________________
उद्देशक : :- ८, मूल - १९०, [ भा. ३४५१]
३३७
कानामाभवन् व्यवहारविषये विधिरुक्तः । यत्र पुनरेकैकः संघाटको न लभते तदा वृन्दसाध्यानि कार्याणि वृन्देन कर्तव्यानीति न्यायात् संघाटकैरलभमाने वृन्देन समुदायेन मार्गयन्ति तत्र विधिमतिदेशत आह[भा. ३४५२] वंदे तह चैव गहणणुन्नवणाइ तो विही एसो । नवरं पुन नाणत्तं अप्पणणे होइ नायव्वं ।।
वृ-वृन्देनापि मार्गणे तथैव तेन प्रकारेण ग्रहणेऽनुज्ञापनायामादिशब्दादर्पणे च विधिरेष प्रागभिहितो द्रष्टव्यो नवरं पुनरर्पणे भवति नानात्वं ज्ञातव्यं । तदेवाह
[ भा. ३४५३ ]
सव्वेवि दिठरुवे करेहिं पुन्नंमि अम्ह एगयरो | अन्नो वा वाघो अप्पहिति जं भणसि तस्स ।।
वृ- संस्तारकस्वामिनं प्रत्युच्यते सर्वानप्पस्मान् दृष्टमूर्तान् कुरु अस्माकमेकतरः पूर्णे वर्षाकाले संस्तारकंयुष्माकमर्पयिष्यति । अथास्माकमेतेषां कश्चनापिव्याघातो भवेत् तदा अन्योऽपियत्त्वं भणसि तस्य समर्पयिष्यति
[भा. ३४५४]
एवं ता सग्गामे असती आनेज्ज अनगामातो । सुत्तत्थे काऊणं मग्गइ भिक्खं तु अडमाणो ।।
वृ- एवमुक्तप्रकारेण तावत्स्वग्रामे संस्तारकानयने विधिरुक्तोऽसति स्वग्रामे संस्तारकस्याभावे अन्यग्रामादपि आनयेत् । कथमित्याह- सूत्रार्थी कृत्वा सूत्रपौरुषीमर्थपौरुषीं च कृत्वा भिक्षामटनसंस्तारकं मार्गयति यदि पुनरन्यग्रामेऽपि प्रत्येकं संघाटकस्यालाभस्तदा अथपौरुषीं हापयित्वा तत्र वृन्देन गत्वा याचन्ते ।
[भा. ३४५५ ]
अदिट्ठे सामिम्मि उं वसिउं आनेइ बिइय दिवसंमि । खेत्तंमि उ असंते आनयनं खेत्तबहियातो ।।
वृ-यदि स्वग्रामे न दृश्यते संस्तारको दृश्यमानो वा न लभ्यते तदा स्वक्षेत्राद्विगव्यूतप्रमाणे अन्यग्रामे गत्वा याचनीयः । अथ न दृश्यते तत्र संस्तारकस्वामी तदा गृहे उषित्वा द्वितीयदिवसे संस्तारकमनुज्ञाय गृहीत्वा समागच्छन्ति । अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे संस्तारकस्याभावे स्वक्षेत्राद्वहिष्टादप्यानयनं संस्तारकस्य द्वित्रिदिनमध्ये कर्त्तव्यम् ।
[भा. ३४५६ ] सव्वेहिं आगएहिं दाउँ गुरुणो उ सेस जह वुड्डुं । संथारे घेत्तूण उवासेहो अनुन्नवणा ।।
वृ- सर्वैरपि संघाटकेः पर परतरग्रामेभ्यः समागतैः संस्तारकपरिपूर्णतायां सत्यां त्रय उत्कृष्टाः संस्तारकाः गुरोर्दातव्यास्ततः शेषैर्यथावृद्धं यथा रत्नाधिकतया गृहीतव्याः । तान् संस्तारकान् गृहीत्वा तदनन्तरमवकाशेन भवत्यनुज्ञापना । एतावता ग्रहणद्वारं अनुज्ञापनाद्वारं समापतितमित्यावेदितम् । [भा. ३४५७ ] जो पुव्वनन्नवितो पेसिज्जतेन होति उगासे ।
हेट्ठिल्ले सुत्तंमि तस्सावसरं इह पत्तो ।।
वृ- यः पूर्वमधस्तने प्रथमे पिण्डसूत्रे प्रेष्यमाणे-नावकाशोऽनुज्ञापितस्तस्यावसर इह प्राप्तस्ततः स
भण्यते
नाउण सुद्धभावं थेरा वियरंति तं तु उगासं ।
[भा. ३४५८ ]
22 22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org