________________
३८०
व्यवहार - छेदसूत्रम् - २८ / २०२
जाय देहस्स जउ पुव्वं वयणं ततो सेसं ।।
वृ- कुत्सिता कुटी कुकुटीशरीरमित्यर्थः । तस्यां शरीररुपायाः कुकुट्या अण्डकभिवाण्डकं मुखं केन पुनः कारणेनाण्डकं मुखमुच्यते तत आह-यतो यस्मात् चित्रकर्मणि गर्मे उत्पाते वा पूर्वं देहस्य वदनं मुखं निष्पद्यते । पश्चात् शेषं ततः प्रथमभावितया मुखमण्डकमित्युच्यते
[भा. ३६७९]
थलकुक्कुडिप्पमाणं जं वा नायासिए मुहे खिवति । अयमन्नो सुविगप्पो कुक्कुडिअंडो वा न कवले ।।
वृ- इह कवलप्रक्षेपणाय मुखे विडम्बिते यदाकाशं भवति, तत्स्थलं भण्यते, स्थलमेव कुक्कुड्यएडके स्थलकुक्कुड्यण्डकं तस्य प्रमाणं यदनायासिते मुखे कवलं प्रक्षिपति । किमुक्तं भवति ? यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत्स्थलकुक्कुड्यण्डकं प्रक्षिपति । किमुक्तं भवति ? यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत् स्थलकुक्कुड्यण्डकं प्रमाणं गाथायामण्डकशब्दलोपः प्राकृतत्वात् अयमन्यः कुक्कुड्यण्डकोपमे कवले विकल्पः अयमन्योऽर्थः कुवकुड्यण्डकप्रमाणमात्रशब्दस्यैत्यर्थः । एतेन कवलमात्रेणाष्टादिना संख्याद्रष्टव्या तदेवं कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति निर्युक्तिविस्तरः
[ भा. ३६८० ]
अठत्ति भणिऊणं छम्मासा हावत्तेउ बत्तीसा । 'नायं चोगवयणं पासाए होति दिठतो ।।
वृ- अष्टाविति भणित्वा यावदवमौदर्यं तावदेतत्संस्तरतो मध्यं भणितं असंस्तरतः पुनर्द्वात्रिंशत्कं प्रमाणं भणितमुत्सर्गः पुनरयमुपदेशः षण्मासादारभ्य तावत् हापयेत् यावत् द्वात्रिंशत्कवलाः । इयमत्र भावना यदि योगानां न हानिरुपजायते तदा षण्मासान् उपवासं कृत्वा पारणके एकं सिक्थमाहारयेत् । अथ तेना न संस्तरति ततः पारणके द्वे सिक्थे आहारयेत् । एवमेकैकसिक्थपरिवृद्ध्या तावन्नेयं यावदेकं लम्बनंकवलमित्यर्थः । तेनाप्यसंस्तरणेकवलपरिवृद्धिर्वक्तव्या । साच तावत् यावदेकत्रिंशत्कवलाः । षण्मासानुपवासं कर्तुमशक्नुवन् एकेन दिवसेनोनं षएमासक्षपणं कृत्वा एवमेव सिक्थकवलपरिवृद्धया पारणकं कुर्यात् । एवमेकैकहान्या षण्मासक्षपणं तावद्वक्तव्यं यावच्चतुर्थ कृत्वा पूर्वप्रकारेण सिक्थकवलपरिवर्धनेन पारणकं परिभावयेत् । अथ न संस्तरति ततो दिने दिने भुंक्त्वा तत्राप्येवमेव सिक्थादारभ्य यावद्वात्रिंशत्कवला इति अत्र चोदकवचनं यद्येवमष्टावित्यादि सूत्रोपनिबद्धं नाममात्रं प्रवचनमात्रमाचार्य आह-सिद्धिप्रासादनिर्मापणाय योगानां संधारणनिमित्तमेतन्मध्यमुपात्तं सूत्रेण ततो न कश्चिद्दोषः तथा चात्र प्रासादो भवति द्दष्टान्तः स चाग्रे भावयिष्यते । सम्प्रति यदुक्तं छम्मास हायते उ बत्तीसा इति तद्भावनार्थमाह
[भा. ३६८१]
Jain Education International
छम्मासा खमणं तंभि सित्थादण्हा तु लंबनं । ततो लंबनवड्डी जावेकंतीस संथरे ।। एक्मेक्कं तु हावेत्ता दिनं पुव्वकमेणओ । दिने दिने सित्थादी जावेक्कतीस संथरे ।।
[भा. ३६८२ ]
वृ- षण्मासक्षपणान्ते सिक्थमेकमादिशब्दात् असंस्तरणे द्वे त्रीणि चत्वारि इत्यादि परिग्रहोऽश्नातु भुंक्ते मे (न) संस्तरणे च सिक्थपरिवृद्धिस्तावत्कर्तव्या यावल्लम्बनं केवलो भवति तेनाप्यसंस्तरणे द्वात्रिंशदपि द्रष्टव्याः । परमेतत्कस्यापि कदाचिदन्यथाप्रकाममोजित्वदोषप्रसक्तेर्यत आह-एत्तो एगेन
For Private & Personal Use Only
www.jainelibrary.org