SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ व्यवहार- छेदसूत्रम् - २- ७ /१८६ ३२० - निमित्तविशेषं ज्ञात्वा पृष्ट्वा भद्रकंपूर्वमनुज्ञापयेत् प्रान्तमज्ञातं वा मध्येएए विहिणाउ सोणुन्नवितो जयावएज्जाहि । [भा. ३३६०] राया किं देमित्ति यं जं दिनं अन्नराईहिं ।। वृ- एतेनान्तरोदितेन विधिना सोनुज्ञापितो राजा यदा वदेत् किं ददामीति तदा वक्तव्यं यद्दत्तमन्यै राजभिस्तद्देहीति । [भा. ३३६१] तो अनुजा अजाणतो भणति तेहिं किं दिन्नं । पायोग्गंतिय भणिए किं पाउग्गं इमं सुणसु ।। वृ एवमुक्ते जानानः सर्वमनुजानाति, अज्ञायको ब्रूते तैरन्यैराजादिभिः किं दत्तं तत्र प्रायोग्यमिति भणितव्यं तस्मिन् भणिते पुनर्ब्रूत्ते किं प्रायोग्यमिति । ततो वक्तव्यं शृणुत इदं प्रायोग्यं तदेवाह - [भा. ३३६२] आहार उवहि सेज्जा ठाणनिसीयण तुयट्टगमनादी । श्रीपुरिसाण य दिक्खा दिन्ना नोपुव्वराइहिं ।। वृ- नो अस्माकं पूर्वराज्ञैराहारउपधिः शय्यास्थानमूर्ध्वस्थानं निषदनं त्वगवर्तो गमनमादिशब्दादागमनपरिग्रहस्तथा स्त्रीपुरुषाणां दीक्षाऽनुज्ञाद्वारेण दत्ता | [भा. ३३६३] भद्दो सव्वं वियरइपंतो पुन दिक्खवज्जमियराणि । अनु सठाइम काउ नितेगुरुगाय आणादी ।। वृ एवं कथिते सति यो भद्रकः स सर्वं वितरति प्रान्तः पुनर्दीक्षावर्जमितराणि सर्वाप्यप्याहारादीनि अनुजानाति प्रव्रज्यां पुनर्नानुजानाति । तत्र यदि तस्य राज्ञोऽनुशिष्टिमकृत्वा आदिशब्दात् विद्यादिवा प्रभुकरणं वा अकृत्वा यदि तद्विषयात् निर्गच्छन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च दोषाः । [भा. ३३६४] चेइय सावगपव्वइउ काय अतरंत बालवुड्डाय । चत्ता अजंगमाविय अभत्ति तित्थस्स परिहानी ।। वृ- अन्यच्च चैत्यानितेन परित्यक्तानि श्रावका ये च प्रव्रजितुकामास्तथा अतरन्तोग्लाना बाला वृद्धा अजङ्गमाश्च ते सर्वे परित्यक्ता अभक्तिस्तीर्थकराज्ञा खण्डनात् । तीर्थस्य च परिहानिरापादिता । तथा हि-ये तत्र विषये परिव्रजितुकामास्ते न प्रव्रजिष्यन्ति श्रावका अपि सम्यक्त्वमणुव्रतानि च गृह्णन्तो न ग्रहीष्यन्ति न ग्रहीष्यन्ति ततो भवति तीर्थस्य व्यवच्छेदः । यद्यैवं तर्हि तत्रैव तिष्ठन्तु । तत्राप्याह[भा. ३३६५ ] अत्यंताण वि गुरुगा अभत्तितित्थस्सहानि जा वृत्ता । भणमाण भणवित्ता अच्छंति अनिच्छिवच्च॑ति ।। वृ- तत्र तिष्ठतामपि प्रायश्चित्तं चत्वारो गुरुका मासाः देशान्तरे भव्यपौण्डरीक प्रतिबोधनलाभतो भ्रष्टत्वात्तथा तीर्थकराणामभक्ति स्तिष्ठद्भिः कृता तदाज्ञा खण्डनात् तीर्थस्य हानिरापादितया स्वयमेव तेन राज्ञोक्ता स्त्रीपुरुषा न दीक्षितव्या इति यद्येवं तर्हि किं कर्तव्यमत आह- स्वयं भणन्तः प्रज्ञापयन्तेऽन्येभणयंत स्तिष्ठन्ति तथापि चेत् स नेच्छेत् तर्हि ततो देशात् व्रजन्ति [भा. ३३६६ ] अहपुन हवेज्ज दोन्नी रज्जाई तस्स नरवरिंदस्स । तहियं अनुजाणंतो दोसुविरज्जेसु अप्पबहुं ।। वृ- अथ पुनस्तस्य नरवरेन्द्रस्य स्वयमन्यैर्वा प्रज्ञाप्यमानस्य कदाचित् द्वे राज्ये भवतस्तत्र तयोर्द्वयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy