________________
उद्देशक :
:- ८, मूल - १८७, [ भा. ३३७८]
३२३
ऋतौ ऋतुबद्धे काले वर्षाकाले वा पर्युषितस्तस्मिन् गाहे सूत्रे स्त्रीत्वं प्राकृतत्वात्तदेवमुत्तरत्रापि तस्मिन् प्रदेशेऽन्तर्बहिरादिलक्षणे तस्मिन्नवकाशान्तरे द्वयोर्मध्यभागलक्षणे यत् यत् शय्यासंस्तारकं शय्यासंस्तारकभूमि लाभस्तत् ममैव स्यादिति ब्रूते । तत्र यदि स्थविरास्तस्था शठभावमवगम्यानुजानन्ति, तदातस्यैवस्यादथ से तस्य शठभावंमवबुध्य स्थविरा नानुजानते । एवं तर्हि से तस्य कल्पते यथा रात्निकतया यथा रत्नाधिकतया शय्यासंस्तारकं शय्यासंस्तारकभूमिं परिग्रहीतुमिति सूत्रसंक्षेपार्थः । [भा. ३३७९] गाहाघरे गिया एगठा होंति उग्गहे तिविहो । उउबद्धे वासासु य वुड्डावासे य नाणत्तं ।।
वृ-गाहा इति धरमिति गिहमिति वा एते त्रयोऽप्येकार्थास्तच्च गृहं त्रिविधे अवग्रहभवति । तद्यथाऋतुबद्धसाधर्मिकावग्रहे वर्षावाससाधर्मिकावग्रहे तत्रऋतुरिति ऋतुबद्धावग्रहो गृहीतः । पज्जोसविते इत्यनेन वर्षावग्रहः । एतयोर्द्वयोरप्यवग्रहयोरतः प्रविष्ट इति कृत्वा सामर्थ्यतस्तृतीयोऽपि वृद्धावासावग्रहो गृहीतस्तथा चाह-वृद्धावासे च तत्र त्रिष्नप्यवग्रहेषु यन्नानात्वं तत्प्रत्येकसूत्रेषु वक्ष्यामीति वाक्यशेषः । [भा. ३३८० ] चाउस्सालादि गिहं तत्थ पदेसोउ अंतो बाहिं वा ।
उवासंतरमो पुन अमुगाणं दोण्ह मज्झभि ।।
वृ- चतुःशालादिगृहमादिशद्बादेकशालद्विशालत्रिशाल परिग्रहः । तस्य प्रदेशा अन्तर बहिरासन्नदूरादि लक्षणी अवकाशान्तरं नाम अमुकयोर्द्वयोर्मध्यमिति । तदेवं कृता भाष्यकारेण विषमपदव्याख्या । [भा. ३३८१] खेत्तस्सउ संकमणे कारण अन्नत्थ पठ्ठविज्जूंतो । पुव्वुद्दिठे तं मि उउवासे सुत्तनिद्देसो ||
वृ- आचार्य ऋतुबद्धकालनिमित्तं वर्षाकालनिमित्तं वा अन्यत् क्षेत्रं संक्रमितुमना अजायत । तत क्षेत्रस्य संक्रमणे कर्तव्येऽन्यस्मिन् वा आत्मनः कारणे समुत्पन्ने कंचित्साधुमन्यत्र प्रस्थापयेत् । स च प्रस्थाप्यमानः पूर्वोद्दिष्टे तस्न्निवकाशे आचार्यान् विज्ञयति । अस्मिन् प्रस्तावेऽधिकृतसूत्रस्य निर्देशो भणनं । इयमत्र भावना योऽसौ प्रस्थाप्यते तेन तत् गृहं दृष्टं यदि वा योऽन्यः पूर्वं क्षेत्रप्रत्युपेक्षणाय गतस्तेन तस्य सम्यक्कथितंयथाऽमुक प्रदेशो निवादोऽमुकः प्रवातोऽमुकः साधारणोऽमुकः सुखावहोऽमुको दुःखावहोऽमुकः सालोकोऽमुको निरालोकस्ततः स प्रस्थाप्यमान आचार्यं विज्ञपयति । यथा मम श्लेष्मा प्रस्पन्दतेऽथवा प्रवाते स्वपतोऽजीर्णमुपजायते यदि वा धर्ममध्यासिनुं न शक्नोमि । अथवा अमुकं अमुकंच साधुमहं सदैव प्रतिपृच्छामि तत एतयोम्रध्ये मम शय्यासंस्तारभूमिमनुजानीत यदि वा प्रस्थापित स्तत्र गत्वा तत् गृहमालोक्यात्मनः संसाधकं प्रदेशमाचार्यस्य श्लेष्मप्रस्पन्दनादिकारणप्रकाशनपुरस्सरं सन्देशयति यथामुकाममुकां मे संस्तारकभूमिमनुजानीतेति तथा चाह
[भा. ३३८२]
दीवेउं तं कज्जं गुरुं च अन्नं व सोउ अप्पाहे ।
ते विय तं भूयत्थं नाउं असढस्स वियरंति । ।
वृ- तत् श्लेष्मप्रस्पन्दनादिकार्यं दीपयित्वा प्रकाश्य गुरुमाचार्यमन्यं वा स्पर्धकपतिमुपाध्यायादिकं अप्पाहेति सन्देशयति । तेऽपि च गुरवोऽन्ये वा यत्सन्दिष्टं साक्षात्कथितं वा तत् भूतार्थं यथावस्थितं ज्ञात्वा तस्या शठस्य तां शय्यासंस्तारकभूमिं वितरन्ति ।
[भा. ३३८३]
Jain Education International
अह पुन कन्दप्पातीहिमग्गते तो उ तस्स न दलंति । एयं तु पिंडसुत्ते पत्तेय इहं तु वुच्छमि ।।
For Private & Personal Use Only
www.jainelibrary.org