________________
उद्देशक :- ७, मूल- १८६, [भा. ३३५४]
विभज्यभङ्गीकृतं व्यवच्छिन्नं यत्र नन्दमौर्याणामिव वंशो व्यवच्छिन्नः । तत्थ उ अनुन्नविज्जइ भिक्खुभावठमोग्गहो निययं । दिक्खादि भिक्खुभावो अहवा तइयव्वयादीउ ।।
[भा. ३३५५]
वृ-तत्र नियतमवश्यंभावेन भिक्षुभावार्थं यथावस्थितभिक्षुभावसम्पादनायानुज्ञाप्यते । अथ कोऽसौ भिक्षुभाव इत्याह- दीक्षादिरादि शब्दात्सम्यक् ज्ञानादि परिग्रहो भिक्षुभावोऽथवा तृतीयव्रतादिकं भिक्षुभावः । तत्रैव भिक्षाशब्दस्य परमार्थत्वात्रूढत्वात्तदेवं कृता सूत्र व्याख्या । सम्प्रति निर्युक्तिः रन्नाकालगयंमी अधिरगुरुगा अणुन्नव तंमि । आणादिणोयदोसा विराधना इमेसु ठाणेसु ।।
[भा. ३३५६ ]
वृ - राज्ञि कालगते ये द्वौ वा त्रयो वा दायिनस्तेषांमध्येयः स्थिरः सोऽनुज्ञापयितव्यः । यदि पुनरस्थिर मनुज्ञापयन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च दोषास्तथा विराधना आत्मविराधना संयमविराधना वा एषु वक्ष्यमाणेषु स्थानेषु तान्येवाह
[भा. ३३५७]
ध्रुवमन्ने तस्स भज्झेव एक्केव मुक्कसंनाहो । ददेन्नेगयरपदोसो अणनुन्नवणे थिरे गुरुगा ।।
वृ- ध्रुवमन्यस्मिन् अन्यवंशजे अस्थिरे तस्य वा पूर्वराजस्य सम्बन्धिनां दायिनामेकस्मिन् अस्थिरे संयतैरनुज्ञापिते स चिन्तयति । एते भट्टारका जानन्ति यो राजा भविष्यति ततोऽहमनुज्ञापितो यदि पुनरितरस्यापि राज्यमभविष्यत् । ततो नाहमनुज्ञापयिष्ये इति स तथा विचिन्त्य नास्ति तथा भावस्थान्यथा भाव इति स एको मुक्त सन्नाहो वर्त्तते । तंच विश्वस्तंज्ञात्वाऽन्यादासोऽन्येन दायादादिना मारितो राज्यमधिष्ठितं ततः स राजा चिन्तयति । संयतैर्ममामित्रः परिगृहीतो येन कारणेनसोऽवग्रहमनुज्ञापितस्ततः सप्रद्विष्टो द्वयोरेकतरस्य प्रद्वेषं कुर्यात् । किमुक्तं भवति ? निर्विषयत्वादि कुर्यात् जीवचारित्रयोर्वाभेदंकुर्यात् तस्मात्यः स्थिरः सोऽनुज्ञापयितव्योऽननुज्ञापने प्रायश्चित्तं चत्वारो गुरुकाः । [भा. ३३५८] अणनुन्नविह दोसा पच्छावा अप्पितो अवन्नावा । पत्ते पुव्वममंगलनिच्छुभण पदोसपत्थारो ।।
वृ- यदि स्थिरो नानुज्ञाप्यते तदा एतस्मिन्ननुज्ञापिते दोषाः सर्वे सामान्ये पाषण्डाः समीपमागता निर्ग्रन्थाः पुनरवज्ञां कृत्वा स्थितास्तः प्रद्वेषतो निष्काशनादि कुर्यात् । तस्माद्व्यवच्छिन्ने वंशे सोऽवश्यमवग्रहमनुज्ञापयितव्यः । किं पूर्वं पश्चान्मध्ये वा तत्र यदि सवैरन्यैः पाषण्डैरनुज्ञापिते स पश्चादनुज्ञाप्पते ततः स चिन्तयति-अहमेतेषामप्रियोऽवज्ञा या ममैतैः क्रियते तेन पश्चादागताः । अथ प्राप्ते राज्ये पूर्वमनुज्ञाप्यते । तदा कदाचिदमङ्गलंमन्येत ततो निच्छुभणं निष्काशनं कुर्यात्प्रद्वेषतः प्रस्तारो जीविताद्ध्यपरोपणं क्रियते । तस्मान्मध्येऽनुज्ञापयितव्यो यदि पुनर्भद्रक इति ज्ञातो भवति पूर्वं चानुज्ञाप्यमानो मङ्गलमितिमन्यते तदा पूर्वमप्यनुज्ञापनीयः । अथ कथं स स्थिरो ज्ञातव्यः कथंवा भद्रकः कथं वा पूर्वमनुज्ञाप्यमानो मङ्गलं मन्यते इति तत आह
[ भा. ३३५९] उहादी आभोगणा निमित्तविसएण वावि नाऊणं । भद्दगपुव्वा मणुना वयंतमनाएय मज्झमि ।।
३१९
Jain Education International
वृ- अवध्यादिनाऽतिशयेनादिशब्दान्मनः । पर्यवज्ञान श्रुतातिशयविशेषपरिग्रहोऽथवा निमित्तविशेषेणाथात्मनोऽवध्याद्यतिशयो निमित्तविशेषो वा न विद्यते तदा अन्यानवध्याद्यतिशयिनो
For Private & Personal Use Only
-
www.jainelibrary.org