SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ व्यवहार- छेदसूत्रम् - २-८/१८७ वृ- अथ कन्दर्पादिभिर्मार्गयति । कन्दर्पनिमित्तमन्यद्वा किढिञ्चित् शठत्वमवलम्ब्य विज्ञपयति तदा तस्य न ददति नानुजानन्ति । अथवा जमिणं सेज्जसंथारयं लभिज्जा इत्यादि सूत्रस्यायमर्थः-शय्या एव संस्तारकः शय्या संस्तारकः । स च द्विधाफलक संस्तारकः कंचि [ थि] संस्तारको वा । तस्य योग्रेतनः संस्तारकः खरकस्तत्रस्वपतः पार्श्वाणिदुःखायन्ते । ततस्तेन पूर्वं मृदुकुले गत्वा मृदु संस्तारकोऽनुज्ञापितः तज्ञ आचार्यसमीपमागत्य विज्ञपयति यं यं शय्या संस्तारकं लभेत स ममैव स्यात् । तत्र यदि स्थविरा स्तस्याशठत्वमालोक्यानुजानन्ति तदा स तव [ तस्य ] स्यात् अथ शठ इति कृत्वा तस्य नानुजानन्ति तर्हि से तस्य कल्पते यथा रानिकतया शय्यासंस्तारकं परिगृहीतुं नान्यथेति एतत् पिण्डसूत्रं व्याख्यातमधुना पुनः प्रत्येकसूत्राणि व्याख्यास्यामि । मू. (१८८) सेय अहा लहुस्सगं सेज्जा संथारगं गवेसेज्जा । जं चक्किया एगेन हत्थेणं ओगिज्ज जाव एगाहं अद्धाणं परिवहित्तए एस मे वासावासुं भविस्सइ ।। वृ- इत्यादि सोधिकृतो भिक्षुर्यथा लघुस्वकमनेकान्त लघुकं वीणाग्रहणग्राह्यं । शय्या सर्वाङ्किका संस्तारकोर्धतृतीयहस्तदीर्धहस्तचत्वार्यङ्गुलानि विस्तीर्णः । अथवा तत्पुरुषः समासः शय्या एवं संस्तारकः शय्यासंस्तारकः तृणमयं पट्टमयं वा गवेषयेत् । तत्र यत् शक्नुयात् एकेन हस्तेनावग्रह्य यावदेकाहं वा द्व्यहं त्र्यहं वा अध्वानं गच्छन् परिवोढुं तत् गृह्णीयात् । एष मे वर्षावासे भविष्यति एष वर्षा सूत्रस्यार्थः । मू. (१८९) से अहा लहुसगं सेज्जा संथारगं गवेसेज्जा जं चक्किया एगेणं हत्थेणं ओगिज्ज जावएगाह वादुयाहं वा तियाहं वा परिवहित्तए एसमे हेमंतगिम्हासु भविस्सइ ।। मू. (१९०) से अहा लहुसगं सेज्जा संथारगं जएज्जा जं चक्किया एगेणं हत्थेणं ओगिज्ज जावएगाहं वा दुयाहं वा तियाहं वा चउयाहं वा पंचगाहं वा अद्धाणं परिवहित्तए एस मे वुड्ढावासासु भविस्सइ । । वृ एवं हेमन्तग्रीष्मसूत्रार्थो वृद्धावाससूत्रार्थश्च भावनीयः नवरं वृद्धावाससूत्रे चतुरहं वा पञ्चाहं वेत्यधिकं वक्तव्यमधुना नियुक्तिविस्तरः [ भा. ३३८४ ] सोपुन उउम्मि घेप्पइ संथारो बुडावासे वा । ठाण फलगादी वा उउम्मि वासासुय दुवे वि ।। वृ- स पुनः संस्तारकः स्थानं स्थानरूप ऋतुबद्धे वर्षाकाले वृद्धावासे च यथानुरुपे गृह्यते । तद्यथाऋतुबद्धे कालेऽवकाशे गृह्यते, वर्षावासे च वृद्धावासे च निवातस्थानेऽपि तथा ऋतुबद्धे काले ऊर्णादिमयः संस्तारकः परिगृह्यः पुरुषविशेषं ग्लानादिकमपेक्ष्य फलकादिर्वा वर्षावासे द्विकावपिद्वावपि संस्तारकौ वक्ष्यमाणलक्षणौ गृह्णीयात् । [भा. ३३८५ ] उउबद्धे दुविहगहणा, लहुगो लहुगाय दोष आणादी । झामियहियवक्खेवे संघट्टणमादिपलिमंथो ।। " वृ-द्विविधः संस्तारकः परिशाटिरूपोऽपरिशाटिरूपश्च । तत्रपारिशाटिरुपोद्विविधो झुषिरोऽझुषिरश्च तत्र शाल्यादि पलालतृणमयो झुषिरः कुशवल्ककादिरूपोऽझुषिरः । अपरिशाटिरुपो द्विविध:एकाङ्गिकोऽनेकाङ्गिकश्च । एकाङ्गिकोपि द्विविधः सङ्घातितोऽसंघातितश्च । तत्रासङ्घातित एकफलकात्मकः संघातितोद्व्यादिफलक संघातात्मकः अनेकाङ्गिकः कंथिका प्रस्तारात्मकस्तत्र यदि ऋतुबद्धेऽभ्कुषिरं परिशाटिं संस्तारकं गृहाति तदा तस्य प्रायश्चित्तं लघुको मासः । झुषिरंगृह्णतश्चत्वारो लघुका अपरिशाटिमपिगृह्णतश्चत्वारो लघुका न केवलं प्रायश्चित्तं किन्त्वाज्ञादयश्चदोषाः । तथा यद्यग्निना For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy