SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ उद्देशक :-८, मूल - २००, [ भा. ३५७१] संविग्गपक्खगेणेति इयरेसिं न गेण्हती ।। वृ- इतरे असंविग्ना द्विविधास्तद्यथा संविग्नपाक्षिकाश्चासंविग्न पाक्षिका इत्यर्थः । तत्र यः संविग्नपाक्षिकस्य सम्बन्धी उपधिस्तं स्वयं वानयति अन्यस्य वा हस्ते प्रेषयति सन्देशयति वा यस्त्वितरेषामसंविग्नानामुपधिस्तं पतितं दृष्ट्रा न गृह्णन्ति । अत्रैवापवादमाह [भा. ३५७२ ] इयरे वि होज गहणं आसंकाए अनिज्रमाणंमि । किह पुन होज्जा संका इमेहिं उकारणेहिं तु ।। ३५९ वृ- इतरस्मिन्नप्यसंविग्नपाक्षिक सम्बन्धिन्युपधावसंविग्नपाक्षिक सम्बन्धित्वेनाज्ञायमाने आशङ्कयाग्रहणं भवेत् । सूरिराह-एभिर्वक्ष्यमाणैः कारणैस्तान्येवाह । [भा. ३५७३] हाणादोसर वा अहवसमावत्तितो गयानेगा । संविग्गमसंविग्गा इति संकागेण्हंते पडियं । । वृ- जिनप्रतिमास्नान दर्शननिमित्तं आदिशद्वात् सङ्घः प्रयोजनेन वा केनापि समवसरणे मेलापके यदि वा एवमेव समापत्तितो गताः पुरतोऽनेके संविग्ना असंविग्नाश्च । तेषां च गच्छतां कस्याप्युपधेविस्मरणतः पतितः स न ज्ञायते सम्यक् किं संविग्नानां केवलं स्यात् संविग्नानामपीति तं गृह्णाति । संविग्गपुराणोवहि अहवाविहि सीवणा समावत्ती । [भा. ३५७४] होज्जव असीवितो च्छियइति आसंकाए गहणं तु ।। वृ- अथवा पुराणसंविग्नोपधिः किमुक्तं भवति ? येषां सत्क उपधिः पतितस्ते पूर्वं संविग्ना आसीरन् पश्चादसंविग्नीभूताः स चोपधेः पूर्वसंविग्नसीवनेन सीवितः अथवा असंविग्नैरपि समापत्त्याविधि - सीवनिकया सीवितो यदि वा असीवित एव स भवेत्ततस्तं दृष्ट्वा आशंका भवति किं संविग्नानामुतासंविग्नानां तत आशङ्कयाग्रहणं भवति । सम्प्रतिग्रहणानन्तरविधिशेषमाह [भा. ३५७५] ते पुन परदेसगते नाउं भुंजंति अहव उज्झति । अन्ने उ परिठवणा कारणभोगो व गीएसु ।। बृ-तमुपधिं गृहीत्वा येषां संविग्नानां सत्कउपधिस्ते परदेशं गतास्ततस्तान्यरदेशं गतान् ज्ञात्वा कारणे समापतितेपरिभुञ्जते । अथवा कारणाभावे परिष्ठापयन्ति । एवं कारणैरसंविग्नानमपि पतितमुपधिं गृह्णानो न प्रायश्चित्तभाग्भवति, अथ येषां सत्क उपधिः पतितो गृहीतस्तेषा संविग्ना अप्यन्येऽसांभोगिकास्तेषां देशान्तर गतानामुपधि गृहीत्वा निष्कारणे परिष्ठापयन्ति । कारणत्ति यदि ते सर्वे गीतार्थानां च तेषामुपधिरस्ति यदि वाताध्श उपधिरन्यो दुर्लभस्तदा एवं कारणे परिभुञ्जते । अथते गीतार्थमिश्रास्तदा परिष्ठाप्यतेपरिज्ञाप्य वा अगीतार्थान् परिभुञ्जते । एतच्चान्यसांभोगिसत्कतया परिज्ञायते, द्रव्यपरिज्ञाने प्रागुक्त एव विधिः [भा. ३५७६ ] बिइयपदे न गेहेज्जा संविग्गाणंपि एहिं कज्जेहिं । आसंकाए न नज्जइ संविग्गाण व इयरेसिं ।। Jain Education International वृ- द्वितीयपदे अपवादपदे संविग्नानामपि पतितमुपधिमेभिर्वक्ष्यमाणैः कार्यैः कारणैर्न गृह्णीयात् • तान्येवाह-न ज्ञायते किमेष संविग्नानामितरेषामसंविग्नानामित्याशङ्कया पतितं न गृह्णाति तथा असिवगहियं व सोउं ते वोभयं व होज्ज जइ गहियं । उभेण अन्नदेसं व गंतुकामा न गेहेज्जा ।। [भा. ३५७७] For Private & Personal Use Only - www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy