________________
३३०
व्यवहार - छेदसूत्रम् - २ - ८ / १९० स्थापनीयः । एवमुक्ते यदि स ब्रूयाद् यतोऽवकाशात् गृहीतोऽत्रैव स्थाने स्थापयेत् यदि वा वदेत् अत्रैव स्थाने च्छिन्नं प्रदेशेऽथवा यतोऽवकाशात् गृहीतस्तस्य पार्श्वे अथवा यस्य पुञ्जस्योपरिस्थितो गृहीतस्तस्य पुञ्जस्योपरिस्थापयेत् यदि वा यत्र यूयं नयथ तत्रैव तिष्ठतु । यतो यस्योपाश्रये यूयं वसथ तेऽपि हु निश्चितमस्माकं निजका । किंबहुना यत्र वददि तत्र नीत्वा स्थापयितव्याः ।
[भा. ३४१५]
एसा गहिए जयणा एत्तो गेहंत एउवुच्छामि । एगोच्चि गच्छे पुन संघाडो गेण्हभिग्गहितो ।।
वृ- एषा अनन्तरोदिता गृहीते यतना । अत ऊर्ध्वं गृह्णाति यतनां वक्ष्यानि प्रतिज्ञातमेव करोति । गच्छे पुनरेक एवं सङ्घाटः आभिग्रहिकः संस्तारकं गृह्णाति न शेषोऽन्यथाऽव्यस्थापत्तेः । अभिग्गहियस्स असती वसुं गहणे पडिच्छिउं सव्वे ।
[भा. ३४१६]
दाऊण तिन्नि गुरुणो गिण्हतन्ने तहा वुहुं । ।
वृ- अभिग्रहिकस्याभावे विष्वक्प्रत्येकं संङ्घाटकानां ग्रहणं प्रवर्तते । इयमत्रभावना - एकैकः सङ्घाटः प्रत्येकमेकैकं संस्तारकं मार्गयति अभ्यधिकास्त्रयः संस्तारका आचार्यस्य योग्य मृग्यन्ते । अत्रापि सैव मार्गणेऽनुज्ञापने गृहीते च यतना यावत्कार्यसमाप्तौ क्व स्थापयितव्यः इति । एवं विष्वक् ग्रहणे सर्वान् संस्तारकन् प्रतीच्छ्य प्रतिगृह्य त्रीन् संस्तारकान् गुरोर्दत्वा शेषानन्यान् यथा वृद्धं गृह्णन्ति । इयमत्र सामाचारी । आभिग्रहिकसंघाटेन प्रत्येकं प्रत्येकं संघाटैरानीतानां वा मध्यादाचार्यस्योत्कृष्टान् त्रीन् संस्तारकान् प्रवर्त्तको दत्वा शेषाणां रत्नाधिकतया संस्तारकान् भाजयति । तेऽपि तथैव गृह्णन्ति । । गाउ नाणत्तं सगणेयर भिग्गहीण वन्नगणे ।
[भा. ३४१७]
इदिठो भासणलद्धे सन्नाउट्टेपभू चेव ।।
वृ- अनेकानां स्वगणेतराभिग्रहिकानां यन्नानात्वं प्रतिविशेषो यच्चान्यगणेन सह स्वगणसाधूनां समुदायेन संस्तारकान् मार्गयतामाभवद्वयवहारनानात्वं तद्वक्ष्ये तत्र पञ्च द्वाराणि । तद्यथा दृष्टद्वारमवभाषणं नाम याचनं तद्वारं, मानयाचनतद्वारं प्रभुद्वारंच |
[ भा. ३४१८ ]
दिठादिएस एत्थं एक्केके होंति छ भवे भेया ।
[ भा. ३४१९]
दठूण अहाभावेन वाविसोंउ च तस्सेव ।। विप्परिणामकहणा वोच्छिन्ने चेव तिपडिसिद्ध्या । एएसिं तु विसेसं वृच्छामि अहानुपुवीए ।।
वृ- अत्र एषु दृष्टादिकेषु द्वारेषुमध्ये एकैकस्मिन् द्वारे इमे वक्ष्यमाणाः षट्भेदा भवन्ति । तद्यथादृष्टेति द्वारं यथा भावेनेति द्वारं तस्य वा वचनतः श्रुत्वेति द्वारं विपरिणमेन कथनद्वारं व्यवच्छिन्नद्वारं विप्रतिषिद्धद्वारं च । एतेषां तुद्वाराणां यथानुपूर्व्या क्रमेण विशेषं वक्ष्यापि । यदपि च दृष्टादिषु द्वारनानात्वं तदपि यथावसरं वक्ष्यते । मानः संस्तारकं फलकरुपं पट्टरूपं वा देहान्तं देहप्रमाणं अस्वाधीन प्रभुं न विद्यते स्वाधीनः । ततः कालप्रत्यासन्नप्रभुर्यस्य स तथा तमस्वाधीन प्रभुं दृष्ट्रा कमपि पृच्छति कस्यैष संस्तारकः । स प्राह- अमुकस्य परमिदानीमत्र स न तिष्ठति ततः संघाटकश्चिन्तयति यदा संस्तारकस्वामी समागमिष्यति तदा याचिष्ये इति विचिन्त्या प्रतिसरति प्रतिनिवर्तने वसतावागच्छतीत्यर्थः । ततः प्रतिनिवृत्त्य तदा अन्यदा च भाषिते याचिते संस्तारकं बध्वा वसतिमानयति । अत्रैवापान्तराले वक्तव्यशेषमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org