________________
उद्देशक :- ८, मूल - २००, [भा. ३५३८ ]
३५३
वृ-समनोज्ञानां सांभोगिकीनामितरासामसांभोगिकीनां संयतीनां संयतानां वा स्तकमुपकरणं पतितं गृहीत्वा यस्य सत्कं तस्य दातव्यभितरे तु पार्श्वस्थादयस्तेषामयमुपदेशस्तेषां सक्तं पतितं गृहीत्वा यस्य सक्तं तस्मै देयमिति नास्माकमुपदेशोऽधिकरणवप्रवृत्तेस्तैः पुनः पार्श्वस्थादिभिः संविग्नानां विहारिणामेतदुपकरणमिति ज्ञात्वा यत्पतितं गृहीतं तदानीं तं पुनगृह्यते । अत्रैव द्वितीयपदमाह[भा. ३५३९] बिइय पदे न गेहेज्जा विविंचिय दुग्गुच्छिए असंविग्गे ।
तुच्छमपयोयणं वा अगेण्हता होय पच्छिती ।।
वृ- द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विविचितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितमिति कृत्वा वा असंविग्नानां वा एतदुपकरणमिति ज्ञात्वा तथा तुच्छं मुखपोतिकादि तदपि कुथित्वादिना कारणेना कारणेनाप्रयोजनमगृह्यातो भवत्यप्रायश्चित्ती । अंतोविसगलजुणं विविंचियं तं च दर्ुनोगिरहे । असुअठाणिविचुत्तं बहुधावालादि छिन्नं वा ।।
[भा. ३५४० ]
वृ- अन्तर्ग्रामादीनां मध्येविसकलं खण्डास्पष्टीकृतं जीर्ण विवेचित्तं परिष्ठापितमिति ज्ञातव्यं तच्च दृष्ट्वा न गृहीयात् तथा अशुचिस्थानेऽपि च्युतं बहुधा वा व्यालादिभिः श्वप्रभृतिभिश्छिन्नं न गृह्णीयात् । [भा. ३५४१] हीनाहियप्पमाणं सिव्वणिचित्तलाविरंगभंगी वा ।
एएहिं असंविग्गो विहित्ति दठ्ठे विवज्रंती ।।
वृ- हीनाधिक प्रमाणं नागमोक्तप्रमाणोपपन्नं तथा सीवनिकया चित्रलं चित्रं च तत्सीवनिका चित्रलं तथा विविधरंगेण रागद्रव्येण भङ्गिविर्च्छित्ति तत्वरङ्गभङ्गितद्वा दृष्ट्रा एतैः कारणैरयमसंविग्नानामुपधिरिति ज्ञात्वा विवर्जयन्ति ।
[भा. ३५४२ ]
एमेवयबितिय पदे अंतो उवरिं ठविज्जइ इमेहिं ।
तुच्छो अतिजुन्नो वा सुन्ने वीविंचेज्जा ।।
वृ- एवमेव अनेनैव प्रकारेण एभिर्वक्ष्यणैर्ग्रामादीनामन्तर्द्वितीयपदेन परिष्ठापयेत् पतितंन गृह्णीयात् कैरित्याह- तुच्छो मुखपोत्तिका पादप्रोच्छनादिकः । कुथितत्वादिना अकिंचित्करा यदि वा अतिजीर्णो हस्तेन गृह्यमाणोऽनेकधाविशरारुर्जायते । शून्ये वा विविक्ते प्रदेशे पतितो यत्र विस्तरणासंभवस्तत एतैः कारणैः परिष्ठापितः एष उपधिरिति कृत्वा विविच्यात् न गृह्णीयादिति भावः ।
[भा. ३५४३ ]
एमेव बहियावी वियारभूमीए होज्जपडियं तु ।
तस्स विउ एस गमो होइय नेओ निरवसेसो । । .
वृ- एवमेव अनेनैव प्रकारेण ग्रामादीनां बहिरपि विचारभूमौ पतितं भवेत् तस्याप्येव एवानन्तरोदितो गमः प्रकारो निरवशेषो ज्ञेयो भवति । तदेवं सूत्रद्वयं भावितमधुना तृतीय सूत्रभावनार्थमाहगामो खलु पुव्वत्तो दूइजंते उ दोन्नि उ विहाणा ।
[भा. ३५४४]
अभंतरगहणेणं दुविहो व उवही ।।
वृ- ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलोऽन्यो ग्रामोऽनुग्रामो ग्रामश्चानुग्रामश्च ग्रामानुग्रामं समाहारत्वादेकवचनं तत् दूयमानस्य गच्छतस्तस्मिन् गच्छति द्विविधाने ऋतुबद्धे काले गन्तव्यं । तथा पादाभ्यामिति आभ्यां द्वाभ्यां प्रख्या सम्प्रति नियुक्तिविस्तरः
22 23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org