________________
३३४
व्यवहार-छेदसूत्रम् -२- ८/१९०
आगतस्तेनापि तत्र स एव संस्तारकः प्रणयितो याचितः संस्तारकस्वामिनोक्तं दत्तोऽन्यस्य ततस्तथैव तं विपरिणामयति । यथा सर्वदैवाहं तव प्रियस्ततो मयि सति किमन्यस्मै तव दातुमुचितं तस्माद्यदि स आगच्छति तर्हितस्य प्रतिषिद्ध पश्चान्मम दातव्य इति । एवं यदि विपरिणम्यानीतो भवति तत पूर्वतमस्था भवतिनेतरस्य तदेवमुक्तंविपरिणामद्वारमधुना धर्मकथाद्वारंतथैव प्रथमसंघाटकेन संस्तारके दत्तोऽन्यस्मै ततो धर्मकथाकथनतस्तमावर्ज्य ब्रूते । यथा तस्य प्रतिषिध्यायं संस्तारको मह्यं देयः एवमानीतः पूर्व संघाटकस्य स भवति नेतरस्य । तथा येन प्रथमसंघाटकेन संस्तारको याचितो लब्धश्रुतस्य तद्विषयभावव्यवच्छेदात् तथा प्रथमसंघाटकेन संस्तारकेयाचिते लब्धे नेतुमशक्यतया तत्रैवमुक्तेऽन्यः संघाटकस्तत्र समागत्य संस्तारकं याचते । तत्रयदि अन्यो मनुष्यो संस्तारकं दद्यात् स वा प्रथमसंघाटकयाचितोऽन्यं तदा स तस्य कल्पते यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कल्पते । तथा च विपरिणामद्वारं मुक्त्वा शेषद्वाराणामतिदेशमाह
[भा. ३४३७]
अहभावो लोयण धम्मकहणवोच्छिन्नमन्नदाराणि । नेयाणि तहाचेव उजवउ छट्ठ दारम्मि ।।
वृ- यथा भावद्वारमालोयणत्ति पदैकदेशे पदसमुदायोपचारादालोचनं श्रुत्वेति द्वारं धर्मकथनद्वारं व्यवच्छिन्नदारमन्यद्वारं चेति पञ्चद्वाराणि यथैवावभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि षष्टं तु विपरिणामद्वारं साक्षादुक्तं । गतं लब्धद्वारमिदानीं संज्ञातिद्वारमाह
[भा. ३४३८]
सन्नायएवि एच्चिय दारा नवरं इमं तु नाणत्तं । आयरिएणाभिहितो गेण्हइ संथारयं अज्जो ।। सुद्धदसमी ठियाणं तेभी घेच्छामि तद्दिनं चेव । नायगिहे पडित्तो माएउ संथारतो भंते ।।
[भा. ३४३९]
वृ- यान्येव श्रुतादीनि षट् द्वाराणि लब्धद्वाराभिहितान्येतान्येव सज्ञातिकद्वारेऽपि द्रष्टव्यानि नवरं भावनायां यन्नानात्वं तदिदं वक्ष्यमाणंतदेवा-आयरिएणेत्यादि आचार्येणाभिहित आर्यसंस्तारकं गृहाण, एवमुक्तः सन् सज्ञातिकानां गृहमागमत् दृष्टः संस्तारको याचितो लब्धश्च अथवा सज्ञातिकैरयाचितैरेव सउक्तो ग्रहाण संस्तारकं ततस्तेनोक्तं यस्मिन् दिवसे संस्तारके स्वप्तुमारप्स्यते तस्मिन् दिवसे नेष्यामः । आचार्याश्चशुद्धदशम्यास्तत्र स्थितास्तत आगत्य शुद्धदशमी स्थितानां गुरुणामन्तिके ब्रूते आलोचयतिभदन्त मया ज्ञातिगृहे संज्ञातिकगृहे संस्तारकः प्रतिज्ञप्तो निभालितस्तिष्ठति ततो यत्र दिने संस्तारके स्वप्स्यते तद्दिवसमेव तस्मिन्नेव दिने गृहीष्यामः । एवमालोचितं श्रुत्वाऽन्यो याचते लभते च आनीतः पूर्व संघाटकस्याभवति न येनानीतस्तस्य गतं श्रुत्वाद्वारमपरः संघाटकोऽग्रेतनसंघाटकवृत्तान्तमनवज्ञाय यथाभावेन गत्वा याचते लभते तेनाप्यानीतः पूर्वसंघाटकस्या भवतिन तस्य, अपरे तुद्वयोरपि संघाटयोस्तं साधारणमाचक्षते यथा भावद्वारमपि गतमिदानीं साक्षाद्विपरिणामद्वारमाह
[भा. ३४४० ]
[ भा. ३४४१ ]
[भा. ३४४२ ]
Jain Education International
विपरिणामे तहच्चिय अन्नोगंतूण तत्थ नायगिहं । आसन्नयरो गिण्हइ मित्तो अन्नोवि मं मोत्तुं ।। अन्नेवि तस्स नियगा देहिहि अन्नं य तस्स मम दाउं । दुल्लभ लाभ मणाउं ठियंमि दाणं हवति सुद्धं ।। सन्नायगिहे अन्नो न गेण्हएतेन असमणुनातो ।
For Private & Personal Use Only
www.jainelibrary.org