________________
३
उद्देशक:-८, मूल - १९०, [भा. ३४४२]
सत्तिविहवेसत्तीएय सोविहुनवितेन निव्विसति ।। वृ-तेन साधुना मया भदन्त ज्ञातिगृहे संस्तारकः प्रतिज्ञप्तोस्तित, तस्तस्मिन्नवेदिने समानेष्यते इत्यालोचितं श्रुत्वा अन्य आसन्नतरो मित्ररुपो वा ज्ञातिगृहं गत्वा तत्र तथैव संस्तारकस्वामिनं विपरिणामयति । स चान्यो विपरिणस्य गृह्णाति इदं वक्ष्यमाणमुक्त्वा तदेवाह-अन्ने वीत्यादि अन्येऽपि चतस्य निजकाः संस्तारकं दास्यन्ति यदिवामामामुंसंस्तारकं दत्वा तस्यान्यं संस्तारकं दद्याः ।अथवा अस्माद्दशेऽज्ञातोंच्छवृत्तिजीविनियत्दुर्लभदानंदीयतेतद्भवतिशुद्धमिह परलोकाशंसा विप्रमुक्तत्वात् तथा स्वज्ञातिगृहेऽन्योऽसंज्ञातिकस्तेन संस्तारकस्वामिना असमनुज्ञातो न गृह्णाति । अहं पुनः संज्ञातिकस्ततो व शय्यामेकवारमनुज्ञातस्यापि संस्तारकस्य ग्रहणे तथा सति विभवे यदि वा विभवाभावेऽपि स्वशक्त्या सोऽपि सज्ञातिकस्तेनात्मीयेन सज्ञातिके विना न निर्विशति उपभुङ्कते भक्तपानसंस्तरकादितस्मान्मम दातव्यएष संस्तारकइतिएवं विपरिणम्यानीतः पूर्वसंघाटकस्याभवति न येनानीतस्तस्यगतं विपरिणामद्वार मधुना धर्मकथाद्वारमुच्यते तथैवालोचनामाकान्यः संघाटक स्तत्रागत्य धर्मकथामारभते । ततो धर्मकथया तमत्यन्तमावर्त्य तं संस्तारकं याचते । स धर्मकथाश्रवणोपरोधतो न निषेष्धुंशक्तइतितस्मैदत्तवान् सोऽपिपूर्वसंघाटकस्या भवति, नयेनानीतस्तस्य । गतं धर्मद्वारं । सम्प्रति व्यवच्छिन्नद्वारमाह-भावना तस्य सज्ञातिकस्य याचितसंस्तारकविषये भावः । कुतश्चित्कारणात्व्यवच्छिन्नोऽन्येनचसंघांटकेनाभावेन याचित्वासमानीतःसयेनानीतस्तस्या भवति नपूर्वसंज्ञातिकस्य । अन्यद्वारभावना त्वियम्-पूर्वप्रकारेणतेनसंज्ञातिकेन गुरुणामन्तिके विकटेन कृते तत्श्रुत्वाऽन्यः संघाटकस्तत्र गत्वा संस्तारकं याचते । तत्रान्यो मनुष्योऽन्यं संस्तारकं यदि ददाति यदि वासएव पूर्वसंघाटकयचितः संस्तारकस्वामीपरमन्यंसंस्तारकंतदा कल्पतेपूर्वयाचितस्त्वनेनान्येन वा दीयमानोन कल्पते तथा चाह[भा.३४४३] सेसाणियदाराणितहविय बुद्धीयभासणियाई।
उद्धद्दारे वितहा नवरं उद्धंभिनाणत्तं ।। वृ-शेषाण्यपि विपरिणामजानि श्रुत्वादीनि द्वाराणि तथैव प्रागुक्त प्रकारेणैव बुद्धया परिभाव्य भाषणीयानि तानि च तथैव भाषितानि । गतं संज्ञातिक द्वारमिदानीमूर्ध्वद्वारमाह-ऊर्ध्वद्वारेऽपि तथा पूर्वोक्तप्रकारेण द्वाराणिश्रुत्वादीनि योजनी यानि नवरमूर्द्धनानात्त्वंतदेवभावयति । [भा.३४४४] आनेऊणनतिणेवासस्सय आगमंतुनाऊणं ।
माउल्लेज्ज हुच्छणेठवेइमावणोमग्गेज्जा ।। वृ- संघाटकेन क्वापि गृहे संस्तारको दृष्टो याचितो लब्धश्च आने तुमपि व्यवसितः । परं वर्षस्यागमनागमनंज्ञात्वा मापान्तरालेवर्षपतेदितिकृत्वानानेतुंतीर्णःशक्तस्तथामावर्षेणात्र प्रस्तारित आद्रीक्रियते मा वा अन्यः संघाटकः समागत्य मार्गयत् याचेत इति । छन्ने प्रदेशे कुड्येऽवष्टभ्य ऊर्चीकृतस्ततो गुरुसमीपेसमागत्य विकटयति । तच्च श्रुत्वा अन्य उपेत्यागत्य याचतेसचतेनानीतः पूर्व संघाटकस्या भवति, न येनानीतस्तस्य । गतं श्रुत्वा द्वारमिदानीं यथाभावद्वारं विवक्षुराह[भा.३४४५] पुच्छाए नाणत्तं केणुद्धकयंतुपुच्छियमसिद्धे ।
अन्नासढमाणीयंपिपुरिल्ले केइ साहारं ।। वृ-यथाभावद्वारेपृच्छायांनानात्वं किंतदितिचेदुच्यते-अन्यः संघाटकस्तत्रयथाभावेन गतस्तेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org