________________
उद्देशक:-८, मूल - २०१, [भा. ३६०३]
३६५ . आयरियादीणठातब्भुवभोगो नइहराउ ।। वृ-प्राणदयानिमित्तंकोऽपिसाधुः क्षपणंकुर्यात्तस्य यः सङ्घाटकः सक्षपणंकर्तुनशक्नोतिनच तस्यान्यः संघाटको विद्यते । ततो यदि त्रयो जनाः संभूय भिक्षामटन्ति तदा जनानां विकल्पो भवति तस्य विपरिहरणाय एकाकि हिंडते सद्वितीयसंघाटकवतः साधोः प्राणदयार्थं क्षपणकरणे संघाटाभावे विकल्पपरिहारीक्षपणकरणसमर्थोभिक्षामेकाकी हिण्डमानः पतद्गहेपानकंगृह्णाति ।मात्रकंभक्तंअनेन कारणेनस्थविराणामोघोपधिरुपोमात्रको जिनवरैर्वितीर्णोऽनुज्ञातः औधनियुक्तौ तथाभिधानात् । एतेन यदुक्तंतीर्थकरैर्नानुज्ञातोमात्रकइतितन्मिथ्येत्यावेदितमतएव तस्यैवंब्रुवतश्चतुर्गुरुकंप्रायश्चित्तं तथा तस्य मात्रस्योपभोग आचार्यादीनामाचार्यग्लानप्राघूर्णकबालवृद्धादीनामर्थाय यत्प्रायोग्यग्रहणाय उपलक्षणमेतत् संसक्तभक्तपाने शोधिकरणाय च प्रागुक्तकारणव्यतिरेकेण प्रायेणानुज्ञात इतरथा तूक्तकारणव्यतिरेकेण नानुज्ञात एतच्च परिभाव्य तत आर्यरक्षितौश्चिन्तितं प्रायः प्राणरक्षाय संसक्तभक्तपानविशोधिकरणाय च मात्रकपरिभोगोऽनुज्ञातस्तत्र भूयसां प्राणानामप्कायप्रभृतीनां संसक्तभक्तपानानं च वर्षासमये तत्र आर्यरक्षितैर्वर्षासु मात्रकपरिभोगोऽनुज्ञातः शेषकालं तु लोभप्रसङ्गनिवारणाय प्रतिषिद्धस्तथा चाह[भा.३६०४] गुणनिप्पत्ती बहुगी दगमासे होहितित्ति वितरंति ।
- लोभे पसज्जमाणेवारेंतिततोपनोमत्तं ।। वृ- गुणनिष्पत्तिर्बली दकमासे वर्षारात्रे भविष्यतीति तत्प्रारंभसमये भगवन्त आर्यरक्षिता मात्रकपरिभोगं वितरन्त्यनुजानन्ति । ऋतुबद्धे काले आचार्यादिप्रायोग्यग्रहणलक्षणंकारणमतिरिच्यान्यत्कारणंसमस्ति केवलं लोभ एव प्रसज्यते । तथाहि यत् उत्कृष्टंतत्तल्लोभेन मात्रके गृह्णाति तत इत्थं लोभेप्रसजतितन्निवारणायाचार्यादिप्रायोग्यग्रहणाभावे पुनर्मात्रकं तदा वारयन्ति । [भा.३६०५] एवं सिद्धं गहणंआयरियाईण कारणेभोगो ।
पाणदयठवभोगो बितिओपुन रखियजातो ।। वृ- एवमुक्तप्रकारेण मात्रस्यग्रहणं सिद्धं यतः सूत्रे ओधनियुक्त्यादौ आचार्यादीनां कारणे आचार्यादिप्रायोग्यग्रहणेनकारणेनमात्रकस्यभोगोऽनुज्ञातोद्वितीयः पुनरुपभोगआर्यरक्षितात्प्राणदयार्थं प्रवृत्तः कारणाभावेतुमात्रकपरिभोगेप्रायश्चित्तं तदेवाह[भा.३६०६] जत्तियमित्ता वारा दिनेन आणेइ तित्तियालहुगा ।
- अठहिं दिनेहिंसपयं निक्कारणमत्तपरिभोगे ।। वृ-निष्कारणं कारणाभावे मात्रकस्य परिभोगे यावन्मात्रान्वारान् दिवसेनैकेन तेन मात्रेणानयति तावतोलघुकामासास्तस्य प्रायश्चित्तमष्टभिर्दिनैः स्वपदंपुनतारोपणं मूललक्षणमष्टमंप्रायश्चित्तमिति भावः । [भा.३६०७] जे तिघेत्तव्यो नम्मत्तओजेयतनधारेंति ।
चउगुरुगातेसिंभवे, आणादिविराहणाचेव ।। वृ-येब्रुवते न ग्रहीतव्यो मात्रको ये चतंमात्रकंन धारयन्ति तेषां प्रत्येकं प्रायश्चित्तं भवति चत्वारो गुरुकाः आज्ञादयश्चदोषाः । प्राणविपक्षेः संयमविराधना वा अन्यच्च ।। [भा.३६०८] लोए होइदुगंछा वियारपडिगहेण उड्डाहो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org