________________
उद्देशकः-८, मूल - १९०, [भा.३३९६]
३२७ प्रत्यागच्छति । एवं च क्रमणार्थमप्युत्थिते प्रवातार्थं वा बहिर्निर्गत वैद्यकार्ये वा बहिर्नीते यावत्स प्रत्यानीयते तावदन्यो निषीदति तस्मिन्नागते स उत्तिष्ठति । अथवा स गुरुणामपि पूज्य इति तस्मिन् पूर्वोक्तकारणैरुत्थितेतत्रान्यस्यनिषदनंन कल्पते । तेषांतृणानामुपरि हस्तः कर्तव्यः । एतदेवाह[भा.३३९७] अन्नोन्निसव्वइ तहिं पाणदयठाए तत्थ हत्थो वा ।
निक्कारणमगिलाणेदोसाचतेचेचेव य विकप्पो ।। वृ-अन्यस्तत्र संस्तारके प्राणदयार्थं निषीदति हस्तो वा तत्र क्रियते । अत्रभावना प्रागेव कृता । एतैः कारणैर्यथोक्तरुपसंस्तारक ऋतुबद्धे काले निष्कारणं देशादि कारणमन्तरेणाग्लानेऽग्लानस्य तृणमसंस्तारकग्रहणेतएव पूर्वोक्तादोषा विकल्पोविकल्पदोषश्च । अत्रविकल्पग्रहणेन कल्पप्रकल्पावपि सूचितौ । तेषां व्याख्यानमाह[भा.३३९८] अत्थरणवज्जितो उकप्पो उहोति पट्टदुगं।
तिप्पभिईतुविकप्पो अकारणेणंचतणाभोगो ।। वृ-आस्तरणवर्जितः कल्पः किमुक्तं भवति यजिनकल्पिका अनवस्तृता रात्रावुक्कडुकास्तिष्ठन्ति एष कल्प इत्यभिधीयते तत्पुनः पट्टद्विकं भवति । संस्तारोत्तरपट्टयोरुपरियत्सुप्यते इत्यर्थः एष भवति प्रकल्पः । यानि पुनः स्त्रिप्रभृतीनि संस्तारे प्रस्तारयति एष विकल्पः । यच्च अकारणेन कारणमन्तरेण तृणानांभोगक्रियते एषोऽपि विकल्पः । अथवान्यथा कल्पप्रकल्पव्याख्यानमाह[भा.३३९९] अहवा अज्झुसिरगहणे कप्पोकपकप्पो उकजे ।
झुसिरे अज्झुसिरेवा, होइ विकप्पोअकजंमि ।। वृ- अथवेति प्रकारान्तरोपदर्शने यत्कारणेसमापतिते अज्झुषिराणि तृणानि गृहन्ति । एष कल्पो यत्पुनः कार्ये समापतिते झुषिराण्यपि तृणानि गृह्णानित एष प्रकल्प । यत्पुनरकार्येज्झुषिराणि अज्झुषिराणि वा गृह्णाति एष भवति विकल्पः । एवं तावत्तणानामृतुबद्धे काले कारणेन गृहीतानां यतनोक्ता । सम्प्रति कारणैरेव ऋतुबद्धे काले फलकरुपस्य संस्ताकस्य ग्रहणेयतनांचाह[भा. ३४००] जह कारणतणाई उउबलुमि उहवंतिगहियाई ।
तह फलगाणि विगेण्हइ चिक्खल्लादीहिंकज्जेहिं ।। वृ-यथाकारणेदेशादिलक्षणेऋतुबद्धकालेतृणानिगृहीतानितथाक्रतुबद्धएवकालेचिक्खल्लादिभिः कार्येरादिशब्दात्प्राणसंसक्तिहरितकाय परिग्रहफलकान्यपिगृह्णाति । तत्र यतनामाह[भा.३४०१] अज्झुसिरमविद्धफुडियअगुरुय अनिसठवीणगहणेन ।
आयासंजमे गुरुगासेसाणंसंजमे दोसा ।। वृ- अझुषिरो ज्झुषिररहितोऽविद्धो वेधरहितोऽस्फुटितोऽराजितोऽगुरुको गुरुभारहितोऽनिसृष्टः प्रातिहारिकः । एतेषां च पञ्चानां पदानां द्वात्रिंशद्भङ्गा । तेच प्रागिव प्रस्तारतः स्वयं ज्ञादव्याः । अत्र यः प्रथमो भङ्गः सोऽनुज्ञातस्तत्र दोषाभावात् अयं लघुकः शेषदोषविनिर्मुक्तश्च ततो यथा वीणा लघुकत्वात् दक्षिणहस्तेन मुखं विवक्षितं स्थानं नीयते इति वाक्यशेषः शेषा एक त्रिंशत् भङ्गा नानुज्ञाताः । तत्रगुरुके आत्मविराधनाप्रत्ययं च प्रायश्चित्तं चतुर्गुरुकंसंयमविराधना पुनरेवभवति । गुरुके हस्तात्पतितेएकेन्द्रियादीनामुपघातोऽत्रस्वस्थानप्रायश्चित्तं शेषेषुसंयमेदोषाःसंयम विराधना । ततस्तत्र प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org