________________
३६६
व्यवहार- छेदसूत्रम् - २८/२०१
आयरियाई चत्ता, वारत्तथलीए दिठतो ।।
वृ- यदि येनैव पतद्ग्रहणे भिक्षामटति तेनैव विचारे विचारभूमौ गच्छति तर्हि लोके जुगुप्मायै जायते । तथाच सतिभवतिप्रवचनस्योड्डाह आचार्यदयश्चमात्रका परिभोगेत्यक्ता अत्रार्थेवारतस्थल्या दृष्टान्तः । [भा. ३६०९] तम्हा उधरेयव्वो मत्तोय पडिग्गहो य दोन्नते ।
गणनाए पमाणेन य एवं दोसा न होतिए ।।
वृ- यत एवं पात्रस्य मात्रकस्य चाऽधारणे दोषास्तस्मान्मात्रकं पतङ्ग्रहश्च द्वावप्येतौ धारयितव्यौ । कथमित्याह-गणनामधिकृत्य एकैकः प्रमाणत ओघनिर्युक्त्यभिहितप्रमाणेन एवं चैते अनन्तरोदिता दोषा न भवन्ति ।
[भा. ३६१० ]
जइ दोह चेव गहणं अइरेगपरिग्गहो न संभवति ।
अह देइ तत्थ एगं हानी उड्डाहगादीया । ।
वृ- यदि द्वयोरेवपात्रत्रकमात्रयोर्ग्रहणं ततो अतिरेकोऽतिरिक्तः पतद्ग्रहो न संभवति तदभावाच्च कथमध्वनिर्गतादीनां पतद्नहं ददाति । देयस्याभावादथात्मीयं तमेकं पतद्ग्रहमध्वगादीनां प्रयच्छति स्वयं तुकेवलेन मात्रकेण सारयति तत आह- अथ तयोः पात्रकमात्रकयोर्मध्ये एकंपतद्गृहं ददाति तदा द्वितीयस्य हानिरिति येनैव भिक्षामटति तेनैवविचारभूमावपि गच्छतीति लोके जुगुसाप्रसङ्गतः प्रवचनस्योड्डाह आदिशब्दादाचार्यादयश्च तेन परित्यक्ता इति परिग्रहः तस्मादफलं सूत्रमनवकाशादिति आचार्यो ब्रवीति सुत्रनिपातः खल्वयं कारणिकः । किं तत्कारणमिति चेदत आह
[ भा. ३६११]
अतिरेगदुविहकारण अभिनवगहणे पुराणगहणेय ।
अभिनवगह दुविहे वावारिय अप्पच्छंदेय ।।
वृ- द्विविधेन प्रकारेण द्वाभ्यां कारणाभ्यामतिरेकस्यातिरिक्तस्य पतद्ग्रहस्य संभवस्तद्यथाअभिनवग्रहणेन पुराणग्रहणेन च तत्र य त्तदभिनवग्रहणं तत् द्विविधं द्विप्रकारं तद्यथा-व्यापारिताश्च गृह्णन्ति । आत्मच्छन्दसा च गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् तच्च द्विविधमप्यभिनवग्रहणमेभिः कारणैर्भवति ।
[भा. ३६१२]
भिन्ने वज्झामि वापडिनीए तेन साणमादिहिते ।
सेहो य संपयासुय अभिनवगहणं तु पायस्स ।।
वृ- प्रमादतो भिन्नं वाग्रेतनं पात्रमग्निना वाध्यामितं दग्धं प्रत्यनीकेन हृतं अभिन्नंवा स्तेनैः श्वादिभिर्वा हृतमादिशब्देनात्र शृगालादिपरिग्रहः । शैक्षका वा केचिदुपपन्नास्तेषु भाजनानि दातव्यानि एतैः कारणैरभिनवस्य पात्रस्य ग्रहणं भवति ।
[भा. ३६१३]
देसे सव्वम्मी अभिग्गही तत्थ होंति सच्छंदा । ते स सतिनिजोएज्जा जे जोग्गादुविह उवहिम्मि ।।
वृ- तत्र तेषां व्यापारितानां स्वच्छन्दसां च मध्ये स्वच्छन्दसो भवन्ति । अभिग्रहिण अभिग्रहिकास्ते चाभिग्रहिका द्विविधा भवन्ति तद्यथा-देशे सर्वस्मिंश्चोपधावुत्पाद्ये किमुक्तं भवतीति एक एवमभिग्रहं प्रतिपन्ना यथा उपधिदेशं पात्रादिकं वयमुत्पादयिष्यामः । अपरे चैवं प्रतिपन्नाः सर्वमुपधिमुत्पादयिष्यामः । ते चाभिग्रहिका भाजनैः कार्यमन्येन चोपधिना कार्यमिति कृत्वा (ज्ञात्वा) तदुत्पादनाय अव्यापारिता एव गच्छन्ति । अत एव ते आत्मच्छंदस उच्यन्ते आत्मनैव प्रेरणाभावेनैव उपधेरानयनाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org