________________
उद्देशक :- ८, मूल - २०१, [भा. ३६५२]
३७५
समीपे उषितः संविग्न सहागमनाच्च । इतरेनाम असंविज्ञाः पार्श्वस्थादयः सारुपिकसिद्धपुत्रश्चतेषां समीपे यद्युषितस्तैश्रानुशिष्टः प्रतिनिवृत्तः तस्यागतस्य प्रायश्चित्तं चत्वारो लघव उपकरणं च तस्योपहन्यते । यथाच्छन्दस्य सकाशे उषितस्य चतुर्गुरुकसम् । साम्प्रतमागमनद्वारमाहसंविग्गादनुसिट्टो तद्दिवसनियत्तो जइवि न मिलेज्जा | न य सज्जइ वइयादिसु चिरेण विहुतो न उवहम्मे ।।
[भा. ३६५३]
वृ- संविग्रैरादिशब्दादसंविग्ग्रैश्चानुशिष्टो यदि त नोषितः किन्तु तस्मिन्नेव दिने प्रतिनिवृत्तो यद्यपि तस्मिन्नेय दिने न मिलति न च प्रव्रजिकादिषु सजति ततश्चिरेणाप्यागच्छतो हु निश्चित्तं तस्योपकरणं नोपहन्यते आनीयमानस्य तुपहन्यते । एतदेवाह
[भा. ३६५४ ]
एगानियस्समुवणे मासो उवहम्मते य सो उवही । तेन परं चउ लहुगा आवज्जइजं च तं सव्वं ॥
वृ- बलादानीयमान एकाकी समागच्छन् यदि रात्रौ स्वपिति तदा तस्यैकाकिनः स्वप्ने प्रायश्चित्तं लघुको मासः उपधिश्च तस्योपहन्यते । अथ तस्माद् दिवसात् परमपि लगति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथव्रजिकादिष्वपान्तराले सजति यच्च तत्र प्राप्नोति तन्निष्पन्नं सर्वं तस्य प्रायश्चित्तमापद्यते । संविग्गेणुसिठो भणेज जइ हं इहेव अच्छामि । भणति ते आपुच्छसु अनिच्छ तेसिं निवेयंति ।। सो पुन पडिच्छतो वा सीसे वा तस्स निग्गतो हुज्जा । सीसं समणुन्नायं गेण्हंतियरंमि भयणा उ ।।
[भा. ३६५५ ]
[भा. ३६५६ ]
वृ- संविग्गैरनुशिष्टो यदि ब्रूते अहभिहैव युष्माकं समीपे तिष्ठाति तदा स प्रष्टव्यो येषां समीपात्त्वमागतस्तस्य शिष्यो वा त्वं भवति प्रातीच्छिको वा । तत्र यदि शिष्यस्तर्हि भण्यते- तान् आत्मीयान् आचार्यानापृच्छय स्वमुत्कलापय अथ स आप्रच्छनं नेच्छति तर्हि तेषां निवेदयन्ति । यथा यौष्माकीण शिष्योऽस्माकं पार्श्वे समागतो वर्तते स बहुधानुशिष्टः । परंप्रतिनिवर्तितुं नेच्छति किन्तु ब्रूते अहं युष्माकं पार्श्वे स्थास्यामि । एवं निवेदने कृते यदि ते समनुजानन्ति ततः प्रतीच्छन्ति । अथ नानुजानन्ति ततो न प्रतीच्छन्ति इतरो नाम प्रातीच्छिकस्तस्मिन् भजना । तामेव प्रतिपादयतिउद्दिठमनुद्दिठे उद्दिठ्ठसमाणियंमि पेसंति ।
[भा. ३६५७ ]
वायंति वणुन्नायं कडे पडिच्छंति उ पडिच्छं ।।
वृ- तस्य प्रातीच्छिकस्य प्रथमतः प्रश्नेन परिभाव्यते । किमेतस्य श्रुतस्कन्धादिकमुद्दिष्टमस्ति किं वा नेति । तत्र यद्युद्दिष्टं तदपि वा परिसमापतितं तदा न प्रतीच्छन्ति । किन्तु तेषामेव समीपे प्रेषयन्ति । तत्र यदि समनुजानन्ति यूयमेवैनं वाचयत । तदा तैः समनुज्ञातं वाचयन्ति अन्यथा न प्रतीच्छन्ति । अथोद्दिष्टश्रुतस्कन्धादिपरं कृतं समाप्तिं नीतं तदाकृते श्रुतस्कन्धादौ तं प्रतीच्छकं प्रतीच्छन्ति । अथ न किमप्युद्दिष्टमस्ति तदापि तमागतं प्रतीच्छन्ति । एष विहारेणावधावी भणितः ।
[भा. ३६५८ ]
एवं ताव विहारे लिङ्गोहावी वि होइ एमेव ।
सो किंतु संकिमसंकी संकिविहारे य एग गमो ।।
वृ- एवमुक्तेन प्रकारेण विहारे विहारावधावी उक्तो लिङ्गोवधाविन्यप्येवमेव भवति स पुनर्लिङ्गावधावी द्विधा - शङ्की अशङ्की च । शङ्की नाम यस्यैवं संकल्पो यदि मम स्वजना जीविष्यंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org