SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-४, मूल - १०४, [भा. १८७२] ३५ लज्जाएमावग्धेच्छतिमाव दिक्खिज्ज मेभयणा ।। वृ- अज्ञातः सन् यः पर्याये पूर्णेऽपिसमुपतिष्ठन् आत्मानं न कथयति यथाहममुकस्य पश्चात्कृत इति, कस्मान्नकथयति इतिचेदत आह-लज्जया, यदिवामातत्पाक्षिकेणकेनाप्यहंग्रहीष्ये,अथवा मां पश्चात्कृतंज्ञात्वान दीक्षयेयुरितिभजनात् विकलपान्ना कथययि ।। [भा.१८७३] नातेवजस्सभावोननजएतस्स दिज्जए लिंगं । दिन्नंमि दिसिं नाहितिकालेन वसोसुणंतो वा।। वृ-ज्ञाते वा पश्चात्कृततया तस्मिन् प्रव्रज्यार्थमुपस्थि यस्य भावो न ज्ञायते केनापि कारणेन पूर्वाचार्यसमीपं न गत इति, तस्य ज्ञातस्याज्ञातस्य वा लिङ्गं दीयते । दत्ते च लिङ्गेस आत्मीयां दिशं कालेन पूर्वाचार्यलक्षणां ज्ञास्यति, स वा पूर्वाचार्यः कालेन परम्परया श्रृण्वन्तं ज्ञास्यति, ततो यस्य समीपेतस्य प्रतिभासते, तस्य समीपमुपगच्छतु ।।साम्प्रतमन्यं व्यवहारमुपदर्शयति[भा.१८७४] अहवा अन्नन्नकुला पडिभजिउकामसमणो समणीय । अनुसठायरिनठिया करेंतिवायंतिववहारं ।।.. वृ- अथवेतिव्यवहारस्य प्रकारान्तरोपदर्शने, श्रमणः श्रमणी चेति द्वावप्यन्यान्यकुलौ अन्यकुलः श्रमणोऽन्यकुला श्रमणी,प्रतिभक्तुकामौ प्रतिपतितुकामौस्वस्वाचार्येणचतौ प्रभूतमनुशिष्टौ परंन स्थितौ, तौ स्वस्वकुलममत्वेनवागन्तिकव्यवहारंवागेवान्तः परिसमाप्तिर्वागन्तस्तत्रभवो वागन्तिकः, स चासौ व्यवहारश्च तं कुरुतः तद्यथा-यान्यस्माकमपत्यानि जनिष्यन्ति तेषां मध्ये ये पुरुषास्ते सर्वे मम याः स्त्रियस्ताः सर्वाः तव, अथवा श्रमणीभूते ये पुरुषास्ते सर्वे मम, स्त्रियः सर्वास्तव, यदि चेदं भणति-सर्वाण्यपत्यानि तव, अथवा सर्वाण्यपत्यानि ममेति, तयोः संसारे स्थित्वा पुनः प्रव्रज्यां प्रत्युपस्थितयोर्यदेव वागन्तिकेन व्यवहारेण निश्चितंतदेव तयोराभवति ।। [भा.१८७५] अहनकतो तोपच्छातेसिं अब्भुठियाणववहारो । गोणी आसूभासिस कुटुंबिखरएयखरियाय । वृ-अथन कृतः पूर्व वागन्तिको व्यवहारः पश्चात्तयोः प्रव्रज्यायामभ्युत्थितयोः स्वस्वकुलममत्वेन व्यवहारो भण्डनमभूत, तत्र संयतिकुलसत्का गोदृष्टान्तम् उद्भामिकादृष्टान्तं खरखरिकादृष्टान्तं चान्तरान्तरोपन्यस्यन्ति । संयतकुलसत्का अश्वदृष्टान्तं कौटुम्बिकदृष्टान्तंच ।। अथवेयमन्या दृष्टान्तपरिपाटी।। [भा.१८७६] गोणीणंसंगिल्लं उन्भामइलायनीय परदेसं । तत्तोखेत्ते देवी रन्नो अभिसेचनेचेव ।। वृ- संयतीसमानकुलका गवां संगिल्लं समुदायं दृष्टान्ती कुर्वन्ति, तदनन्तरं संयतसकुलका या उद्घामिकापरदेशंनीतातां दृष्टान्तिकुर्वन्ति,ततः पुनरपिसंयतीसकुलकाःक्षेत्रेबीजं,ततः संयतकुलका देवीं राज्ञोऽभिषेचनं चेवेति ।। तत्र भण्डने जाते यथा संयतीसकुलका गोदृष्टान्तं कुर्वन्ति तथा प्रतिपादयति[भा.१८७७] संजइइत्तभणंतीसंडेणन्नस्सजंतुगोणीए । जायतितंगोणिवइस्स होतिएवम्ह एयाई ।। वृ- 'संजइइत्ता' संयतीसत्काः समानकुलका ब्रुवते अन्यस्य सत्केन षण्डेन यत् गोर्जायतेऽपत्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy