________________
उद्देशक :- ८, मूल - १९०, [भा. ३४०८ ]
३२९
वृ- कालस्य शीतलतया भूमौ प्राणाः संमूर्च्छन्ति के ते इत्याह-कुन्थवः प्रतीताः उत्पादका नाम ये भूर्मिभित्वा समुत्तिष्ठन्ति दीर्धाः सर्पास्तेभ्य आत्मविराधना, गोम्मी नाम कर्णशृगाली शिशुनागोऽलसः तथा शीतलायां भूमौ पनकः संजायते, उपधावपि पनकाः समुर्च्छन्ति तथा उपधेः शीतलभूमिस्पर्शतः कोथनसंभवः । तथा सत्रे (ए) (सती) हधूलि लगने मलसंभवः ततो हिण्डमानस्य वर्षा पतति उदकवधोऽकाय विराधना तथा उपधेर्मलिनत्वेनारतिसंभवे निद्राया अलामतो अजीर्णसंभव आदिग्रहणात् ततो ग्लानत्वं तदन्तरं चिकित्सा करणेत्यादि परिग्रहः । तम्हा खलु घेत्तव्यो तत्थ इमे पंच वणिया । गहणेय अनुन्नवणा एगंगिय अकुयपाउग्गे ।।
[भा. ३४०९]
बृ- यस्मादेते दोषात्स्तस्मादवश्यं फलकरुपः संस्तारको गृहीतव्यः । तत्र च ग्रहणे इमे वक्ष्यमाणाः पञ्चवर्णिता भेदास्तानेवाह-ग्रहणेऽनुज्ञापनायामेकाङ्गिके अकुचेप्रायोग्येच । तत्रप्रथमतो ग्रहणद्वारमाह[भा. ३४१०] गहणं च जाणएणं सेज्जाकप्पोउ जेन समहीतो । उस्सग्गववाएहिं सो गहणे कप्पिओ होइ ।।
बृ- येन समधीतः सम्यगधीतः शय्याकल्पः शय्याग्रहणविधिस्तेन जानता ग्रहणं संस्तारकस्य कर्त्तव्यं । यतः स उत्सर्गापवादाभ्यां ग्रहणे कल्पिको योग्यो भवति । गतं ग्रहणद्वारमिदानीमनुज्ञापने या
यतना तामाह
अनुन्नवणाए जयणा गहिए जयणाहोति कायव्वा । अनुन्नाए लद्धे बेंति पडिहारियं एयं । ।
वृ- अनुज्ञापनायां यतना गृहीते च यतना कर्तव्या । तत्रानुज्ञायामियं लब्धे संस्तारके ब्रुवते । एतं संस्तारकं प्रातिहारिकं गृहीष्यामो यावत्प्रयोजनं तावद्धरिष्यामः पश्चात्समर्पयिष्याम इति । कालं च ठवेइ तहिं बेइयपरिसाडिवज्जमप्पेहं । अनुन्नवणजयणा एसा गहिए जयणा इमा होति ।।
[भा. ३४१२]
[भा. ३४११ ]
वृ- यदा संस्तारको लब्धो भवति तदा तत्र कालं स्थापयति । एतावन्तं कालं धरिष्यामः तथा ब्रूते एष संस्तारको जराजीर्णतया परिशाटिरुपस्तंएनं वयं गृहीष्यामस्तत्र निर्व्याघातेनैतावता कालेन यत्परिशटति तन्मुक्त्वा शेषमपयिष्यामः । एवं यदि प्रतिपद्यते तदा गृह्यते अथ न प्रतिपद्यते तदा न गृहीतव्यः । किन्त्वन्यो याच्यते । अथान्यो यांच्यमानो न लभ्यते, तदा स एव परिगृह्यते केवलं परिशाटी यतना विधेया । एषा अनुज्ञापने यतना गृहीते यतना इयं वक्ष्यमाणा भवति तामेवाहक़ासपुनप्पयव्वो चेतिमिमं जाहितं भवे सुन्नो । अमुगस्सवि सोवि सुन्नो ताहे घरम्मी ठवेज्जाहि ।। कहि एत्थ चेव ठाणे पासे उवरिं च तस्स पुंजस्स । अहवा तत्थेवत्त उ ते विहु नियल्लया अम्हं ।।
[भा. ३४१३]
[ भा. ३४१४ ]
बृ- गृहीते संस्तारके पुनः पृच्छति कार्यसमाप्तौ कस्य पुनरर्पयितव्य एष संस्तारकः । एवमुक्ते स यदि ब्रूते ममैव समर्पयितव्यः इति तदा वक्तव्यम् त्वं भवसि शून्यः किमुक्तंभवति, यदायूयं न दृश्यध्वे तदाकस्य समर्पणीयः, अथ ब्रूयानुकस्य, ततो भूयोपि वक्तव्यं सोऽपि यदा शून्यो भवति न दृश्यते इत्यर्थः । तदा कस्मै समर्पणीयः । अथ ब्रूयादत्रैव गृहे स्थापयेत् ततः पुनरपि पृच्छेत् कतरस्मिन्नवकाशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org