________________
उद्देशक :- ८, मूल - २०१, [भा. ३६१३]
३६७
च्छन्दोऽभिप्रायो विद्यते येषां ते आत्मच्छंदस इति व्युत्पत्तेः । तेषामसत्यभावे ये योग्याः समर्था द्विविधे औधिके औपग्रहिके चोपधावुत्पाद्येतानाचार्यो निर्युक्ते व्यापारयति - दुविहाच्छिन्नमच्छिन्ना भणंति लघुकोय पडिसुण ते य । गुरुवणं दुरे तत्थउ गहिए गहणे य जं वृत्तं ।।
[ भा. ३६१४]
।
वृ- आभिग्रहिका अपि आचार्यमापृच्छय पात्राणामानयनाय गच्छन्ति ये वा निर्युक्ता इति द्विविधास्तद्यथा । च्छिन्ना अच्छिन्नाश्चछिन्नानाम ये आचार्येण संदिष्टा यथा विंशतिः पात्राण्यानयितव्यानि, अच्छिनाना येषां न परिणामनिरोषः तत्र ये तावन्नियुक्तास्तेषां छिन्नानां विधिरुच्यते । तत्र च्छिन्नेषुत्रिभिः प्रकारैरतिरिक्तपतग्रहसंभवः । तत्राद्येऽपि प्रकारे त्रयः प्रकारास्तद्यथा-एकः साधुः छिन्नानां सन्देशं श्रुत्वा तत्रैव समक्षमाचार्यस्य ब्रूते- क्षमाश्रमणा अनुजानीत युष्माकं योग्येषु परिपूणेषु पतनहेषु लब्धेषु यद्यन्यान्यपि लभेरन् ततस्तान्यपि मम योग्यानि गृह्णन्तु एवं ब्रुवाणः शुद्धः । अथैवमाचार्यं नानुज्ञापयति किन्त्वेवमेतान् व्रजतो ब्रूते तर्हि तस्निवं भणति प्रायश्चित्तं लघुको मासः ते चेत् व्रजन्तः प्रतिशृण्वन्ति ग्रहीष्याम इति तदा तेषामपि प्रायश्चित्तं प्रत्येकं लघुको मासः । द्वितीयो व्रजतस्तान् सांभोगिकान् दृष्ट्वा ब्रवीति क्व यूयं संप्रस्थितास्तैरवाचिपात्राणामानयनायाचार्येण प्रेषितास्ततस्तान् स ब्रूते-यावन्ति युष्माकं सन्दिष्टानि तावत्सु परिपूर्णेषु यद्यन्यानि यूयं लभध्वं ततोऽस्माकं कारणेन तान्यपि प्रतिगृह्णीत एवं भणति तस्मिन् प्रायश्चित्तं लघुको मासः । ते यदि प्रतिशृण्वन्ति तदा तेषामपि प्रत्येकं प्रायश्चित्तं लघुको मासः । तृतीयो लज्जालुतया न शक्नोति स्वयमाचार्यान् विज्ञपयितुं ततोऽन्येन विज्ञपयति । अथवा कोऽपि शठत्वेन अन्येन भाणयति तथा ये ते प्रेष्यन्ते ते ब्रुवते । यूयमाचार्यान् भणत युष्माकं परिपूर्णेषु लब्धेषु यद्यन्यान्यपि लभध्वं तदा मम कारणेन प्रतिगृह्णीत एवं भणति तस्मिन् प्रायश्चित्तं लघुको मासः तेऽपि यदीयः शठत्वेन भणयन्ति तस्य यदीच्छन्ति तर्हि तेषां प्रायश्चित्तं मास लघु । तस्मात्तैर्नेष्टव्यं यथा न भणाम इति लज्जालोर्वचनेन पुनराचार्यं भणति । तत्र यदा तत् समक्षमाचार्यो भणित आचार्येण च समनुज्ञातं तदा यल्लभ्यन्तेऽतिरिक्तं लक्षणयुक्तमयुक्तंवा तत्तस्यैव दातव्यं, द्वितीयं प्रकारमाह-गुरुवयणेत्यादि कोऽपि पथिगच्छतो दृष्ट्वा ब्रूते यथा ममापि योग्यानि भाजनानि गृह्णीत । तत्र यदि प्रत्यासन्नस्तदा तद्वचनं प्रतिग्राह्यं । किमुक्तं भवति - आसन्नप्रदेशात् प्रतिनिवृत्य गुरुः प्रच्छनीयो यथाऽमुकः साधुरेवं ब्रवीति ममाप्यर्थायभाजनानि प्रतिगृह्णीथ । अथवा तमेव त्वमेवाचार्यं विज्ञपय एवं कुर्वत्सु तेषु प्रायश्चित्तं मासलघु । अथ दूरे गतांस्तानसांभोगिकान् द्दष्वा ब्रूयुरस्माकमपि योग्यानि भाजनानि गृह्णीत ते ब्रूयुः प्रतिगृहीष्यामः । परं तत्र प्रमाणं गुरवस्तथा चाह-तत्र तु दूरगतानां प्रार्थने सति गृहीते च तद्योग्ये पात्रे गुरवः प्रमाणीकर्तव्याः । तृतीयोविंशतेरधिकं लक्षणयुक्तं पात्रं दृष्ट्वा स्वयं गृह्णाति एवं स्वयं ग्रहणे च यदुक्तं सूत्रे तत्संभवति अतिरिक्तं पात्रं संभवतीति गाथार्थः ।
[भा. ३६१५]
गिलहवी संपाते तिन्नि पगाराउ तत्थ अतिरेगो ।
तत्थेव भइ एगो मज्झवि गेहइ जहाअज्जो ।।
वृ- गृहीतविंशतिपात्राणि इत्युक्ते तत्रातिरेकेत्रयः प्रकारा भवन्ति । एकस्तत्रैवाचार्यमनुज्ञाप्य ब्रूते । ममापि योग्यान्यार्य ! भाजनानि गृह्णीत ।
[भा. ३६१६]
आयरिए भणाहि तुमं लज्जालुस्स य भांति । नाऊणवसठभावं नेच्छंति हरा भवेलहुगो ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org