________________
३६४
व्यवहार- छेदसूत्रम् - २ - ८ / २०१ प्रक्षिपति । बहूनां त्वेकपात्राभ्यनुज्ञाते शीतोष्णानि संसक्तासंसक्तभक्तपानानि गृह्णतः प्राणानां विराधना तथा च व्रतानि परित्यक्तानि । भिन्नत्ति एकं पात्रं कदाचित् भिन्नं स्यात्तदा कुतोऽन्यत्तत्कालं लभ्यतेऽन्यत्र मार्गयतः स एव पलिमन्थदोषः कुलालभाण्डग्रहणेच प्रागुक्ता दोषास्तथा एकपात्रपरिग्रहे आचार्या आदेशाः प्राधूर्णका बालवृद्धाः शिक्षकाः कक्षपकाश्च परित्यक्ता यत एकपात्रानीतमेकस्यात्मनो भवति । आचार्यानां किं ददातु कुत्र वा तेषां प्रायोग्यं गृह्णातु ततस्ते एवं परित्यक्ताः ।
[भा. ३५९८ ]
दंते तेसिं अप्पा जढो उ अदानं तं जढा जंच । कुज्जा कुलालगहणं वयाजढापाणगहणंमि ।।
वृ- तेषामध्वनिर्गतानां च ददति आत्मा परित्यक्तो भवति । अदाने ते अध्वनिर्गतादयः परित्यक्ता यच्च तेषां पात्रं दत्वा स्वयं कुलालभाण्डग्रहणं कुर्यात् तत्राप्यनेके दोषास्ते च प्रागेव भाविता व्रतान्यपि त्यक्तानि भवन्ति । पानग्रहणे पानग्रहणं भक्तोपलक्षणं संसक्तभक्तपानग्रहण इत्यर्थः । भावना सर्वत्र प्रागेव कृता । पुनरपि परः प्रश्रयति
[भा. ३५९९]
जइ होंति दोंस एवं तम्हा एक्केक धारए । सुत्ते य एगभणियं सुत्ते य उवदेसणा वेण्हिं ।। दिन्नज्जरक्खिएहिं दसपुरनगरं उच्छु घरनामे । वासावासठिएहिं गुणनिप्पतिं बहुं नाउं ।।
[भा. ३६०० ]
वृ- एवमुक्तप्रकारेण बहुनामेकपात्राभ्यनुज्ञायां दोषा भवन्ति तस्मादेकैकः एकं पात्रं धारयेत् न मात्रकं, युक्तं चैतत् यतः सूत्रेऽप्येकं पात्रमनुज्ञातं तथा चोक्तं । जे निग्गंथे तरुणे बलवं से एगं पायं रेजानो बीयमिति । ततो ज्ञायते नानुज्ञातं तीर्थकरैर्मात्रकग्रहणं केवलमिदानीमार्यरक्षितैराचार्यैदशपुरनगरे इक्षुग्रहनाम्नि उद्याने वर्षावासस्थितैर्बहीं गुणनिष्पत्तिं ज्ञात्वा मात्रकस्योपदेशना दत्ता कृता सा च यैः कारणैः कृता तान्युपदर्शयति
[भा. ३६०१ ]
दूरे चिक्खल्लो बुट्टिकाय सज्झाय जाणपलिमंथो । तो तेहिं एस दिन्नो एवं भणंतस्स चउगुरुगा ।।
वृ- ते आर्यरक्षिता आचार्या दशपुरे नगरे नगरात् दूरे इक्षुगृहनाम्नि उद्याने वर्षारात्रं स्थिता मार्गे च कर्दमोऽतिप्रभूतो वर्षं तदप्यतिशयेन प्रभूतं पतति तत्र प्रायोग्ये आचार्यादीनां लभ्यमाने यदि न गृह्यते तदा ते परित्यक्ता भवन्ति । अथ गृह्यते तर्हि कुत्र पानीयं भैक्षं वा गृह्यतामथ नीत्वा प्रत्यागम्यते तदा कायानामप्कायहतिकायानां विराधना स्वाध्यायध्यानानां च परिमन्थो व्याघातस्ततस्तैरेतैः कारणैरेष मात्रकस्योपदेशो दत्तः, सूरिराह-यथोक्तकारणवशादार्यरक्षितैरेव मात्रकोऽनुज्ञातो न तीर्थकरैरिति एवं भणतो वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः तीर्थकरैरप्यनुज्ञातात् तच्चाग्रे दर्शयिष्यति । यदपि चोक्तम्जेनिथे तरुणे बलवं से एगं पायं धरेज्जा नो बीयमित्यादि सूत्रम् । तदपि गच्छनिर्गतविषयं न स्थविरकल्पाश्रितं न च तेन कारणजातेनार्यरक्षितैर्मात्रकानुज्ञाकृता तदैवैकं केवलं किन्त्वन्यदपि मात्रकानुज्ञायां कारणकदम्बकमस्ति तदेवाह
[भा. ३६०२ ]
[भा. ३६०३ ]
Jain Education International
पाणदयखमणकरणे संघाडासति विकप्पपरिहारी । खमणा सह गागी गेहेति ऊ मत्त भत्तं ।। राणे स विदिन्नो उदोवहि मत्तगो जिनवरेहिं ।
For Private & Personal Use Only
www.jainelibrary.org