________________
व्यवहार-छेदसूत्रम्-२- ९/२१० भावनीयानि । एवं चत्वादिशविषयाणि चत्वारि दासादिविषयाणि इह यत्र यत्र प्रातिहारिकं तत्र तत्र सागारिकपिण्ड इति न कल्पते । यत्र पुनरप्रातिहारिकं तत्र तत्रन सागारिकपिण्ड इति कल्पते, प्रथमतृतीय-पञ्चम-सप्तम-स्त्रेषुसागारिकपिण्ड इतिकृत्वानकल्पते, द्वितीयचतुर्थषष्ठाष्टमसूत्रेषुनभवति सागारिकपिण्ड इतिकल्पते, केवलंभद्रकप्रान्तदोषतो वय॑ते इतिसूत्राष्टकभावार्थः । [भा.३६९९] आयासकरो आएसितोउआवेसणंवआविसइ ।
सो नायगोसुही वा पभूव परतित्थिओवावि ।। . वृ- आयासकर आदेशः आदिशतीत्यादेश इति व्युत्पत्तेः, आदिशितो वा आदेशः आदेश्यते सत्कारपुरस्सरमाकार्यतइत्यादेशव्युत्पत्तेः । अथवाआवेश इतिशब्दसंस्कारस्तत्रव्युत्पत्तिमाह-आवेशनं वा शब्दः शब्दसंस्कारापेक्षया विकल्पते आविशतीत्यावेशः । आवेशनं नाम यस्मिन् स्थाने प्रविष्टेन सागारिकस्यायासो जन्यते, स आदेश आवेशो वा नाम ज्ञातिकः स्वजनः सुहृद् मित्रं प्रभुर्वा नायकः परतीर्थको वापि, कृता विषमदव्याख्या भाष्यकृता ।सम्प्रतिनियुक्तिविस्तरः । [भा.३७००] आएस-दास-भइए अट्ठहिंसुत्तेहिंमग्गणंजत्थ ।
सागारिय-दोसेहिं य पसंग-दोसेहिंय आगज्झो ।। वृ-आदेशोयथोक्तरुपोदास आजन्मावधि किंकरोभृतकः कियत्कालंमूल्येन धृतआदेशश्चदासश्च भृतकश्च आदेशदासभृतकंतत्रच पिण्डस्याष्टभिः सूत्रैर्गिणा कृता । यत्रसागारिकदोषैः प्रसङ्गदोषैश्च भद्रकप्रान्तककृतैरग्राह्योभवति । साम्प्रतमष्टानामपिसूत्राणां विभागमाह[भा.३७०१] तत्थादिमाइंचउरोआवेसे सुत्तमाहिया ।
दो चेव पाडिहारी अपाडिहारीभवेदोन्नि ।। वृ-तत्रतेषामष्टानांसूत्राणांमध्ये आदिमानिचत्वारिसूत्राणिआदेशे प्रागुक्तस्वरुपे आख्यातानि, तत्रापि द्वे सूत्रेप्रातिहारिणि द्रष्टव्ये द्वे च सूत्रे अप्रातिहारिणि, प्रथम तृतीये प्रातिहारिणि, द्वितीये चतुर्थेऽप्रातिहारिणीत्यर्थः । [भा.३७०२] अंतो बहिवा वि निवेसणस्स आवसएणं व ठिए सगारे ।
भत्तंन एयस्स विसेसजुत्तं, तंमी दलंते खलुसुत्तबंधो ।। वृ-निवेशनंगृहस्यान्तर्वहिर्वा स्थितेसागारिकेशय्यातरे यदिआदेश एव आदेशःप्राघूर्णकस्तेन वा सहस्थितेयद्भक्तविशेषयुक्तविशेषतोनिष्ठां नीतंतन्नएतस्यप्राधूर्णकस्य सम्बन्धिकिन्तुसागारिकस्य ततस्तस्मित् ददतिसूत्रसम्बन्धः सूत्रोपनिपातः ।प्रातिहारिकभोजितया तस्मिन् ददातिप्रथमेतृतीयेच सूत्रेन कल्पतेसागारिकपिण्डत्वात् । द्वितीयेचतुर्थेवा प्रातिहारिकभोजितयाकल्पते । तदायत्वात्केवलं भद्रकप्रान्तदोषप्रसङ्गतो नगृह्यते । एतदेवाह[भा.३७०३] सागारियस्सदोसा दोसुदोसुपसंगतो दोसा ।
भद्दगपत्तादीया होइइमे मुणेयव्वा, (दोसु पिकमेण नेयव्वा) वृ-द्वयोः प्रथमतृतीययोः सूत्रयोः सागारिकस्य दोषात् शय्तरपिण्डत्वान्न कल्पते इति भावः । द्वयोर्द्वितीयचतुर्थयोः प्रसङ्गतो दोषा भद्रकप्रान्तादिकाः आदिशब्दादतिभद्रकातिप्रान्तादिपरिग्रहस्तेच इमे वक्ष्यमाणाभवन्ति ज्ञातव्याः ।तानेवाह[भा.३७०४] एएणउवाएणंगिण्हंतोभद्दे उग्गमेगतरं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org