत एवमिमावपन्यायकारिणाविति द्वावपि सर्वस्योपहरणतो दण्डितवान् । तथा चाह । द्वयोरपि दण्डो दत्तो दापित इत्यर्थः, सा चापत्यापहरणतोऽनन्यगतिका सती तस्य जाता एवमस्प्राकमेतान्यपीति । । पुनरविय संजइत्ता बेति खरियाए अन्नखरएण । जं जायति खरियाहिवतिस्स होति एवम्ह एयाई ।।
[भा. १८८१ ]
वृ- पुनरपि संयतीसंत्का ब्रुवते, खरिकायां गर्दभ्यां अन्यखरकेण अन्यसत्केन गर्दभेन यत् जायते तत्सर्व खरिकाधियतेर्भवति, एवमस्माकप्येतानीति । । तदेवं प्रथमा दृष्टान्तपरिपाटी भाविता । । सम्प्रति द्वितीयायां विभावयिषुः प्रथमतो गोवर्गदृष्टान्तं भावयति
[भा. १८८२]
गोणीणं संगेल्लं नटुं अडवीए अन्नगोणेणं । जायाइं वत्थगाई, गोणाहिवतीओ गेण्हंति ।।
वृ- गवांस्त्रीगवानां 'संगिल्लं' समुदायो नष्टोऽटव्यां पतितस्तत्र च तस्यान्यगवेन अन्यसत्केन पुंगवेन जातानि वत्सकानि वत्सकरुपाणि तानि गवेषणतः कथमपि गवां लाभे गवाधिपतयः स्त्रीगवीस्वामिनो गृह्णन्ति नपुंगवस्वामिनः । एमेतान्यप्यस्माकमिति । ।
एवमुक्ते संयतसत्का उद्भ्रामिकादृष्टान्तं पूर्वोक्तमुपन्यस्यन्ति । तथा चाह[भा. १८८३ ] उब्भामिय पुव्युत्ता अहवा नीया नुजा परविदेसं ।
तस्सेव नु सा भवती एवं अम्हं तु आभवती ।।
वृ- उद्भ्रामिका पुर्वमुक्ता यथा सापत्या तस्य जाता अथवा या परविदेशं नीता सा तस्यैवाभवति पश्चादपि नान्यस्य, एवमेतान्यपत्यान्येषा चास्माकमाभवतीति । । एवमुक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org